Original

य इमं शुचिरध्यायं पठेत्पर्वणि पर्वणि ।अधीतं भारतं तेन कृत्स्नं स्यादिति मे मतिः ॥ २०६ ॥

Segmented

य इमम् शुचिः अध्यायम् पठेत् पर्वणि पर्वणि अधीतम् भारतम् तेन कृत्स्नम् स्याद् इति मे मतिः

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
अध्यायम् अध्याय pos=n,g=m,c=2,n=s
पठेत् पठ् pos=v,p=3,n=s,l=vidhilin
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
पर्वणि पर्वन् pos=n,g=n,c=7,n=s
अधीतम् अधी pos=va,g=n,c=1,n=s,f=part
भारतम् भारत pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s