Original

अनेन त्वं मनुष्याणां देवानामपि चाहवे ।रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा ।भविष्यसि न संदेहः प्रवरारिनिबर्हणे ॥ २३ ॥

Segmented

अनेन त्वम् मनुष्याणाम् देवानाम् अपि च आहवे रक्षः-पिशाच-दैत्यानाम् नागानाम् च अधिकः सदा भविष्यसि न संदेहः प्रवर-अरि-निबर्हणे

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=m,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
pos=i
आहवे आहव pos=n,g=m,c=7,n=s
रक्षः रक्षस् pos=n,comp=y
पिशाच पिशाच pos=n,comp=y
दैत्यानाम् दैत्य pos=n,g=m,c=6,n=p
नागानाम् नाग pos=n,g=m,c=6,n=p
pos=i
अधिकः अधिक pos=a,g=m,c=1,n=s
सदा सदा pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt
pos=i
संदेहः संदेह pos=n,g=m,c=1,n=s
प्रवर प्रवर pos=a,comp=y
अरि अरि pos=n,comp=y
निबर्हणे निबर्हण pos=a,g=m,c=7,n=s