Original

अस्मिन्न् अगृह्यत पिनाकभृता सलीलम् आबद्धवेपथुर् अधीरविलोचनायाः ।विन्यस्तमङ्गलमहौषधिर् ईश्वरायाः स्रस्तोरगप्रतिसरेण करेण पाणिः ॥

Segmented

अस्मिन्न् अगृह्यत पिनाकभृता सलीलम् आबद्ध-वेपथुः अधीर-विलोचनायाः विन्यस्त-मङ्गल-महा-ओषधिः ईश्वरायाः स्रस्त-उरग-प्रतिसरेण करेण पाणिः

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=m,c=7,n=s
अगृह्यत ग्रह् pos=v,p=3,n=s,l=lan
पिनाकभृता पिनाकभृत् pos=n,g=m,c=3,n=s
सलीलम् सलील pos=a,g=n,c=1,n=s
आबद्ध आबन्ध् pos=va,comp=y,f=part
वेपथुः वेपथु pos=n,g=m,c=1,n=s
अधीर अधीर pos=a,comp=y
विलोचनायाः विलोचन pos=n,g=f,c=6,n=s
विन्यस्त विन्यस् pos=va,comp=y,f=part
मङ्गल मङ्गल pos=a,comp=y
महा महत् pos=a,comp=y
ओषधिः ओषधि pos=n,g=m,c=1,n=s
ईश्वरायाः ईश्वरा pos=n,g=f,c=6,n=s
स्रस्त स्रंस् pos=va,comp=y,f=part
उरग उरग pos=n,comp=y
प्रतिसरेण प्रतिसर pos=n,g=m,c=3,n=s
करेण कर pos=n,g=m,c=3,n=s
पाणिः पाणि pos=n,g=m,c=1,n=s