Original

प्रतर्दन उवाच ।पृच्छामि त्वां स्पृहणीयरूप प्रतर्दनोऽहं यदि मे सन्ति लोकाः ।यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ १३ ॥

Segmented

प्रतर्दन उवाच पृच्छामि त्वाम् स्पृहणीय-रूप प्रतर्दनो ऽहम् यदि मे सन्ति लोकाः यदि अन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञम् त्वाम् तस्य धर्मस्य मन्ये

Analysis

Word Lemma Parse
प्रतर्दन प्रतर्दन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
स्पृहणीय स्पृह् pos=va,comp=y,f=krtya
रूप रूप pos=n,g=m,c=8,n=s
प्रतर्दनो प्रतर्दन pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
यदि यदि pos=i
मे मद् pos=n,g=,c=6,n=s
सन्ति अस् pos=v,p=3,n=p,l=lat
लोकाः लोक pos=n,g=m,c=1,n=p
यदि यदि pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
यदि यदि pos=i
वा वा pos=i
दिवि दिव् pos=n,g=m,c=7,n=s
श्रिताः श्रि pos=va,g=m,c=1,n=p,f=part
क्षेत्रज्ञम् क्षेत्रज्ञ pos=a,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
धर्मस्य धर्म pos=n,g=m,c=6,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat