Original

क्रामद्भिर् घनपदवीम् अनेकसंख्यैस् तेजोभिः शुचिमणिजन्मभिर् विभिन्नः ।उस्राणां व्यभिचरतीव सप्तसप्तेः पर्यस्यन्न् इह निचयः सहस्रसंख्याम् ॥

Segmented

क्रामद्भिः घनपदवीम् अनेक-संख्यैः तेजोभिः शुचि-मणि-जन्मभिः विभिन्नः उस्राणाम् व्यभिचरति इव सप्तसप्तेः पर्यस्यन्न् इह निचयः सहस्र-संख्याम्

Analysis

Word Lemma Parse
क्रामद्भिः क्रम् pos=va,g=n,c=3,n=p,f=part
घनपदवीम् घनपदवी pos=n,g=f,c=2,n=s
अनेक अनेक pos=a,comp=y
संख्यैः संख्य pos=n,g=n,c=3,n=p
तेजोभिः तेजस् pos=n,g=n,c=3,n=p
शुचि शुचि pos=a,comp=y
मणि मणि pos=n,comp=y
जन्मभिः जन्मन् pos=n,g=n,c=3,n=p
विभिन्नः विभिद् pos=va,g=m,c=1,n=s,f=part
उस्राणाम् उस्र pos=n,g=m,c=6,n=p
व्यभिचरति व्यभिचर् pos=v,p=3,n=s,l=lat
इव इव pos=i
सप्तसप्तेः सप्तसप्ति pos=n,g=m,c=6,n=s
पर्यस्यन्न् पर्यस् pos=va,g=m,c=1,n=s,f=part
इह इह pos=i
निचयः निचय pos=n,g=m,c=1,n=s
सहस्र सहस्र pos=n,comp=y
संख्याम् संख्या pos=n,g=f,c=2,n=s