Original

सक्तिं लवाद् अपनयत्य् अनिले लतानां वैरोचनैर् द्विगुणिताः सहसा मयूखैः ।रोधोभुवां मुहुर् अमुत्र हिरण्मयीनां भासस् तडिद्विलसितानि विडम्बयन्ति ॥

Segmented

सक्तिम् लवाद् अपनी अनिले लतानाम् वैरोचनैः द्वि-गुणय् सहसा मयूखैः रोधस्-भुवि मुहुः अमुत्र हिरण्मयीनाम् भासस् तडित्-विलसितानि विडम्बयन्ति

Analysis

Word Lemma Parse
सक्तिम् सक्ति pos=n,g=f,c=2,n=s
लवाद् लव pos=n,g=m,c=5,n=s
अपनी अपनी pos=va,g=m,c=7,n=s,f=part
अनिले अनिल pos=n,g=m,c=7,n=s
लतानाम् लता pos=n,g=f,c=6,n=p
वैरोचनैः वैरोचन pos=n,g=m,c=3,n=p
द्वि द्वि pos=n,comp=y
गुणय् गुणय् pos=va,g=f,c=1,n=p,f=part
सहसा सहसा pos=i
मयूखैः मयूख pos=n,g=m,c=3,n=p
रोधस् रोधस् pos=n,comp=y
भुवि भू pos=n,g=f,c=7,n=s
मुहुः मुहुर् pos=i
अमुत्र अमुत्र pos=i
हिरण्मयीनाम् हिरण्मय pos=a,g=f,c=6,n=p
भासस् भास् pos=n,g=f,c=1,n=p
तडित् तडित् pos=n,comp=y
विलसितानि विलसित pos=n,g=n,c=2,n=p
विडम्बयन्ति विडम्बय् pos=v,p=3,n=p,l=lat