Original

उल्मुकं तु समुद्यम्य तेषामग्रे धनंजयः ।प्रकाशार्थं ययौ तत्र रक्षार्थं च महायशाः ॥ ३ ॥

Segmented

उल्मुकम् तु समुद्यम्य तेषाम् अग्रे धनंजयः प्रकाश-अर्थम् ययौ तत्र रक्षा-अर्थम् च महा-यशाः

Analysis

Word Lemma Parse
उल्मुकम् उल्मुक pos=n,g=n,c=2,n=s
तु तु pos=i
समुद्यम्य समुद्यम् pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
अग्रे अग्र pos=n,g=n,c=7,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
प्रकाश प्रकाश pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
रक्षा रक्षा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s