Original

विज्ञातुमिच्छत्यवनीश्वरो वः पाञ्चालराजो द्रुपदो वरार्हाः ।लक्ष्यस्य वेद्धारमिमं हि दृष्ट्वा हर्षस्य नान्तं परिपश्यते सः ॥ १६ ॥

Segmented

विज्ञातुम् इच्छति अवनीश्वरः वः पाञ्चाल-राजः द्रुपदो वर-अर्हाः लक्ष्यस्य वेद्धारम् इमम् हि दृष्ट्वा हर्षस्य न अन्तम् परिपश्यते सः

Analysis

Word Lemma Parse
विज्ञातुम् विज्ञा pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
अवनीश्वरः अवनीश्वर pos=n,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=2,n=p
पाञ्चाल पाञ्चाल pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
द्रुपदो द्रुपद pos=n,g=m,c=1,n=s
वर वर pos=a,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p
लक्ष्यस्य लक्ष्य pos=n,g=n,c=6,n=s
वेद्धारम् वेद्धृ pos=a,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
हि हि pos=i
दृष्ट्वा दृश् pos=vi
हर्षस्य हर्ष pos=n,g=m,c=6,n=s
pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
परिपश्यते परिपश् pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s