Original

जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् ।तस्यामस्य जज्ञे प्राचिन्वान् ।यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् ।ततस्तस्य प्राचिन्वत्वम् ॥ १२ ॥

Segmented

जनमेजयः खलु अनन्ताम् नाम उपयेमे माधवीम् तस्याम् अस्य जज्ञे प्राचिन्वान् यः प्राचीम् दिशम् जिगाय यावत् सूर्य-उदयात् ततस् तस्य

Analysis

Word Lemma Parse
जनमेजयः जनमेजय pos=n,g=m,c=1,n=s
खलु खलु pos=i
अनन्ताम् अनन्ता pos=n,g=f,c=2,n=s
नाम नाम pos=i
उपयेमे उपयम् pos=v,p=3,n=s,l=lit
माधवीम् माधवी pos=n,g=f,c=2,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
प्राचिन्वान् प्राचिन्वन्त् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
प्राचीम् प्राञ्च् pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s
जिगाय जि pos=v,p=3,n=s,l=lit
यावत् यावत् pos=i
सूर्य सूर्य pos=n,comp=y
उदयात् उदय pos=n,g=m,c=5,n=s
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s