Original

तेषां तत्र प्रवालेषु पुष्पभारावनामिषु ।रुवन्ति रावं विहगाः षट्पदैः सहिता मृदु ॥ १० ॥

Segmented

तेषाम् तत्र प्रवालेषु पुष्प-भार-अवनामिन् रुवन्ति रावम् विहगाः षट्पदैः सहिता मृदु

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
प्रवालेषु प्रवाल pos=n,g=m,c=7,n=p
पुष्प पुष्प pos=n,comp=y
भार भार pos=n,comp=y
अवनामिन् अवनामिन् pos=a,g=m,c=7,n=p
रुवन्ति रु pos=v,p=3,n=p,l=lat
रावम् राव pos=n,g=m,c=2,n=s
विहगाः विहग pos=n,g=m,c=1,n=p
षट्पदैः षट्पद pos=n,g=m,c=3,n=p
सहिता सहित pos=a,g=m,c=1,n=p
मृदु मृदु pos=a,g=n,c=2,n=s