Original

ततो यमो दीक्षितस्तत्र राजन्नामारयत्किंचिदपि प्रजाभ्यः ।ततः प्रजास्ता बहुला बभूवुः कालातिपातान्मरणात्प्रहीणाः ॥ २ ॥

Segmented

ततो यमो दीक्षितः तत्र राजन् न अमारयत् किंचिद् अपि प्रजाभ्यः ततः प्रजाः ताः बहुला बभूवुः काल-अतिपातान् मरणात् प्रहीणाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
यमो यम pos=n,g=m,c=1,n=s
दीक्षितः दीक्ष् pos=va,g=m,c=1,n=s,f=part
तत्र तत्र pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अमारयत् मारय् pos=v,p=3,n=s,l=lan
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अपि अपि pos=i
प्रजाभ्यः प्रजा pos=n,g=f,c=5,n=p
ततः ततस् pos=i
प्रजाः प्रजा pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=1,n=p
बहुला बहुल pos=a,g=f,c=1,n=p
बभूवुः भू pos=v,p=3,n=p,l=lit
काल काल pos=n,comp=y
अतिपातान् अतिपात pos=n,g=m,c=2,n=p
मरणात् मरण pos=n,g=n,c=5,n=s
प्रहीणाः प्रहा pos=va,g=m,c=1,n=p,f=part