Original

मनःशिलाभङ्गनिभेन पश्चान् निरुध्यमानं निकरेण भासाम् ।व्यूढैर् उरोभिश् च विनुद्यमानं नभः ससर्पेव पुरः खगानाम् ॥

Segmented

मनःशिला-भङ्ग-निभेन पश्चान् निरुध्यमानम् निकरेण भासाम् व्यूढैः उरोभिः च विनुद्यमानम् नभः ससर्प इव पुरः खगानाम्

Analysis

Word Lemma Parse
मनःशिला मनःशिला pos=n,comp=y
भङ्ग भङ्ग pos=n,comp=y
निभेन निभ pos=a,g=m,c=3,n=s
पश्चान् पश्चात् pos=i
निरुध्यमानम् निरुध् pos=va,g=n,c=1,n=s,f=part
निकरेण निकर pos=n,g=m,c=3,n=s
भासाम् भास् pos=n,g=n,c=6,n=p
व्यूढैः व्यूह् pos=va,g=n,c=3,n=p,f=part
उरोभिः उरस् pos=n,g=n,c=3,n=p
pos=i
विनुद्यमानम् विनुद् pos=va,g=n,c=1,n=s,f=part
नभः नभस् pos=n,g=n,c=1,n=s
ससर्प सृप् pos=v,p=3,n=s,l=lit
इव इव pos=i
पुरः पुरस् pos=i
खगानाम् खग pos=n,g=m,c=6,n=p