Original

यदाश्रौषं द्रोणपुत्रादिभिस्तैर्हतान्पाञ्चालान्द्रौपदेयांश्च सुप्तान् ।कृतं बीभत्समयशस्यं च कर्म तदा नाशंसे विजयाय संजय ॥ १५३ ॥

Segmented

यदा अश्रौषम् द्रोणपुत्र-आदिभिः तैः हतान् पाञ्चालान् द्रौपदेयान् च सुप्तान् कृतम् बीभत्सम् अयशस्यम् च कर्म तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
द्रोणपुत्र द्रोणपुत्र pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
हतान् हन् pos=va,g=m,c=2,n=p,f=part
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
द्रौपदेयान् द्रौपदेय pos=n,g=m,c=2,n=p
pos=i
सुप्तान् स्वप् pos=va,g=m,c=2,n=p,f=part
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
बीभत्सम् बीभत्स pos=a,g=n,c=2,n=s
अयशस्यम् अयशस्य pos=a,g=n,c=2,n=s
pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s