Original

मनोरथः शुभकृतां यत्र यत्रैव गच्छति तत्र तत्रैव तत्पुण्यैः फलार्घेणाभिपूज्यते ॥

Segmented

मनोरथः शुभ-कृताम् यत्र यत्र एव गच्छति तत्र तत्र एव तद्-पुण्यैः फल-अर्घेण अभिपूज्यते

Analysis

Word Lemma Parse
मनोरथः मनोरथ pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
कृताम् कृत् pos=a,g=m,c=6,n=p
यत्र यत्र pos=i
यत्र यत्र pos=i
एव एव pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
तत्र तत्र pos=i
एव एव pos=i
तद् तद् pos=n,comp=y
पुण्यैः पुण्य pos=n,g=n,c=3,n=p
फल फल pos=n,comp=y
अर्घेण अर्घ pos=n,g=m,c=3,n=s
अभिपूज्यते अभिपूजय् pos=v,p=3,n=s,l=lat