Original

अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः ।व्युषिताश्वः समुद्रान्तां विजित्येमां वसुंधराम् ।अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् ॥ १३ ॥

Segmented

अपि अत्र गाथाम् गायन्ति ये पुराण-विदः जनाः व्युषिताश्वः समुद्रान्ताम् विजित्वा इमाम् वसुंधराम् अपालयत् सर्व-वर्णान् पिता पुत्रान् इव औरसान्

Analysis

Word Lemma Parse
अपि अपि pos=i
अत्र अत्र pos=i
गाथाम् गाथा pos=n,g=f,c=2,n=s
गायन्ति गा pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
पुराण पुराण pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
व्युषिताश्वः व्युषिताश्व pos=n,g=m,c=1,n=s
समुद्रान्ताम् समुद्रान्ता pos=n,g=f,c=2,n=s
विजित्वा विजि pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
अपालयत् पालय् pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
वर्णान् वर्ण pos=n,g=m,c=2,n=p
पिता पितृ pos=n,g=m,c=1,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
इव इव pos=i
औरसान् औरस pos=n,g=m,c=2,n=p