Original

यौ तौ कुमाराविव कार्त्तिकेयौ द्वावश्विनेयाविति मे प्रतर्कः ।मुक्ता हि तस्माज्जतुवेश्मदाहान्मया श्रुताः पाण्डुसुताः पृथा च ॥ २१ ॥

Segmented

यौ तौ कुमारौ इव कार्त्तिकेयौ द्वौ अश्विनेयौ इति मे प्रतर्कः मुक्ता हि तस्मात् जतु-वेश्म-दाहात् मया श्रुताः पाण्डु-सुताः पृथा च

Analysis

Word Lemma Parse
यौ यद् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
कुमारौ कुमार pos=n,g=m,c=1,n=d
इव इव pos=i
कार्त्तिकेयौ कार्त्तिकेय pos=n,g=m,c=1,n=d
द्वौ द्वि pos=n,g=m,c=1,n=d
अश्विनेयौ अश्विनेय pos=n,g=m,c=1,n=d
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
प्रतर्कः प्रतर्क pos=n,g=m,c=1,n=s
मुक्ता मुच् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
जतु जतु pos=n,comp=y
वेश्म वेश्मन् pos=n,comp=y
दाहात् दाह pos=n,g=m,c=5,n=s
मया मद् pos=n,g=,c=3,n=s
श्रुताः श्रु pos=va,g=m,c=1,n=p,f=part
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
पृथा पृथा pos=n,g=f,c=1,n=s
pos=i