Original

वैशंपायन उवाच ।तेऽलंकृताः कुण्डलिनो युवानः परस्परं स्पर्धमानाः समेताः ।अस्त्रं बलं चात्मनि मन्यमानाः सर्वे समुत्पेतुरहंकृतेन ॥ १ ॥

Segmented

वैशंपायन उवाच ते ऽलंकृताः कुण्डलिनो युवानः परस्परम् स्पर्धमानाः समेताः अस्त्रम् बलम् च आत्मनि मन्यमानाः सर्वे समुत्पेतुः अहंकृतेन

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
ऽलंकृताः अलंकृ pos=va,g=m,c=1,n=p,f=part
कुण्डलिनो कुण्डलिन् pos=a,g=m,c=1,n=p
युवानः युवन् pos=n,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
स्पर्धमानाः स्पृध् pos=va,g=m,c=1,n=p,f=part
समेताः समे pos=va,g=m,c=1,n=p,f=part
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
pos=i
आत्मनि आत्मन् pos=n,g=m,c=7,n=s
मन्यमानाः मन् pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
अहंकृतेन अहंकृत pos=a,g=n,c=3,n=s