Original

व्यास उवाच ।एतच्छ्रुत्वा वज्रपाणिर्वचस्तु देवश्रेष्ठं पुनरेवेदमाह ।वीर्येणाहं पुरुषं कार्यहेतोर्दद्यामेषां पञ्चमं मत्प्रसूतम् ॥ २८ ॥

Segmented

व्यास उवाच एतत् श्रुत्वा वज्रपाणिः वचः तु देव-श्रेष्ठम् पुनः एव इदम् आह वीर्येण अहम् पुरुषम् कार्य-हेतोः दद्याम् एषाम् पञ्चमम् मद्-प्रसूतम्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तु तु pos=i
देव देव pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
एव एव pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
वीर्येण वीर्य pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
कार्य कार्य pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
एषाम् इदम् pos=n,g=m,c=6,n=p
पञ्चमम् पञ्चम pos=a,g=m,c=2,n=s
मद् मद् pos=n,comp=y
प्रसूतम् प्रसू pos=va,g=m,c=2,n=s,f=part