Original

दिवस्पृशोऽथ संघुष्टाः पक्षिभिर्मधुरस्वरैः ।विरेजुः पादपास्तत्र विचित्रकुसुमाम्बराः ॥ ९ ॥

Segmented

दिव-स्पृशः ऽथ संघुष्टाः पक्षिभिः मधुर-स्वरैः विरेजुः पादपाः तत्र विचित्र-कुसुम-अम्बराः

Analysis

Word Lemma Parse
दिव दिव pos=n,comp=y
स्पृशः स्पृश् pos=a,g=m,c=1,n=p
ऽथ अथ pos=i
संघुष्टाः संघुष् pos=va,g=m,c=1,n=p,f=part
पक्षिभिः पक्षिन् pos=n,g=m,c=3,n=p
मधुर मधुर pos=a,comp=y
स्वरैः स्वर pos=n,g=m,c=3,n=p
विरेजुः विराज् pos=v,p=3,n=p,l=lit
पादपाः पादप pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
विचित्र विचित्र pos=a,comp=y
कुसुम कुसुम pos=n,comp=y
अम्बराः अम्बर pos=n,g=m,c=1,n=p