Original

अनर्घ्यम् अर्घ्येण तम् अद्रिनाथः स्वर्गौकसाम् अर्चितम् अर्चयित्वा ।आराधनायास्य सखीसमेतां समादिदेश प्रयतां तनूजाम् ॥

Segmented

अनर्घ्यम् अर्घ्येण तम् अद्रि-नाथः स्वर्गौकसाम् अर्चितम् अर्चयित्वा आराधनाय अस्य सखि-समेताम् समादिदेश प्रयताम् तनूजाम्

Analysis

Word Lemma Parse
अनर्घ्यम् अनर्घ्य pos=a,g=m,c=2,n=s
अर्घ्येण अर्घ्य pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
अद्रि अद्रि pos=n,comp=y
नाथः नाथ pos=n,g=m,c=1,n=s
स्वर्गौकसाम् स्वर्गौकस् pos=n,g=m,c=6,n=p
अर्चितम् अर्चय् pos=va,g=m,c=2,n=s,f=part
अर्चयित्वा अर्चय् pos=vi
आराधनाय आराधन pos=n,g=n,c=4,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
सखि सखी pos=n,comp=y
समेताम् समे pos=va,g=f,c=2,n=s,f=part
समादिदेश समादिस् pos=v,p=3,n=s,l=lit
प्रयताम् प्रयम् pos=va,g=f,c=2,n=s,f=part
तनूजाम् तनूजा pos=n,g=f,c=2,n=s