Original

तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः ।यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् ।तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि ॥ ३४ ॥

Segmented

तथा एव अङ्गिरसः पुत्रः सुर-असुर-नमस्कृतः यद् वेद शास्त्रम् तत् च अपि कृत्स्नम् अस्मिन् प्रतिष्ठितम् तव पुत्रे महा-बाहौ साङ्ग-उपाङ्गम् महात्मनि

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
असुर असुर pos=n,comp=y
नमस्कृतः नमस्कृ pos=va,g=m,c=1,n=s,f=part
यद् यद् pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
पुत्रे पुत्र pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
बाहौ बाहु pos=n,g=m,c=7,n=s
साङ्ग साङ्ग pos=a,comp=y
उपाङ्गम् उपाङ्ग pos=n,g=n,c=1,n=s
महात्मनि महात्मन् pos=a,g=m,c=7,n=s