Original

येषामपरिमेयानि नामधेयानि सर्वशः ।तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत ।महाभागान्देवकल्पान्सत्यार्जवपरायणान् ॥ ५१ ॥

Segmented

येषाम् अपरिमेयानि नामधेयानि सर्वशः तेषाम् तु ते यथामुख्यम् कीर्तयिष्यामि भारत महाभागान् देव-कल्पान् सत्य-आर्जव-परायणान्

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
अपरिमेयानि अपरिमेय pos=a,g=n,c=1,n=p
नामधेयानि नामधेय pos=n,g=n,c=1,n=p
सर्वशः सर्वशस् pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
यथामुख्यम् यथामुख्यम् pos=i
कीर्तयिष्यामि कीर्तय् pos=v,p=1,n=s,l=lrt
भारत भारत pos=n,g=m,c=8,n=s
महाभागान् महाभाग pos=a,g=m,c=2,n=p
देव देव pos=n,comp=y
कल्पान् कल्प pos=a,g=m,c=2,n=p
सत्य सत्य pos=n,comp=y
आर्जव आर्जव pos=n,comp=y
परायणान् परायण pos=n,g=m,c=2,n=p