Original

श्रुतवानसि मेधावी बुद्धिमान्प्राज्ञसंमतः ।येषां शास्त्रानुगा बुद्धिर्न ते मुह्यन्ति भारत ॥ १८४ ॥

Segmented

श्रुतवान् असि मेधावी बुद्धिमान् प्राज्ञ-संमतः येषाम् शास्त्र-अनुगा बुद्धिः न ते मुह्यन्ति भारत

Analysis

Word Lemma Parse
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
बुद्धिमान् बुद्धिमत् pos=a,g=m,c=1,n=s
प्राज्ञ प्राज्ञ pos=a,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part
येषाम् यद् pos=n,g=m,c=6,n=p
शास्त्र शास्त्र pos=n,comp=y
अनुगा अनुग pos=a,g=f,c=1,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
मुह्यन्ति मुह् pos=v,p=3,n=p,l=lat
भारत भारत pos=n,g=m,c=8,n=s