Original

ईशार्थम् अम्भसि चिराय तपश् चरन्त्या यादोविलङ्घनविलोलविलोचनायाः ।आलम्बताग्रकरम् अत्र भवो भवान्याः श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥

Segmented

ईश-अर्थम् अम्भसि चिराय तपः चरन्त्या यादः-विलङ्घन-विलोल-विलोचनायाः आलम्बत अग्रकरम् अत्र भवो भवान्याः च्युत्-निदाघ-सलिल-अङ्गुलिना करेण

Analysis

Word Lemma Parse
ईश ईश pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अम्भसि अम्भस् pos=n,g=n,c=7,n=s
चिराय चिराय pos=i
तपः तपस् pos=n,g=n,c=2,n=s
चरन्त्या चर् pos=va,g=f,c=6,n=s,f=part
यादः यादस् pos=n,comp=y
विलङ्घन विलङ्घन pos=n,comp=y
विलोल विलोल pos=a,comp=y
विलोचनायाः विलोचन pos=n,g=f,c=6,n=s
आलम्बत आलम्ब् pos=v,p=3,n=s,l=lan
अग्रकरम् अग्रकर pos=n,g=m,c=2,n=s
अत्र अत्र pos=i
भवो भव pos=n,g=m,c=1,n=s
भवान्याः भवानी pos=n,g=f,c=6,n=s
च्युत् च्युत् pos=va,comp=y,f=part
निदाघ निदाघ pos=n,comp=y
सलिल सलिल pos=n,comp=y
अङ्गुलिना अङ्गुलि pos=n,g=m,c=3,n=s
करेण कर pos=n,g=m,c=3,n=s