Original

शेषोऽप्येवं भविता वो न संशयो योनिं सर्वे मानुषीमाविशध्वम् ।तत्र यूयं कर्म कृत्वाविषह्यं बहूनन्यान्निधनं प्रापयित्वा ॥ २५ ॥

Segmented

शेषो अपि एवम् भविता वो न संशयो योनिम् सर्वे मानुषीम् आविशध्वम् तत्र यूयम् कर्म कृत्वा अविषह्यम् बहून् अन्यान् निधनम् प्रापयित्वा

Analysis

Word Lemma Parse
शेषो शेष pos=n,g=m,c=1,n=s
अपि अपि pos=i
एवम् एवम् pos=i
भविता भू pos=v,p=3,n=s,l=lrt
वो त्वद् pos=n,g=,c=6,n=p
pos=i
संशयो संशय pos=n,g=m,c=1,n=s
योनिम् योनि pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
मानुषीम् मानुष pos=a,g=f,c=2,n=s
आविशध्वम् आविश् pos=v,p=2,n=p,l=lot
तत्र तत्र pos=i
यूयम् त्वद् pos=n,g=,c=1,n=p
कर्म कर्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
अविषह्यम् अविषह्य pos=a,g=n,c=2,n=s
बहून् बहु pos=a,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
निधनम् निधन pos=n,g=n,c=2,n=s
प्रापयित्वा प्रापय् pos=vi