Original

यदा द्रोणो विविधानस्त्रमार्गान्विदर्शयन्समरे चित्रयोधी ।न पाण्डवाञ्श्रेष्ठतमान्निहन्ति तदा नाशंसे विजयाय संजय ॥ १३० ॥

Segmented

यदा द्रोणो विविधान् अस्त्र-मार्गान् विदर्शयन् समरे चित्र-योधी न पाण्डवान् श्रेष्ठतमान् निहन्ति तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
विविधान् विविध pos=a,g=m,c=2,n=p
अस्त्र अस्त्र pos=n,comp=y
मार्गान् मार्ग pos=n,g=m,c=2,n=p
विदर्शयन् विदर्शय् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
श्रेष्ठतमान् श्रेष्ठतम pos=a,g=m,c=2,n=p
निहन्ति निहन् pos=v,p=3,n=s,l=lat
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s