Original

यदि वायं विहितः शंकरेण धर्मोऽधर्मो वा नात्र ममापराधः ।गृह्णन्त्विमे विधिवत्पाणिमस्या यथोपजोषं विहितैषां हि कृष्णा ॥ ४ ॥

Segmented

यदि वा अयम् विहितः शंकरेण धर्मो ऽधर्मो वा न अत्र मे अपराधः गृह्णन्तु इमे विधिवत् पाणिम् अस्या यथोपजोषम् विहिता एषाम् हि कृष्णा

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
विहितः विधा pos=va,g=m,c=1,n=s,f=part
शंकरेण शंकर pos=n,g=m,c=3,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽधर्मो अधर्म pos=n,g=m,c=1,n=s
वा वा pos=i
pos=i
अत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s
अपराधः अपराध pos=n,g=m,c=1,n=s
गृह्णन्तु ग्रह् pos=v,p=3,n=p,l=lot
इमे इदम् pos=n,g=m,c=1,n=p
विधिवत् विधिवत् pos=i
पाणिम् पाणि pos=n,g=m,c=2,n=s
अस्या इदम् pos=n,g=f,c=6,n=s
यथोपजोषम् यथोपजोषम् pos=i
विहिता विधा pos=va,g=f,c=1,n=s,f=part
एषाम् इदम् pos=n,g=m,c=6,n=p
हि हि pos=i
कृष्णा कृष्णा pos=n,g=f,c=1,n=s