Original

तदाचड्ढ्वं ज्ञातिकुलानुपूर्वीं पदं शिरःसु द्विषतां कुरुध्वम् ।प्रह्लादयध्वं हृदयं ममेदं पाञ्चालराजस्य सहानुगस्य ॥ १७ ॥

Segmented

तद् आचड्ढ्वम् ज्ञाति-कुल-आनुपूर्वाम् पदम् शिरःसु द्विषताम् कुरुध्वम् प्रह्लादयध्वम् हृदयम् मे इदम् पाञ्चाल-राजस्य सहानुगस्य

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
आचड्ढ्वम् आचक्ष् pos=v,p=2,n=p,l=lot
ज्ञाति ज्ञाति pos=n,comp=y
कुल कुल pos=n,comp=y
आनुपूर्वाम् आनुपूर्व pos=n,g=f,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
शिरःसु शिरस् pos=n,g=n,c=7,n=p
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
कुरुध्वम् कृ pos=v,p=2,n=p,l=lot
प्रह्लादयध्वम् प्रह्लादय् pos=v,p=2,n=p,l=lot
हृदयम् हृदय pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
सहानुगस्य सहानुग pos=a,g=m,c=6,n=s