Original

सर्वामिमां पृथिवीं निर्जिगाय प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः ।मेध्यानश्वानेकशफान्सुरूपांस्तदा देवाः पुण्यभाजो भवन्ति ॥ २२ ॥

Segmented

सर्वाम् इमाम् पृथिवीम् निर्जिगाय प्रस्थे बद्ध्वा हि अददम् ब्राह्मणेभ्यः मेध्यान् अश्वान् एकशफान् सुरूपांस् तदा देवाः पुण्य-भाजः भवन्ति

Analysis

Word Lemma Parse
सर्वाम् सर्व pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
निर्जिगाय निर्जि pos=v,p=3,n=s,l=lit
प्रस्थे प्रस्थ pos=n,g=m,c=7,n=s
बद्ध्वा बन्ध् pos=vi
हि हि pos=i
अददम् दा pos=v,p=1,n=s,l=lun
ब्राह्मणेभ्यः ब्राह्मण pos=n,g=m,c=4,n=p
मेध्यान् मेध्य pos=a,g=m,c=2,n=p
अश्वान् अश्व pos=n,g=m,c=2,n=p
एकशफान् एकशफ pos=n,g=m,c=2,n=p
सुरूपांस् सुरूप pos=a,g=m,c=2,n=p
तदा तदा pos=i
देवाः देव pos=n,g=m,c=1,n=p
पुण्य पुण्य pos=a,comp=y
भाजः भाज् pos=a,g=m,c=1,n=p
भवन्ति भू pos=v,p=3,n=p,l=lat