Original

ततो माद्री विचार्यैव जगाम मनसाश्विनौ ।तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ॥ १६ ॥

Segmented

ततो माद्री विचार्य एव जगाम मनसा अश्विनौ तौ आगत्य सुतौ तस्याम् जनयामासतुः यमौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
माद्री माद्री pos=n,g=f,c=1,n=s
विचार्य विचारय् pos=vi
एव एव pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
मनसा मनस् pos=n,g=n,c=3,n=s
अश्विनौ अश्विन् pos=n,g=m,c=2,n=d
तौ तद् pos=n,g=m,c=1,n=d
आगत्य आगम् pos=vi
सुतौ सुत pos=n,g=m,c=2,n=d
तस्याम् तद् pos=n,g=f,c=7,n=s
जनयामासतुः जनय् pos=v,p=3,n=d,l=lit
यमौ यम pos=n,g=m,c=2,n=d