Original

अपहृत्य गुरुं भारं पितॄणां संशितव्रतः ।जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ॥ ४३ ॥

Segmented

अपहृत्य गुरुम् भारम् पितॄणाम् संशित-व्रतः जरत्कारुः गतः स्वर्गम् सहितः स्वैः पितामहैः

Analysis

Word Lemma Parse
अपहृत्य अपहृ pos=vi
गुरुम् गुरु pos=a,g=m,c=2,n=s
भारम् भार pos=n,g=m,c=2,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
जरत्कारुः जरत्कारु pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
सहितः सहित pos=a,g=m,c=1,n=s
स्वैः स्व pos=a,g=m,c=3,n=p
पितामहैः पितामह pos=n,g=m,c=3,n=p