Original

यदाश्रौषं भीष्ममत्यन्तशूरं हतं पार्थेनाहवेष्वप्रधृष्यम् ।शिखण्डिनं पुरतः स्थापयित्वा तदा नाशंसे विजयाय संजय ॥ १२६ ॥

Segmented

यदा अश्रौषम् भीष्मम् अत्यन्त-शूरम् हतम् पार्थेन आहवेषु अप्रधृष्यम् शिखण्डिनम् पुरतः स्थापयित्वा तदा न आशंसे विजयाय संजय

Analysis

Word Lemma Parse
यदा यदा pos=i
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अत्यन्त अत्यन्त pos=a,comp=y
शूरम् शूर pos=n,g=m,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
पार्थेन पार्थ pos=n,g=m,c=3,n=s
आहवेषु आहव pos=n,g=m,c=7,n=p
अप्रधृष्यम् अप्रधृष्य pos=a,g=m,c=2,n=s
शिखण्डिनम् शिखण्डिन् pos=n,g=m,c=2,n=s
पुरतः पुरतस् pos=i
स्थापयित्वा स्थापय् pos=vi
तदा तदा pos=i
pos=i
आशंसे आशंस् pos=v,p=1,n=s,l=lat
विजयाय विजय pos=n,g=m,c=4,n=s
संजय संजय pos=n,g=m,c=8,n=s