Original

वैशंपायन उवाच ।ततो व्यासः परमोदारकर्मा शुचिर्विप्रस्तपसा तस्य राज्ञः ।चक्षुर्दिव्यं प्रददौ तान्स सर्वान्राजापश्यत्पूर्वदेहैर्यथावत् ॥ ३६ ॥

Segmented

वैशंपायन उवाच ततो व्यासः परम-उदार-कर्मा शुचिः विप्रः तपसा तस्य राज्ञः चक्षुः दिव्यम् प्रददौ तान् स सर्वान् राजा अपश्यत् पूर्व-देहैः यथावत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
व्यासः व्यास pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
उदार उदार pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
विप्रः विप्र pos=n,g=m,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
चक्षुः चक्षुस् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
राजा राजन् pos=n,g=m,c=1,n=s
अपश्यत् पश् pos=v,p=3,n=s,l=lan
पूर्व पूर्व pos=n,comp=y
देहैः देह pos=n,g=m,c=3,n=p
यथावत् यथावत् pos=i