Original

अन्वजानात्ततो द्यूतं धृतराष्ट्रः सुतप्रियः ।तच्छ्रुत्वा वासुदेवस्य कोपः समभवन्महान् ॥ ९२ ॥

Segmented

अन्वजानात् ततो द्यूतम् धृतराष्ट्रः सुत-प्रियः तत् श्रुत्वा वासुदेवस्य कोपः समभवन् महान्

Analysis

Word Lemma Parse
अन्वजानात् अनुज्ञा pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
सुत सुत pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
कोपः कोप pos=n,g=m,c=1,n=s
समभवन् सम्भू pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s