Original

निःश्वासधूमैः स्थगितांशुजालं फणावताम् उत्फणमण्डलानाम् ।गच्छन्न् इवास्तं वपुर् अभ्युवाह विलोचनानां सुखम् उष्णरश्मिः ॥

Segmented

निःश्वास-धूमैः स्थगय्-अंशु-जालम् फणावताम् उत्फण-मण्डलानाम् गच्छन्न् इव अस्तम् वपुः अभ्युवाह विलोचनानाम् सुखम् उष्णरश्मिः

Analysis

Word Lemma Parse
निःश्वास निःश्वास pos=n,comp=y
धूमैः धूम pos=n,g=m,c=3,n=p
स्थगय् स्थगय् pos=va,comp=y,f=part
अंशु अंशु pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
फणावताम् फणावन्त् pos=n,g=m,c=6,n=p
उत्फण उत्फण pos=a,comp=y
मण्डलानाम् मण्डल pos=n,g=m,c=6,n=p
गच्छन्न् गम् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
वपुः वपुस् pos=n,g=n,c=2,n=s
अभ्युवाह अभिवह् pos=v,p=3,n=s,l=lit
विलोचनानाम् विलोचन pos=n,g=n,c=6,n=p
सुखम् सुख pos=a,g=n,c=2,n=s
उष्णरश्मिः उष्णरश्मि pos=n,g=m,c=1,n=s