Original

यदाश्रौषं शुक्रसूर्यौ च युक्तौ कौन्तेयानामनुलोमौ जयाय ।नित्यं चास्माञ्श्वापदा व्याभषन्तस्तदा नाशंसे विजयाय संजय ॥ १२९ ॥

Segmented

यदा अश्रौषम् शुक्र-सूर्यौ च युक्तौ कौन्तेयानाम् अनुलोमौ जयाय नित्यम् च अस्मान् श्वापदाः व्याभषन्तस् तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
शुक्र शुक्र pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=2,n=d
pos=i
युक्तौ युज् pos=va,g=m,c=2,n=d,f=part
कौन्तेयानाम् कौन्तेय pos=n,g=m,c=6,n=p
अनुलोमौ अनुलोम pos=a,g=m,c=2,n=d
जयाय जय pos=n,g=m,c=4,n=s
नित्यम् नित्यम् pos=i
pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
श्वापदाः श्वापद pos=n,g=m,c=1,n=p
व्याभषन्तस् व्याभष् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s