Sri Vani Vilas Sanskrit Series. No. 10. Subhashitanivi OF Sriman Vedanta Desika WITH THE COMMENTARY RATNAPETIKA BY SRINIVASA SURI EDITED BY M. T. NARASIMHA AIYANGAR B.A.. M.R.A.S. Central College, Bangalore. SRIRANGAM : SRI VANI VILAS PRESS. 1908. Copyright Registered. ॥ श्रीः ॥ ॥ सुभाषितनीवी ॥ श्रीमद्वेदान्तदेशिकविरचिता श्रीनिवाससूरिकृतया रत्नपेटिकाख्यया व्याख्यया सहिता श्रीमता म. तो. नरसिंहार्येण संशोधिता । श्रीरङ्गनगरस्थ श्रीवाणीविलासमुद्रायन्त्रालये मुद्रिता । १९०८. ॥ श्रीः ॥ ॥ सुभाषितनीवी ॥ श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ॥ अनिपुणपद्धतिः ॥ इह खलु भगवान् वेङ्कटनाथार्यः कवितार्किकसिंहः सर्वतन्त्रस्व- तन्त्रः राजमहेन्द्रनगरस्थित(सर्वज्ञ)शिङ्गक्षमावल्लभेन एकलव्यन्या- येन शिष्येण विशिष्टश्रीवैष्णवधर्मविविदिषया श्रीरङ्गनगरस्थितस्य वेदान्तदेशिकपदेऽभिषिक्तस्य स्वस्य निकटं प्रति श्रीवैष्णवेषु प्रेषितेषु तदर्थं रहस्यसंदेशतत्त्वसंदेशौ श्लोकं च कंचित् -- 'सत्त्वस्थान्निभृतं प्रसादय सतां वृत्तिं व्यवस्थापय त्रस्य ब्रह्मविदागसस्तृणमिव त्रैवर्गिकान्भावय । नित्ये शेषिणि निक्षिपन्निजभरं सर्वंसहे श्रीसखे धर्मं धारय चातकस्य कुशलिन् धाराधरैकान्तिनः ॥' --इति विरचय्य स्वरूपशिक्षार्थं तद्व्याजेन लोकहितार्थं सामान्यवि- शेषधर्मप्रतिपादनपरं द्वादशद्वादशपद्यकद्वादशपद्धतिकं सुभाषितनी- व्याख्यं नीतिप्रबन्धं प्रणिनाय । तत्रानिपुणपद्धतिर्दृप्तपद्धतिः खलपद्ध- तिर्दुर्वृत्तपद्धतिरसेव्यपद्धतिर्महापुरुषपद्धतिः समचित्तपद्धतिः सदा- श्रितपद्धतिर्नीतिमत्पद्धतिर्धनधान्यपद्धतिः सत्कविपद्धतिः परीक्षितपद्ध- तिरिति क्रमः । दोषान्विधूय गुणाः प्रापणीया इति प्रथमं दोषपराः पद्धतयः प्रणीताः, तेष्वात्मोत्तारणनैपुण्याभावादनिपुणत्वं तस्य हेतुर्देहात्मादिविवेकाभावस्तदेवाज्ञानं ततो दृप्तता खलत्वं दुर्वृत्तता च, तेन सज्जनैरसेव्यत्वमिति परस्परसङ्गतिः । तथा चाज्ञानस्य (सर्व)- दोषकारणत्वात्तदेवावश्यं परिहरणीयमिति बुद्ध्या अनिपुणपद्धतिः प्रथममारब्धा । तत्र मङ्गलश्लोकस्य दुर्जनेभ्यो ग्रन्थस्य रक्ष्यत्वपर- श्लोकस्य च पद्धतिनियमितद्वादशश्लोक्यन्तर्गतत्वात्तयोरप्यनिपुण- परतां प्रतिपादयितुं तद्दोषकीर्तनम् । तत्रायं मङ्गलश्लोकः -- प्रथमसुजनाय पुंसे मह्यमपि प्रथमदुर्जनाय नमः । सर्वं हतः कृतं यौ सकृदुपकारापकाराभ्याम् ॥ १ ॥ प्रथमसुजनायेति ॥ प्रथमश्चासौ सुजनः परमपुरुषः, तस्मै नमः । प्रथमचरमजघन्यसमानमध्यमध्यमवीराश्चेति प्रथमशब्दस्य पूर्वनिपातः । स्वस्य दुर्जनत्वे उच्यमाने सर्वेषां स्वात्मनि दुर्जनत्व- प्रतीतिर्भवत्विति मह्यमित्युक्तम् । परमपुरुषसमानधर्मत्वात् स्वस्यापि नन्तव्यत्वमित्यभिप्रायेणाह सर्वं हत इति । यौ परमपुरुषोऽहं च सकृ- दुपकारापकाराभ्यां कृतं सर्वं हतः नाशयतः । हन हिंसागत्योरित्यस्मा- ल्लटस्तसि तसो ङित्त्वादनुदात्तोपदेशेत्यादिना अनुनासिकलोपः । 'कथं चिदुपकारेण कृतेनैकेन तुष्यति । न स्मरत्यपकाराणां शतमप्यात्मव- त्तया ॥ ' इति दासेन क्रियमाणशरणागतिमपि भगवतो निरुपा- धिककारुण्यतया रक्षापेक्षाप्रतीक्षत्वेन स्वस्योपकारं मत्वा सर्वं पापजातं नाशयतीत्यर्थः । आत्मा तु हितवृत्तिमाचरेत्युपदेशमेव स्वस्थापकारं मत्वा भगवत्कृतोपकारं अस्मरन् तस्मै द्रुह्यति; तदेव सर्वकृतना- शनम् । 'प्रथितं पातकिवर्गं कृतघ्न एकोऽपि कृत्स्नमतिशेते । तमिमं क्रियमाणघ्नस्तमपि दुरात्मा करिष्यमाणघ्नः ॥' इति प्रमाण- मजानन् स्वोपकर्तरि अनिष्टमाचरति दुर्जनस्वभाव एषोऽज्ञ इति पद्धत्यन्वयः । अनेन निपुणेन स्वोपकारिणि नाहितमाचरणीयमिति धर्मबोधः ; 'उपकारिणि यः साधुः साधुत्वे तस्य को गुणः । अपकारिणि यः साधुः स साधुरिति कथ्यते ॥' इति अपकारिण्यपि हिताचरणस्यैव विधानात्, 'कृतघ्ने नास्ति निष्कृति: ' इति महा- दोषस्मरणाच्च । अत्र 'नमः पतनशीलाय खलाय मुसलाय च । कुर्वाते स्वमुखेनैव बहुधान्योपखण्डनम् ||' इतिवत् परमपुरुषसमानधर्म- तया नन्तव्यत्वोक्त्या स्तुत्या निन्दाभिव्यक्तिरिति व्याजस्तुत्यलङ्कारः ; तदङ्गभगवत्तुल्यत्वकीर्तनात्तुल्ययोगितेत्यनयोरङ्गाङ्गिभावसंकरः ॥ करिष्यमाणस्य ग्रन्थस्य नामनिर्देशपूर्वकं काव्यार्थचोरेभ्यो रक्ष्य- त्वमाशास्ते -- प्रमितिपरिष्कृतमुद्रा सहृदयहृदये समर्पिता कविभिः । भवति सुभाषितनीवी पटुगुणचोरैरहार्यार्था ॥ २ ॥ प्रमितीति ॥ प्रमित्या यथार्थबुद्ध्या परिष्कृता मुद्रा यस्याः सा तथोक्ता, स्वाधीनप्रमितिमतामेव ग्राह्यार्थवत्त्वमिति प्रमित्यां मुद्रात्व- रूपणं; धनपक्षे इयदत्र धनं निक्षिप्तमिति प्रत्ययाय परिष्कृतमुद्रा भव- तीत्यर्थः । कविभिः सूरिभिर्वणिग्भिश्च, सहृदयहृदये सारग्राहिप्रामाणि- कहृदये, समर्पिता निवेदिता, सुभाषितानां नीतिवाक्यानां नीवी मूलधनं, इयं कृतिः । यथा मूलधनेन धनवृद्धिः संपाद्यते, तथाऽनया बुद्धिमद्भिः सुभाषितवृद्धिः संपाद्यत इति मूलधनत्वरूपणम् । पटवो ये गुणाः काव्योपस्कारकाः शब्दार्थविशेषास्तेषां चारैः; अन्यत्र, पटवो गुणाः भित्तिभेदनचातुर्यादिगुणा येषां तैस्तथोक्तैः, चोरैरपहर्तृभिः, अहार्यो ग्रहीतुमशक्योऽर्थोऽभिधेयं धनं च यस्याः सा तथोक्ता भ- वति, कुकविदुर्ग्रहार्था भवतीति भावः । अनेन सत्कविभिः स्वस्वप्रणी- तसुभाषितग्रन्था रक्षणीया इति प्रतीतिः फलम्, कुकवयः परोच्छिष्टो- पजीविनो बहिष्कार्या इति निन्दाप्रतीतिश्च । स्वकीयापूर्वशब्दार्थस्फुर- णाभावे सति परकीयशब्दार्थान् गृहीत्वा अस्माभिः कृतमिति प्रकाशनं सरस्वतीचौर्यरूपं आत्मनाशकरमित्यजानतामनिपुणपद्धत्यन्तःप्रवेशः । 'बद्धवैराणि भूतानि ' इति न्यायेन दोषवर्णनं शिक्षारूपं न निन्दा- तात्पर्यमाचार्याणामिति मन्तव्यम् । अत्र ग्रन्थे वणिग्व्यवहारप्रतीतेः ममासोक्तिः । अन्येऽपि काव्यार्थचोरेभ्यः स्वग्रन्थस्य रक्ष्यतामाशा- साना दृष्टाः ; तथा हि -- 'साहित्यपाथोनिधिमन्थनोत्थं कर्णामृतं रक्षत हे कवीन्द्राः । यत्तस्य दैत्या इव लुण्ठनाय काव्यार्थचोराः प्रगुणीभवन्ति' इति ॥ २ ॥ पश्यति परेषु दोषा- नसतोऽपि जनः सतोऽपि नैव गुणान् । विपरीतमिदं स्वस्मि- न्महिमा मोहाञ्जनस्यैषः ॥ ३ ॥ पश्यतीति ॥ जनः पामरजन:, 'जनो महर्लोकात्परलोके च पामरे ' इति विश्वः । अज्ञ इति यावत् । परेष्वसतः अविद्यमा- नानपि दोषान् पश्यति विचारयति, सतो विद्यमानानपि गुणान्न पश्यत्येव ; इदं स्वस्मिन्विपरीतं पश्यति, अविद्यमानान् गुणान् पश्यति विद्यमानान् दोषान्न पश्यतीत्यर्थः । इदमन्यथादर्शनं तमोमूला- ज्ञानमूलमित्याह -- महिमा मोहाञ्जनस्यैष इति । लोके ह्यञ्जनं भूतला- दिच्छन्नं विद्यमानं वस्तु साक्षात्कारयति, अदृश्याञ्जनं परेभ्यस्तद्धारिणं विद्यमानमेवादृश्यं करोति, तथा मण्डूकवसाञ्जनादिकं वंशोरगत्वाद्य- विद्यमानमपि दर्शयति; एवं मोहाञ्जनमात्मन्यविद्यमानानपि गुणान् दर्शयति परेषु विद्यमानान् गुणान्न दर्शयतीत्यज्ञानेऽञ्जनत्वारोपः । तत्र प्रतिनियतविपरीतदर्शनहेतुत्वाल्लोकसिद्धाञ्जनापेक्षया वैलक्षण्यम् । तद्वाक्यार्थस्य पश्यतीत्यादिपूर्ववाक्यार्थसमर्थनार्थत्वात् काव्यलिङ्गालं- कार: । 'राजन् सर्षपमात्राणि परच्छिद्राणि पश्यसि । आत्मनो मेरु- मात्राणि पश्यन्नपि न पश्यसि ॥' इत्यादि स्मारितम् । स्वदोषस्य स्व- ज्ञातत्वेऽपि निर्दोष इवाभिनयतीत्यर्थः ॥ ३ ॥ यो यदीयं क्षीरान्नादिकं भुक्त्वा तद्विषये द्रोहमाचरति, तस्मिन् कृतघ्नेऽज्ञानिनि कीर्ति: करुणा सदाचारश्च नास्तीत्यमुमर्थं श्लेषेण सनिदर्शनमाह-- यत्र पयःप्रभृति स्वं भुक्त्वासत्यानुषक्तधीश्चोरः । पशुवृत्तिगणे तस्मि- न्नपि नाम यशोदयावृत्तम् ॥ ४ ॥ यत्रेति || यत्र यस्मिन्, पशूनां (वृत्तिः) स्थितिरिव स्थितिर्येषां तेषां गणे समूहे, विद्यमान इति शेषः, पयःप्रभृति स्वं भुक्त्वा क्षीरादि द्रव्यं भुक्त्वा, चोरः सन् असत्यानुषक्तधीर्भवति, तस्मिन्समूहे, यशः गुणवत्त्वप्रसिद्धिः, दया करुणा, वृत्तं सद्वृत्तिः सदाचारः, अपि नाम भवति किं । अत्र बुद्धिसंप्रतिपत्त्यर्थे श्लेषेण निदर्शयति – चोरः कृष्णः, पशूनां वृत्तिः स्थितिर्यस्मिन् तस्मिन् गणे नन्दव्रजे, पयःप्रभृति स्वं भुक्त्वा । असत्यानुषक्तधी: सत्यभामासक्तबुद्धिर्न भवति, तदानीं सत्यभामाविवाहाभावात्; तस्मिन् गणे यशोदया कृष्णमात्रा, वृत्तं वर्तनं, अपि नाम भवेत् । पूर्वत्र गर्हायामपिः, इह संभावनायां ; यद्वा तत्र गणे गोव्रजे यशोदया वृत्तं अपि नाम भवेत्किं, न भवत्येव, यशोदाया गृहे वर्तमानत्वादिति भावः ॥ ४ ॥ हरिकरपुष्करहंसं हारमणीनां प्रसूतिमिव लक्ष्म्याः । पित्तेन पाञ्चजन्यं पीतं पश्यन्भिषज्यति कम् ।। ५ ।। हरीति ।। हरे: करपुष्करे हस्तारविन्दे हंसमिव स्थितं, अनेन धा- वल्योक्तिः, लक्ष्म्याः हारमणीनां प्रसूतिमिव कारणमिव स्थितं, अनेन अतिधावल्योक्तिः, कारणगुणा हि कार्यगुणानारभन्त इति न्यायात् । पाञ्चजन्यं भगवच्छङ्खं, पित्तेन स्वनयनगतपैत्त्यदोषेण, पीतं पश्यन्, अज्ञ इति शेषः; कं भिषज्यति भिषजं करोति स्वदोषनिवर्तकमिच्छ- ति, न कमपीत्यर्थः । भिषज् चिकित्सायामित्यस्मात् कण्ड्वादित्वाद्यक् । स्वदोषमजानन् पीतः शङ्ख इति मनुते, न स्वदोषनिवर्तनाय प्रयतते; एवमनात्मज्ञोऽपि स्वाज्ञानादिनिवर्तनाय सत्सहवासादिकं न करोति, परं तु देहात्मैक्यादिकमेव मनुते; अहो किमस्यानिपुणतेत्यर्थे प्रस्तुते, तद्विहाय तत्सरूपाप्रस्तुतार्थनिबन्धनादप्रस्तुतप्रशंसालंकारः ॥ ५ ॥ स्फटिकः स्वभावशुद्धः स एव सन् सहति सर्वमारोपम् । भवति न तत्रानास्था तदुपाधिषु वा भवत्यास्था ॥ ६ ॥ स्फटिक इति ॥ स्वभावशुद्धः स्फटिकः स एव सन्, स्फटिकत्वा- कारेणेत्यर्थः; सर्वमारोपं जपाकुसुमादिसान्निध्येन रक्तत्वाद्यारोपं, सुभाषितनीव्यां सहति । रक्तः स्फटिक इत्यादिप्रतीतिविषयतां भजते, वह मर्षण इत्य- स्माच्चौरादिकादाधृषीयत्वेन वैकल्पिकणिच्त्वाण्णिजभावे कर्तरि लट्, अतोऽस्य परस्मैपदम् । नैतावता शुद्धस्फटिकरूपेण अनुपादित्सा, तदु- पाधिषु उपादित्सापि नास्तीत्याह - भवतीति । तत्र शुद्धस्फटिके अना- स्था तदर्थिनोऽनभिलाषो न भवति, नायं शुद्धस्फटिक इति तत्प- रित्यागबुद्धिर्न भवति, तदुपाधिषु जपाकुसुमादिषु, आस्था वा स्व- संसर्गेण स्वधर्मासञ्जका उत्कृष्टा इति तेष्वभिलाषो वा न भवति । एवं स्वभावशुद्ध एवात्मा देहेन्द्रियत्वाद्यारोपं सहते, नैतावता देहेन्द्रिया- दय उपादेयाः, आत्मैवोपादेयः एवंज्ञानाभावे अनिपुणतैवेति भावः । पूर्ववदलङ्कारः ॥ ६ ॥ ' स्थलपरिशेषितजलधेः सविधे संजातडम्बरं जलदम् । प्रहसन्ति पाण्ड्यनद्यः शुक्तिमुखैर्मौक्तिकस्त्यानैः ॥ ७ ॥ स्थलेति । पाण्डयनद्यः ताम्रपर्ण्याद्याः, स्थलमात्रपरिशेषि- तजलधेरगस्त्यस्य सविधे समीपे, संजातडम्बरं जलदं त्वया समुद्राः पीताः मयापि समुद्रोदकं पीतमिति गर्जन्तमिव स्थितं मेघं, वीश्य मौक्तिकैः स्त्यानैः निबिडैः, शुक्तय एव मुखानि तैः प्रहसन्तीवे - त्युत्प्रेक्षा । तन्त्रचतुष्टयासाधारणपाण्डित्यवन्निकटे यत्किञ्चिदुपन्यासैः गर्जन्तं पण्डितमानिनं सर्वेऽपि परिहसन्ति, मूढस्तन्न जानातीति भावः ॥ ७ ॥ , अनिपुणपद्धतिः । प्रतिपन्नवामदृष्टिः स्तन इव कश्चित्समुन्नतोऽप्यधिकम् । पतनमधिगम्य समये परिहासरसाव हो भवति ॥ ८ ॥ प्रतिपन्नेति ॥ कश्चिद्दुर्जनः, प्रतिपन्नवामदृष्टिः प्राप्तविषमदृष्टिः, ऐ- श्वर्यादिमत्तः सन् सदसद्विभागानादरेण सर्वत्र कुटिलवृत्तिमाचरन्नित्य- र्थः। अधिकमत्यन्तं, समुन्नतोऽपि ऐश्वर्यादिसमृद्धोऽपि, समये दुष्कर्म- विपाकादिसमये, पतनमधिगम्य 'पतनान्ताः समुच्छ्रयाः' इति न्यायेन हानिं प्राप्य, स्तन इत्र परिहासरसावहो भवति । अयं गर्वितः सर्वान् परिभूयेदानीं सर्वैरपि परिभूयमानः सन् हास्यास्पदं भवतीति भावः । स्तनपक्षे – प्रतिपन्ना आश्रिता, वामदृष्टिः स्त्री यस्य स तथोक्त इत्यर्थः । स्पष्टमन्यत् । स्तन इवेत्युपमया बीभत्सरसो व्यज्यते । तेन कादाचि- त्कैरल्पकालवर्तिभिरतितुच्छैः कालान्तरे नृपतस्करादिपीडाप्रापकैरै- श्रर्यादिभिः किमर्थं मदितव्यमिति जुगुप्सा गम्यते । 'विद्यामदो धन- दस्तृतीयोऽभिजनो मदः । मदा एतेऽवलिप्तानामेत एव सतां दमाः इत्युक्तम् ॥ ८ । बहुधा स्वोपकारके स्वदोषाच्छादके स्वप्रसिद्धिसंपादके मित्रे प्रत्युपकर्तव्यं, तदभावे महान्दोषः, अत एव भगवता रामचन्द्रेण सीतावृत्तान्ताहरणोपकारिणो हनुमतः स्वाङ्गसंश्लेषरूपमहोपकारं कृत्वा- Sपि तत्रासन्तुष्टेनोक्तं- 'मय्येव जीर्णतां यातु यत्त्वयोपकृतं कपे । , सुभाषितनीव्यां नरः प्रत्युपकारार्थी विपत्तिमभिकाङ्क्षति' इति । अतो विवेकिना 1 प्रत्युपकाराकरणे तत्र द्वेषकरणे च आत्मनाश इत्याह- बहु विदधत्युपकारान् गुप्त्वा दुरितं प्रकाशयति तेजः । सुहृदि विहिताहितमति- र्यन्न प्रत्युपकरोति न तत् ॥ ९ ॥ ति ॥ सुहृदि विहिताहितमतिः सन्, यत् यस्मान्न प्रत्युपक- रोति, तत्तस्मात्, अस्तिर्भवन्तीपरोऽप्रयुज्यमानोऽप्यस्तीत्युक्तेः न न भवति, तस्य सत्ता नास्ति, तज्जन्म वृधा; प्रत्युत तस्य प्रत्यवायश्चे- ति भावः । 'सत्कृताश्च कृतार्थाश्च मित्राणां न भवन्ति ये । तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुञ्जते ' इत्युक्तम् । अब उत्तरार्द्धे ' षष्ठोऽयं नल- घू वा' इति षष्ठगणस्थाने लघुप्रयोगः ॥ ९ ॥ तान्घ्नन्ति हन्त शान्तं येभ्यः सिद्धयेयुरसितवर्त्मानः । अगणितनिजप्रणाशैः किमाश्रयाशैरनाश्यमिह ॥ १० ॥ " तानिति । असितवर्त्मानः दुर्भार्गवृत्तयः, येभ्यः पुरुषेभ्यः, सि- येयुः लब्धसत्ताका भवेयुः तान् घ्नन्ति तानेव हिंसन्ति, हन्तेति खेदे, हन्तहर्षविषादयोरिति निघण्टुः । उपजीव्यविरोधो न युक्त इति भावः । शान्तं एतद्दोषकीर्तनपापं शाम्यतु, आशंसायां भूतवच्चेति क्तप्रत्ययः । अनिपुणपद्धतिः । ते पर्णाश्रितकीटवत् स्वयं नश्यन्तः परान्नाशयन्तीत्याह । अगणितेति । अगणितनिजप्रणाशैः आश्रयाशैः स्वोपजीव्यनाशकैः किमनाश्यं, सर्व नाश्यमेव । तत्र निदर्शनतयार्थान्तरं - असितवर्त्मानः कृष्णवर्त्मानः अग्नयः, येभ्यो वृक्षेभ्यः सिद्धयेयुः वृक्षाणां परस्परसङ्घर्षणेन उत्पन्ना भवेयुः, तानेव वृक्षान् घ्नन्ति दहन्ति; अगणितनिजप्रणाशैः - 'आतृणं पचते वह्निः' इति स्वनाशमप्यविचार्य आश्रयमश्नद्भिः आश्रयाशैर- मिभिः, किमनाश्यं किमभक्ष्यं, सर्वे भक्ष्यमेवेत्यर्थः ॥ १० ॥ स्वोपकारमात्रपराः केचिदज्ञानिनः सर्वमपि स्वार्थमपेक्षन्त इत्यभिप्रेत्याह- नवदल पुढे कल्प्या यस्य प्रभोरपि तल्पधी- परिवृढो यस्याधस्ताच्छ्रमं शमयिष्यते । वटविटपिनस्तस्याङ्कराननुत्कटपल्लवान् स्थपुटचटकापेक्षी भिक्षुः प्रतिक्षणमीक्षते ॥ ११ ॥ नवदलेति । यस्य वटस्य नवदलपुटे, प्रभोः सर्वेश्वरस्यापि, तल्प- धीः कल्प्या, प्रतिकल्पं कल्पादौ शय्याबुद्धिः कल्प्यत इत्यर्थः । यस्य वटस्याधस्तान्नटपरिवृढः शिवः श्रमं शमयिष्यते, लोकान् संहृत्य श्रमं परिहरिष्यति, दक्षिणामूर्तेर्वटवृक्षस्याधोवासित्वं प्रसिद्धम् ; तस्य तजातीयस्य वटविटपिनः, अनुत्कटपलवान् सम्यगविकसितदलान्, अङ्करान्, अभीशुवल्मीकादिवदङ्करशब्दो ह्रस्वमध्यो दीर्घमध्यश्च । भिक्षुः स्थपुटचटकापेक्षी निम्नोदपानपाल भूतपत्रपुटापेक्षी, प्रतिक्षणमी- सुभाषितनीव्यां क्षते, कदा विशालपर्णानि भविष्यन्ति कदा ग्रहिष्यामीति स्वप्र - योजनतत्परो भवतीत्यर्थः ॥ ११ ॥ अनन्तकल्याणगुणगणे निर्दोषे भगवत्यपि दोषानारोपयन्तः पर- दूषणैकतत्परा अल्पगुणे बहुलदोषे जने किमित्युपेक्षन्त इत्याह- निरवधिगुणग्रामे रामे निरागस वागसि - स्फुरणमुषितालोका लोका वदन्ति सदन्तिके । वरतनुहविं वालिद्रोहं मनागपसर्पणं परिमितगुणे स्पष्टावद्ये सुधा किमुदासते ॥ १२ ॥ इति श्रीकवितार्किक सिंहस्य वेदान्ताचार्यस्य सर्वतन्त्रस्व- तन्त्रस्य श्रीमद्वेङ्कटनाथस्य कृतिषु सुभाषितनीव्यां अनिपुणपद्धतिः प्रथमा ॥ निरवधीति । निरवधिगुणग्रामे निरवधिकगुणसमूहे, निरागसि निर्दोषे रामे, ' बहवो नृप कल्याणगुणाः पुत्रस्य सन्ति ते । सर्वलोक- प्रियः साधुरदीनात्मा विचक्षणः । आर्यः सर्वसमश्चैव बुद्धिमान्नीतिमा- नपि ।' इत्याद्युक्तेः, लोका दुर्जनाः, वाच एवासयः खङ्गाः तेषां स्फुरणैः जृम्भणैः विलसनैश्च, मुषिताः आलोका ज्ञानप्रकाशा बाह्यालोकाश्च येषां ते तथोक्ताः सन्तः, वरतनुहतिं लोकहितार्थ विश्वामित्राज्ञाकृतं (ताटकात्रधं), वालिद्रोहं अमार्गप्रवृत्तदुष्टवालिबधं, मनागपसर्पणं अनिपुणपद्धतिः । खरयुद्धे तस्यात्यन्तसन्निकर्षे सति स्थलाभावेन पश्चात्पादप्रसर्पणं च सदन्ति के सत्पुरुषसमीप एव, निर्भयाः सन्तः, वदन्ति दोषत्वेन कथ- यन्ति । परिमितगुणे, स्पष्टावद्ये स्फुटापरिमितदोषे, पृथग्जने, मुधा व्यर्थ, किं किमर्थे, उदासते उपेक्षन्ते । वाक्कण्डूति निवृत्त्यै यथेच्छं दूषयितुं विषये सत्यपि तद्विहाय परमात्मनि किमिति दोषानारोपय- न्ति, परमात्मन्येव दोषारोपणे किमुत सत्सु दोषारोपणमिति भावः ॥ १२ ॥ ' इति श्रीमच्छ्री शैलकुल तिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य श्री श्रीनिवासविदुषः कृतिषु सुभाषितनीवी- व्याख्यायां रनपेटिकाख्यायां अनिपुणपद्धतिः प्रथमा ॥ दृप्तपद्धतिः ॥ दुर्विदग्धाः केचन परोत्कर्षासहिष्णवः परसाम्यलाभाय तद्धर्मान- भिनयन्ति, नैतावता 'सुमेरुशिखरस्थोऽपि काकः किं गरुडायते ?' इति न्यायेन तदीयोत्कर्षः संभवति, तेषां च निकर्षः संभवति इत्य- भिप्रायेण दृप्तपद्धतिरारभ्यते ॥ तदेव गृह्यतां नाम च्छागमण्डूकरासभैः । तिसृणां तावता हन्त मूर्तीनां किमिहागतम् ॥ १ ॥ तदेवेति ॥ छागमण्डूकरासभैः तदेव त्रिमूर्तिसंबन्ध्येव नाम गृह्य- तां, कामचारे कर्मणि लोट् । छागेनाज इति ब्रह्मणो नाम गृहीतं 'अजो हरौ हरे कामे विधौ छागे रघोः सुते' इति विश्वः । मण्डूकेन हरिरिति विष्णोर्नाम गृहीतम् । रासभेन हर इति रुद्रस्य नाम गृहीतम् 'हरा रुद्राग्निगर्दभाः ' इति रत्नमालायाम् । तावता तिसृणां मूर्तीनां ब्रह्मविष्णुशिवानाम् संबन्धि, 'न तिसृ चतसृ' इति न नामि दीर्घः । इह छागमण्डूकरासभेषु किमागतं, तदीयब्रह्मत्वादिकं किं प्राप्तमित्यर्थः । तन्नामधारणमात्रेण न तत्त्वं भवति । अतो दृतैः प्रसिद्धपुरुषनामधारणमात्रेण न तत्प्रसिद्धिर्लभ्यत इति भावः । यद्वा इह जगति तावता तिसृणां मूर्तीनां किमागतं, किं न्यूनत्वमागतम् ? तेषां ब्रह्मत्वाद्यप्राप्तौ खलु न्यूनत्वं, तदभावात्किमनिष्टमित्यर्थः ॥ १ ॥ दृप्तपद्धतिः । महतां स्थानवर्तित्वमात्रेणापि न तन्माहात्म्यं लभ्यत इत्याह- अण्डजाः पुण्डरीकेषु समुद्रेषु जनार्दनाः । नीलकण्ठा शैलेषु निवसन्तु न तेन ते ॥ २ ॥ अण्डजा इति ॥ पुण्डरीकेषु अण्डजा हंसा निवसन्तु, नैतावता पुण्डरीकवर्ती अण्डजो ब्रह्मा भवति । समुद्रेषु जनार्दना जन्तुविशेषा निवसन्तु, नैतावता समुद्रशायी विष्णुर्भवति । नीलकण्ठा मयूराः शैलेषु निवसन्तु, नैतावता कैलासनिवासः शिवो भवति । तदेवाह- न तेन त इति । तेन तन्नाम धृत्वा तत्स्थानाक्रमणेन हंसजनार्दन- मयूरास्ते ब्रह्मविष्णुशिवाः न भवन्ति ॥ २ ॥ गर्ववशेन परकीयवेषधारणेऽपि परगतपाण्डित्यादिकं न संपाद- यितुं शक्यत इत्यभिप्रेत्याह- कामं लिखतु संस्थानं कश्चिद्रूपं च भास्वतः । अभित्तिविहितालम्बमालोकं विलिखेत्कथम् ॥ ३ ॥ काममिति । कश्चित् शिल्पी, भास्वतः सूर्यस्य, संस्थानं त्रिम्बम् लिखतु चित्रे लिखेत्, रूपं अरुणरूपं च लिखेत्; भित्त्या विहित आ- लम्बः आलम्बनं यस्य स तथोक्तः, स न भवतीत्यभित्तिविहितालम्बः, तम् । आलोकं प्रकाशं, कथं विलिखेत् । भित्त्यालम्बनत्वाद्विम्बादिकं लिखेत्, तेजस्त्वनालम्बनत्वात् कथं विलिखदिति भावः ॥ ३ ॥ अल्पस्य साम्यार्थे महाजनसंबन्ध्यसाध्यकृत्याचरणानुकरणमयश:- कारणमित्यभिप्रेत्याह- सुभाषितनीव्यां अपि सत्पथनिष्ठानामाशाः पूरयतामपि । अगस्त्यवृत्तिर्मेघानां हन्त मालिन्यकारणम् ॥ ४॥ अपीति ॥ सत्पथनिष्ठानां आकाशवर्तिनां, सदाचारवतामिति च गम्यते । आशा दिशः पूरयतां, अपेक्षितार्थान् ददतामिति च गम्यते । मेघानामगस्त्यवृत्तिः समुद्रोदकपानं, मालिन्यस्य नैल्यस्य कारणं, हन्तेति खेदे ॥ ४ ॥ कश्चित्केनचिद्विशेषेणाधिकोऽपि भवतु ; तथापि सर्वस्य साति- शयत्वान्न गर्ववता भवितव्यमित्यभिप्रेत्याह— अस्तु तावदगस्त्येन जहोर्महिमनिह्नवः । का कथा तस्य बालस्य विश्वग्रासेऽप्यतृप्यतः ॥ ५ ॥ अस्त्विति ॥ जमुनिना गङ्गा पीता, तदेवाश्चर्यमभूत् । अगस्त्येन सकलसमुद्रान् करतलपुटगतान् कृत्वा पिबता जह्नोर्महिमनिह्नवः तावदस्तु ततोऽप्याश्चर्यावहमिदमप्यद्भुतचरित्रं तिष्ठतु । विश्वमासेऽपि प्रलये सर्वे ग्रसित्वापि अतृप्यतः, तस्य बालस्य प्रसिद्धस्य वटपत्रश - यिनः, का कथा तन्महिम्नि किं वक्तव्यम् । ततोऽप्यत्यद्भुतमिदम् । अतस्तद्विचार्य न हप्तेन भवितव्यमिति भावः ॥ ५ ॥ कतिपयधर्ममात्रेणान्यसाम्यं न लभ्यत इत्याह- दष्टसारङ्गयूथोऽपि दंष्ट्रानखरवानपि । भूभृत्कटकसंस्थोऽपि सारमेयो न सिंहति ॥ ६ ॥ , दृप्तपद्धतिः । दष्टसारङ्गेति ॥ दष्टः सारङ्गयूथो मृगयूथो गजयूथश्च येन स तथोक्तः, दंष्ट्रा नखराश्च अस्य सन्तीति तथेोक्तः । भूभृत्कटकं राज- शिविरम् पर्वतनितम्बश्च तत्र संस्थः स्थितोऽपि ; सुपिस्थ इत्यत्र सुपीति योगविभागात् कर्तरि कः, स्थ इत्यस्यारम्भसामर्थ्याद्भावे विधानांत् । सारमेयः शुनकः, न सिंहति सिंह इत्र नाचरति ; सर्वप्रा- तिपदिकेभ्यः क्विब्वेति आचारे क्विप्, ततो धातुत्वाल्लट् ॥ ६ ॥ राहुः मित्रमतिक्रामन् शुभान्यलभमानो नष्टो भवेदित्यभिप्रायेणाह- सत्पथं छादयन्मित्रमपि व्यालस्तमोमयः । अतीतपर्वा जगतामदृश्यः सहसा भवेत् ॥ ७ ॥ सत्पथमिति । सत्पथं सन्मार्गवर्तिनं आकाशवर्तिनं च, मित्रं सहायं सूर्य च, छादयन्, तमोमयः तमः प्रचुर: राहुरूपश्च ; 'तमस्तु : स्वर्भानुः ' इत्यमरः । व्यालः क्रूरः सर्पश्च ; ' व्यालो भुजङ्गमे क्रूरे श्रापदे दुष्टदन्तिनि' इति विश्वः । अतीतानि पर्वाणि उत्सवा यस्य स तथोक्तः, शुभरहित इत्यर्थः ; अतीतं पर्व अमावास्यारूपं यस्य स इति च । सहसा अदृग्यो भवेत् नष्टो भवेत्, अप्रत्यक्षो भवेच्च ॥७॥ दुर्मार्गाणां त्याग एव युक्त इत्याह- धुर्याणामपि सत्कार्ये गुणशालित्रिमर्दिनाम् । अनागमविदां युक्तमपनीतेर्निवारणम् ॥ ८ ॥ धुर्याणामिति । सत्कायें समीचीनप्रयोजने धुर्याणां धुरन्धराणा- ' S2 सुभाषितनीव्यां मपि धुरं शकटावयवं वहन्तीति धुर्याः, तेषामपि च; 'धुरो यदुकौ ' इति यत्प्रत्ययः । गुणैः शालन्ते प्रकाशन्त इति गुणशालिनः, शाड़- श्लाघायामिति धातोर्णिनिप्रत्यये लडयोरभेदव्यपदेशमाश्रित्य लका- रप्रयोगः, तान्विमर्दयन्ति पीडयन्तीति विमर्दिनः तेषां; गुणेन आवृ- त्या शालीन् व्रीहिसस्यानि विमर्दयन्ति भक्षयन्तीति तथोक्तास्तेषामिति च । अनागमविदां शास्त्रानभिज्ञानाम्, पुनरागमनमजानतां च । अपनीतेः अपन्यायाद्धेतोरपसारणाच्च, निवारणं युक्तम् । अत्र दृतेषु सस्यलुण्टाकवृषभव्यवहारप्रतीतेः समासोक्तिः ॥ ८ ॥ बलोत्तरेण हरिणा नागमल्लविभेदिना । सृगालः साम्यमाकाङ्क्षन् शौर्याधिक्यं न विन्दति ॥ बलेति ॥ बलोत्तरेण बलाधिकेन, बलभद्रानुजेन च; नागम- ल्लविभेदिना गजश्रेष्ठभेदिना कालीयचाणूरमल्लविभेदिना च ; हरिणा सिंहेन कृष्णेन च । सृगालः जम्बुको राक्षसश्च, पौण्ड्रकवासुदेव इत्यर्थः । 'सृगालौ दैत्यजंबुकौ ' इति रत्नमाला, 'सृगालो जम्बुके दैत्ये' इति विश्वश्व । साम्यमाकाङ्क्षन् ; शौर्याधिक्यं शौर्याति- शयम्, शौरेराधिक्यं च न विन्दति । अत्र क्षुद्रो गर्ववशान्महद्भिः i संघर्षे कुर्वन् तदुत्कर्षे न प्राप्नोतीत्यर्थे वर्ण्यमाने, अप्रस्तुतः सिंह- जम्बुकवृत्तान्तो वर्णितः ; तथा हरिपौण्डूकवासुदेववृत्तान्तो ऽप्यप्रस्तुतो वर्णित इति अप्रस्तुत श्लेषमूलको प्रस्तुतप्रशंसालंकारः ॥ ९ ॥ एतादृशो दृप्तः केनचित्सत्प्रभुणा निगृह्यत इत्याह- दृप्तपद्धतिः । ; सुदर्शनभृता कश्चिदजहत्कीर्तिमत्सरः । महाशान्तपदाकर्षी जलजन्तुर्निगृह्यते ॥ १० ॥ सुदर्शनेति । सुदर्शनभृता सौम्यदर्शनवता चक्रधरेण च । अजहत् अपरित्यजन् कीर्ती परकीययशसि मत्सरो द्वेषो यं स तथोक्तः नक्रपक्षे अजहत् कीर्तिमत् सर इति पदत्रयम्, कीर्तिमत् कर्दमवत् सर: अजहत् अत्यजन्नित्यर्थः, नाभ्यस्ताच्छतुरिति शतुर्नुमभावः 'कीर्तिः प्रसादयशसोर्विस्तारे कर्दमेऽपि च' इति विश्वः । महाशान्ता- नां साधुजनानां पदाकर्षी स्थानापहारकः, गजेन्द्रपदाकर्षी च ; जल- जन्तुर्जडजनः नक्रश्च, निगृह्यते । प्रकृताप्रकृत श्लेषालंकारः ॥ १० ॥ दृप्तविनीतयोरत्यन्तवैधर्म्यात् कथंचित्साधर्म्यसत्त्वेऽपि न तुल्यते- व्यभिप्रायेणाह--- गतिव्यम्ना किं तद्गुरुडमभिटङ्केत चटकः पिबत्वम्भः क्षारं न खलु कलशीसूनुरलसः । कलः कण्ठे नादः क इव मशकः किन्नरपतिः कथंचित्साधर्म्यं क्षिपति न हि वैधर्म्यनियमः ॥ गतिरिति ॥ गतिर्व्योम्ना, गरुडस्य चटकस्य च आकाशे गमनम- स्ति ; तत् चटकः कलविङ्कः, गरुडमभिटङ्केत किं अभियायार्तिक ; तावन्मात्रेण चटकस्य किं गरुडसामर्थ्यमस्तीति भावः । अलसः उदर- शूलादिरोगवान्, क्षारं अम्भः लवणमिश्रं उदकम्, पिबतु ; 'क्षारो रसान्तरे धूर्ते लवणे कचभस्मनोः' इति विश्वः ; तावता कलशीसूनुर्न सुभाषितनीव्यां खलु, रोगी लवणसमुद्रपायी अगस्त्यो न भवति खलु । कण्ठे कल: नादः। मशकस्याप्यव्यक्तमधुरध्वनिरस्ति, तावता मशकः क इव; कि- नरपति:; इवशब्दो वाक्यालंकारे, इवैवादयो वाक्यपूरणार्थी इति शब्दप्रकाशिकाकारवचनात् । वैधर्म्यनियमः कथंचित्साधम्र्म्यं न क्षिपति, अविरोधित्वात् ; नैतावता तस्यान्यदीयोत्कर्षप्राप्तिरिति भावः ॥ ११ ॥ दृप्तः सासूयतया परश्रेयोऽसहिष्णुत्वेन परायखत्वेऽपि स्वस्यैवा. शतावहत्वमावहतीत्यभिप्रेत्याह- निमीलयतु लोचने न हि तिरस्कृतो भास्करः श्रवः स्थगयतु स्थिरं परभृतः किमु ध्वाङ्क्षति । स्वयं भ्रमतु बालिशो न खलु बम्भ्रमीति क्षितिः कदर्थयतु मुष्टिभिः कथय किं नभः क्षुभ्यते ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सुभाषितनीव्यां दृप्तपद्धतिः द्वितीया ॥ निमीलयत्विति ॥ स्वयं सूर्ये असहिष्णुत्वेन लोचने निमीलयतु, भास्करो न तिरस्कृतो हि । श्रवः श्रोत्रं कोकिलध्वनावसहिष्णुत्वेन दृप्तपद्धतिः । अङ्गुल्या स्थिरं दृढम्, स्थगयतु आच्छादयतु] ; 'स्थग आच्छादने ' इति चौरादिकाण्णिच् । तावता परभृतः कोकिलः किमु ध्वाङ्क्षति, काक इवाचरति किं । बालिशो मूर्खः, 'मूर्खवैधेयत्रालिशाः' इत्यमरः । स्वभ्रमणेन क्षितिभ्रमतीति मूर्खो बुद्धा स्वयं भ्रमतु अविच्छिन्नं चक्राकारं भ्रमतु, क्षितिः न चंभ्रमीति स्वनेत्रभ्रमणेन पृथिवी भ्रम- तीति भानमात्रमिति भावः । मूर्ख इति शेषः । मुष्टिभिः नभः कदर्थयतु क्षोभयतु ; नभः क्षुभ्यते किं, नभः संक्षोभः संभवति किं, कथयेति भावः ॥ १२ ॥ इति श्रीमच्छ्रीशैल कुलतिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य श्रीश्रीनिवासविदुषः कृतिषु सुभाषितनीवी- व्याख्यायां रत्नपेटिकाख्यायां दृप्तपद्धतिः द्वितीया ॥ खलपद्धतिः ॥ अथ खलजनस्वरूपमाह - परचिन्तैकनिरताः पुत्रादिष्वप्यसङ्गिनः । योगिनामनुकुर्वन्ति विशृङ्खलधियः खलाः ॥ १ ॥ -- , परेति । परेषां चिन्तायां दोपगवेषणे एकस्यामेव निरताः 'शुनां च पिशुनानां च परवेश्मप्रवेशने । प्रयोजनं न पश्यामः पात्राणां दूषणादृते ॥', शिवभागवतवत्समासः ; अन्यथा चिन्तैक- शब्दयोः प्रथमं समासे पूर्वकालैकेत्यादिना एकशब्दस्य पूर्वनिपातः स्यात् । योगिविषये परस्य परमात्मनश्चिन्तायामेकस्यामेव निरताः । पुत्रादिष्वप्यसङ्गिनः एकत्र स्वोदरपोषणमात्रतत्परत्वेन, अन्यत्र वीतरागत्वेन; विशृङ्खलधियः - शास्त्रीयनियमं परित्यज्य स्वतन्त्रबुद्धयः, अन्यत्र विषयप्रतिबन्धरहितधियः ; खलाः, योगिनां अनुकुर्वन्ति सदृ- शा भवन्ति । कर्मणः शेषत्वविवक्षायां षष्ठी । अत्यन्तविरुद्धयो- ग्युपमानेन स्तुतिद्वारा निन्दा अभिव्यञ्जिता । यथा योगिनोऽत्युत्कृष्ट धर्मवत्त्वेन मुक्तिस्थानं यन्ति, तथा एतेऽत्यन्तनिन्दितधर्मवत्त्वेन नरकस्थानमिति किमेषां जन्मनेति शोच्यत्वं प्रतीयते । ' पररन्ध्रेषु जात्यन्धाः परदारेष्वपुंसकाः । परीवादेषु ये मूकास्तेऽतीव दयिता मम ॥' इति भगवद्वाक्यम् । 'आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा खलपद्धतिः 1: 1 बुधान् । वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ ' इत्यादिकमनु- सन्धेयम् ॥ १ ॥ आत्मार्थं युक्तवित्तानां मित्रमण्डलभेदिनाम् । अतिलङ्घितलोकानां न बन्धः केन चित्कचित् ॥ २ ॥ आत्मार्थमिति ॥ आत्मार्थ स्वार्थम्, परमात्मसमाराधनार्थ; युक्तं संचितं वित्तं येषां ते तथोक्ताः तेषाम् ; मित्रमण्डलभेदिनां - मित्रसमूह- भेदनशीलानाम्, सूर्यमण्डलभेदिनां च; अतिलङ्घितलोकानां -- अति- लङ्घिता अवमानविषयीकृता अतिक्रान्ताश्च, लोका जना भूरादिलो काश्च यैस्ते तथोक्तास्तेषाम् ; कचिदपि केनापि बन्धो निग्रहः यमबन्धनं च, नास्ति । अत्रापि योगिसाम्यं गम्यते ; पूर्ववदभिप्रायः ॥ २ ॥ G 'दुर्जनस्य विशिष्टत्वं परोपद्रवकारणम् । उपोषितस्य व्याघ्रस्य पारणं पशुमारणम् ॥ ' इतिवत् दुर्जनस्य गुणाः परपीडनायैवेत्याह- स्नेहः शैत्यं प्रसादव कोशत्यागश्च जायते । आसन्न परपीडार्थ निस्त्रिंशस्यासितात्मनः ॥ ३ ॥ स्नेह इति ॥ असितः तमोमलिनः आत्मा मनः यस्य स तथोक्तः तस्य, श्यामरूपस्य ; निस्त्रिंशस्य क्रूरस्य, खड्गस्य च, 'निस्त्रिंशो निर्दये खङ्गे' इति विश्वः । स्नेहः सौहार्दम्, आयुधलेपनार्थद्रव्यवि- शेषश्व; शैत्यं सौम्यत्वं निशितत्वं च प्रसादः अनुग्रहः, मार्जनसंस्का रकृतस्वच्छता च; कोशत्यागः धनत्यागः चर्मपिधानत्यागश्च; आस- सुभाषितनीव्यां न्नानां परेषां अन्येषां शत्रूणां च पीडार्थम् जायते । प्रकृताप्रकृत- श्लेषः ॥ ३ ॥ केचिन्महाकुलोत्पन्ना अपि दुर्मार्गवृत्तिमाचरन्तीत्याह - जनित्वाऽपि महागोत्रे निम्नगा वक्रचेष्टिताः । वैपरीत्यं वितन्वन्ति समेषु विषमेषु च ॥ ४ ॥ " जनित्वेति । महागोत्रे महावंशे महापर्वते च; जनित्वाऽपि, निम्नगाः पूर्वकर्मानुसारेण नीचमार्गगामिनः नद्यश्च; वक्रचेष्टिताः कुटिलव्यापाराः, अनृजुप्रवाहाश्च समेषु समचित्तेषु विषमेषु दुष्ट चित्तेषु च, वैपरीत्यं विरुद्धाचरणम्, वितन्वन्ति । 'यश्च निम्बं पर शुना' इति न्यायेन सर्वत्र विरोधमाचरन्तीत्यर्थः । नदीपक्षे समदेशेषु निम्नत्वौन्नत्यादिकं विषमदेशेषु समत्वनिम्नत्वादिकं चेत्यर्थः ॥ ४ ॥ इदमेव मुखान्तरेणाह- उत्पथा दुर्मदाः केचिद्वहुभङ्गभ्रमाविलाः । तटस्थानपि निघ्नन्ति तरसा भिन्नसेतवः ॥ ५॥ उत्पथा इति । केचिद्दुर्नदाः भिनत्ति कूलमिति भिद्यः, उनत्ति कूलमिति उद्यः, भिद्योद्यादिनदाः; उत्पथाः कूलान्तःस्थितमार्गमुल्ल- वय उपरिगच्छन्तः, उद्वृत्ताचाराश्च; बहुभिर्भङ्गैः तरङ्गैः भ्रमैः आव- तैंश्च आविलाः कलुषाः सन्तः, अन्यत्र बहुभिः भङ्गैः पराभवैः, 'खला- नां कण्टकानां च द्वयमेवोचितं मतम् । उपानन्मुखभङ्गो वा दूरतो वा विसर्जनम्॥' इत्युक्तेः ; भ्रमैः भ्रान्तिभिश्च आविलाः व्याकुलाः इति खलपद्धतिः । गम्यते; तरसा वेगेन, भिन्नाः सेतवः जलनिवारणार्थ बन्धाः शास्त्रमर्या- दाश्च यैस्तादृशाः सन्तः, तटस्थान् वृक्षानपि निघ्नन्ति उन्मूलयन्ति, उ- दासीन भूतानपि बाधन्ते इति गम्यते । श्लेषनिबन्धनेयमप्रस्तुतप्रशंसा ॥ 'चण्डालमपि वृत्तस्थं तमेव ब्राह्मणं विदुः । द्विजातिमपि दुर्वृत्तं चण्डालमित्र तं विदुः । ' इत्यनुसृत्याह-- --- केनचिद्दान्तकृत्येन कुलगोत्रविमर्दिना । मदेन बहुधा भिन्नं मातङ्गं मन्यते जनः ॥ ६ ॥ केनेति ॥ दान्तं दमितं, दमेर्ण्यन्ताद्वा दान्तशान्तेत्यादिना निपा- तितः; निगृहीतमिति यावत्, तेन कृत्येन; दान्तं दन्तसंबन्धि तिर्यग्दन्त- प्रहाररूपं कृत्यं तेन च ; कुलं ब्राह्मणादिकुलम्, गोत्रं स्त्रपूर्वपुरुषपर- परा, तद्विमर्दिना तद्विरुद्धाचरणेन, कुलपर्वतभेदिना च; मदेन गर्वेण मदोदन च; भिन्नं युक्तं स्रवणवन्तं च; जनः मातङ्कं चण्डालं मन्यते ॥ ६ ॥ गजं च ; अनेक मुखपापात्मा छद्म संदर्शिताश्रमः । कर्बुरप्रकृतिः कश्चित्कापेयकलहोचितः ॥ ७ ॥ अनेकेति ॥ अनेकमुखानि पापानि यस्य स तथोक्तः, तादृशः आत्मा मन: यस्य स तथोक्तः ; छद्मना कपटेन लोकवञ्चनबुद्ध्या संदर्शितः आश्रमः यस्य स तथोक्तः ; 'एकदण्डं समाश्रित्य जी- वन्ति बहवो नराः' इत्युक्तेः । कर्बुरप्रकृतिः राक्षसप्रकृतिः, कश्चित्, सुभाषितनीव्यां ' कापेयेन अनवस्थितचित्तत्वेन, कलहानां परैः स्पर्धानाम्, उचितः परिचयवान्, भवतीति शेषः । अनेकानि मुखानि यस्य स पापात्मा रावणः, छद्मसंदर्शिताश्रमः, कर्बुरप्रकृतिः राक्षसप्रभवः कश्चित्, कापेयकलहोचितः वानरयुद्धयोग्यः, कपिज्ञात्योर्द्धगिति भावार्थे कपिशब्दाठ्ठक् । कापेयं कपित्वं, कपिजातिः ; तत्संबन्धिकलह इत्यर्थः ॥ ७ ॥ ' श्रेष्ठोऽर्धे तु हरेत्तत्र भवेत्पादश्च कर्तरि । पादस्तेषु सभासत्सु यत्र निन्द्यो न निन्द्यते । यथाशक्ति निगृह्णीयाद्देवतागुरुनिन्दकान् ॥' इति धर्मशास्त्राद्दुर्जनो निन्द्यत इत्याह- छलिनं सत्कथानर्हे स्वात्मोपहतजातिकम् । न निगृह्णाति यः काले सोऽपि सभ्यैर्निगृह्यते ॥ ८ ॥ छलिनमिति । छलिनं— कैतववन्तम्, स्वात्मना उपहता विरुद्धाचारेण नाशिता, 'कुलमाचारकर्मणा' इत्युक्तेः ; तादृशी जातिः यस्य तं, अत एव सत्कथानर्ह सद्गोष्ठयामयोग्यम् ; काले निग्रहोचितसमये, यो न निगृह्णाति सोऽपि सभ्यैर्निगृह्यते । अत्र निदर्शनं— छलिनं केन चिदभिप्रायेण प्रयुक्तस्य शब्दस्याभि- प्रायान्तरं परिकल्प्य दूषणाभिधानं छलं, तद्वन्तं, असदुत्तरं जाति- रिति दूषणं, तद्धि स्वव्याघातकत्वादिरूपं, अतः स्वात्मोपहतजातिक उपहतस्वात्मकजातिकं ; नानावक्तृकवाक्यसन्दर्भः कथा, सत्कथान समीचीनवादकथाया अयोग्यम्; काले वादकाले, यो वादी न निगृ- खलपद्धतिः । ह्णाति निग्रहस्थाने न दूषयति, सोऽपि सभ्यैः मध्यस्थैः निगृह्यते दूयते ॥ ८ ॥ निगिरन्तो जगत्प्राणानुद्भिरन्तो मुखैर्विषम् । दूरतः परिहर्तव्या द्विजिहा जिह्मवृत्तयः ॥ ९ ॥ निगिरन्त इति ॥ ' अहो खलभुजङ्गस्य विचित्रोऽयं वधक्रमः । अन्यस्य दशति श्रोत्रमन्यः प्राणैर्वियुज्यते ॥' इत्युक्तरीत्या जगत्प्राणा- न्वायून्, निगिरन्तो ग्रसन्तः, मुखैर्विषमुद्गिरन्तः परानिष्टसूचनमुद्व- मन्तः, जिह्मवृत्तयः कुटिलवृत्तयः, द्विजिह्वाः सूचका एव सर्पाः. दूरतः परिहर्तव्याः, 'द्विजिह्रौ सर्पसूचकौ' इत्यमरः । श्लेषमूलकाभे- दाध्यवसायनिबन्धनातिशयोक्त्यलंकारः ॥ ९ ॥ अकिंचित्कारिणां दुर्जनानां दर्शनस्पर्शनादिकं च पापाय भव- तीत्याह- अकिंचित्कारिणां दीनैराकृष्टगुणकर्मणाम् । अघाय गतसत्त्वानां दर्शन स्पर्शनादिकम् ॥ १० । अकिश्विदिति ॥ गतसत्त्वानां गतसत्त्वगुणानां गतासूनां च; 'द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु ' इत्यमरः । स्पष्टमन्यत् ॥ दुर्मार्गसङ्गः परिहर्तव्य इत्याह- - अधिको तैरपि सुदारुणान्वितै- रसकृद्धमत्पशुगणाङ्घ्रिपीडितैः 1:1 6 सुभाषितनीव्यां विधिसिद्धनैकगुणसस्यसम्पदां विरसस्वभावकठिनैरलं खलैः ॥ ११ ॥ " अधिकेति॥ अधिकोन्नतैः अत्यन्तगर्वितैः, उन्नतैश्च खलान् कि- लोन्नतभूमौ कुर्वन्ति; सुदारुणैः अतिक्रूरैः अन्वितैः सहवसद्भिः, अन्यत्र सुदारुणेति व्यस्तं पदं तृतीयान्तम्, शोभनकाष्ठेन पशुबन्धनार्थं निखा- तेन, अत एव 'खलेवाली यूपो भवति' इति वेदेऽप्युक्तम्; असकृत् अनेकवारं पुनः पुनश्च, भ्रमन्तो ये पशुगणाः जनसमूहाः, ' एतावन्तो वै पशवो द्विपादश्चतुष्पादश्च' इति मनुष्याणामपि पशुत्वेनाभिधानात् 'पशवः पाशिताः पूर्व' इति प्रयोगाच्च ; तेषामङ्गिभिः पीडितैः, दुर्जना हि सर्वत्र प्रतिकूलाचरणेन सर्वैः पादेन हन्यन्ते, असकृत्पीडि- तैरिति संबन्धः । विरसस्वभावेन निर्दयस्वभावेन कठिनैः दाक्षिण्यर- हितैः, अन्यत्र अनार्द्रस्वभावाः घनीभूताः कठिनाश्च तैः, खलैर्दुर्जनैः धान्यमर्दनभूमिदेशैश्च । विधिसिद्धाः शास्त्रसिद्धाः, नैके अनेके, गुणाः सस्यसम्पद इव येषां ते तथोक्तास्तेषाम्; अन्यत्र विधिसिद्धाः भाग्य- सिद्धाः नैकगुणाः सस्यसम्पदो धान्यानि येषां तेषां च, अलं प्रयोजनं नास्तीत्यर्थः, कृषिसंपादितधान्यानामेव खलापेक्षा नान्येषामिति भावः । निषेधक्रियां प्रति करणत्वात् खलैरिति करणे तृतीया ॥ ११ ॥ पुनश्चेदृशस्वभावाः खला इत्याह- मुक्ताहारनिषेविता अपि न तद्वृत्त्यै दिशन्त्यन्तरं बन्धे गाढविमर्दनेऽपि न जहत्यन्योन्यसंपीडनम् । खलपद्धतिः । उष्णे शीतलतामुपेत्य शिशिरे प्राप्ते भजन्त्युष्णतां कामान्तःपुरचेटिकाकुचतटीकाठिन्यवन्तः खलाः ॥ इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सुभाषितनीव्यां खलपद्धतिः तृतीया ॥ : मुक्त- मुक्ताहारेति । कामान्तःपुरचेटिकानां मन्मथान्तः पुरस्त्रीणाम्, कुचतटीनां यत्काठिन्यं, तद्वन्तः, तादृशकाठिन्यवन्त इत्यर्थः ; अति- काठिन्यद्योतनाय कामान्तः पुरेति विशेषणं, तासामतिसौन्दर्येणातिक- ठिनकुचवत्त्वादिदमतिशयोक्तिरूपम्। खलाः दुर्जनाः, , मुक्ताहारै: जीवनैः अविद्यमानजीवनैः, निषेविता अपि तद्वृत्त्यै तजीवनाय, अन्तरं अवकाशम्, न दिशन्ति; कुचाश्च मौक्तिकहारैर्निषेविताः तद्वृत्त्यै मुक्ता- हारस्थित्यै, अन्तरं स्थानम्, न दिशन्ति, परस्पर श्लिष्टत्वादिति भावः । बन्धे कारागृहादिबन्धने, गाढविमर्दने जानुभिर्मुष्टिभिः सम्यक्ताडनेऽ- पि, अन्यत्र कञ्चुकबन्धने करविमर्दने च, अन्योन्यसंपीडनं परस्परोप- द्रवकरणं परस्परसंघर्पणं च न त्यजन्ति । उष्णे स्वापेक्षयाऽधिकवले ग्रीष्मकाले च, शीतलतां सौम्यतां शैत्यं च, उपेत्य, शिशिरे सौम्ये शीतकाले च, उष्णतां क्रूरहृदयत्वं औष्ण्यं च भजन्ति; 'कूपोदकं सुभाषितनीव्यां वटच्छाया नारीपीनपयोधरौ । शीतकाले भवेदुष्णमुष्णकाले च शीत लम् ॥' इत्युक्तेः । अत्र कुचतटीकाठिन्यवन्त इति निदर्शनयान्य- धर्मस्यान्यत्रासंभवादौपम्यमाक्षिप्यते । सर्वैर्वाक्यैः श्लेषमूलकाभेदाति- शयोक्तिगर्भैः निदर्शनागर्भैश्च कुचौपम्यं ध्वन्यते ॥ १२ ॥ इति श्रीमच्छ्रीशैलकुलतिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य श्रीश्रीनिवासविदुषः कृतिषु सुभाषितनीवी- व्याख्यायां रत्नपेटिकाख्यायां खलपद्धतिः तृतीया ॥ दुर्वृत्तपद्धतिः ॥ : न 'आचारहीनं न पुनन्ति वेदा यद्यप्यधीताः सह षड्भिरङ्गैः । छन्दांस्येनं विजहत्यन्तकाले नीडं शकुन्ता इव जातपक्षाः, ' विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रचक्षते ॥', 'सर्वागमानामाचारः प्रथमं परिकल्प्यते,' 'कुलमा- चारकर्मणा' इत्यादिभिर्वृत्तस्यावश्यकत्वमभिप्रेत्याह- गुणजालप्रकर्षेऽपि धीवरत्वेऽपि जन्मतः । सर्वतीर्थावगाहेऽपि नीचवृत्तिर्न शस्यते ॥ १ ॥ गुणाति ॥ गुणजालानां गुणसमूहानां प्रकर्षेऽपि गुणयुक्ता- नायानामाधिक्येऽपि ; 'जालं समूह आनाये ' इत्यमरः । जन्मतः जन्मप्रभृतीत्यर्थः, धीवरत्वेऽपि बुद्ध्या श्रेष्ठत्वेऽपि ; जन्मत: जात्या कैवर्तत्वेऽपि, 'कैवर्ते दाशधीवरौ ' इत्यमरः । सर्वतीर्थेषु सर्वपुण्योदकेषु अवगाहेऽपि जलावतारस्थानेषु अवगाहनेऽपि, 'निपानागमयोस्तीर्थ- मृषिजुष्टजले गुरौ' इत्यमरः । नीचवृत्तिः निकृष्टाचारः निम्नदेशस्थि- कैवर्तानां मत्स्यग्रहणाय निम्नदेशस्थितत्वात् ; न शस्यते न स्तू- तिश्च, यते, अतिशयावहं न भवतीत्यर्थः । अत्र कैवर्तसाम्यध्वनिः ॥ १ ॥ द्विजराजाङ्कसंस्थोऽपि सन्मार्गाचारवानपि । विशुद्धिरहितः कश्चिन विन्दत्यकलङ्कताम् ॥ २ ॥ सुभाषितनीव्यां द्विजेति । द्विजराजाङ्के ब्राह्मणश्रेष्ठसमीपे, संस्था स्थितिर्यस्य स तथोक्तः ; 'अङ्कः स्थानान्तिका मर्षरूपकोत्सङ्गलक्ष्मसु ' इति विश्वः, ' संस्थाऽचारे स्थितौ मृतौ' इत्यमरः । यद्वा द्विजराजाङ्के संतिष्ठत इति संस्थः, सुपि स्थ इति कः । सन्मार्गाचारवानपि, स्पष्टं; अन्यत्र चन्द्रोत्सङ्गवर्त्यपि ; सन्मार्गे नक्षत्रमार्गे, आ समन्ताच्चारवान् संचार- वानित्यर्थः । विशुद्धिरहितः परिशुद्धिरहितः कश्चित्, न विद्यते कलङ्कोऽपवादो यस्य तस्य भावस्तत्ता ताम्, अन्यत्र अचिह्न रूपत्वं ; 'कलङ्कोऽङ्कापवादयोः ' इत्यमरः । न विन्दति न प्राप्नोति, सापवादत्वमेव प्राप्नोतीत्यर्थः ॥ २ ॥ सरलहृदयोऽपि तारकमन्त्रोपासकोऽपि परिपूर्णप्रियभाग्येोऽपि, शुभाचारं परित्यज्य, नरकपतनमेव भजतीति – 'गोभिः पशुभिरश्वैश्च कृष्या च सुसमृद्धया । कुलानि न प्ररोहन्ति यानि हीनानि वृत्ततः । वृत्तं यत्नेन संरक्षेद्वित्तमेति च याति च । अक्षीणो वृत्ततः क्षीणो वृत्ततस्तु हतो हतः । ' इत्युक्तरीत्याह- -- अवक्रस्तारकाधीशः परिपूर्णप्रियोदयः । प्राचीं दिशमतिक्रम्य पतनं प्रतिपद्यते ॥ ३ ॥ अवक्र इति ॥ प्राचीं दिशं शुभाचारं पूर्वककुभं च ॥ दुराचाराणां श्रेष्ठब्राह्मण्यादिजातियोगोऽपि प्रत्यवायभूयस्त्वाये - त्याह- दुर्वृत्तपद्धतिः । । पततां हन्त केषांचिद्भजते मलिनात्मनाम् । विशुद्धवर्णयोगोऽपि विपरीतनिमित्तताम् ॥ ४ ॥ पततामिति ॥ मलिनात्मनां दुराचाराणां, अत एव पततां द्विजातिकर्मभ्यो हानिः पतनं तद्वताम् ; विशुद्धवर्णयोगः ब्राह्मणजा- तियोगः, विपरीतनिमित्ततां अत्यन्त निकृष्टताहेतुताम् भजते । यथा मलिनात्मनां श्यामवर्णानां पततां वृक्षेभ्यः संसतां केपांचित्पत्ता- 'णामित्यर्थः, विशुद्धवर्णयोगः पाण्डुत्वयोगः, विपरीतनिमित्ततां पाण्डु पत्रविरुद्ध किसलयादिनिमित्ततां भजते – इति पत्रसमाधिः । पततां स्कन्धफालादिदेशे पतनत्रतां, मलिनात्मनां शिरोरुहाणां, विशुद्धवर्ण- योगो जराशौक्ल्यं, विपरीतनिमित्ततां वृद्धताज्ञापनद्वारा मरणज्ञाप- कताम् भजते इति शिरोरुहसमाधिर्वा बोध्यः ॥ ४ ॥ , - दुराचारोऽपि प्रायश्चित्तेन शुद्धश्चेत् केनाप्यनुगृह्यत इत्याह-- पतनानन्तरं कुछ्रात्प्ररूढः शुद्धिमानपि । द्विजः संछाद्यते कश्चिदधरेणापि रागिणा ॥ ५ ॥ पतनेति । द्विजातिकर्मभ्यो हानिः पतनं तदनन्तरम्, कृछ्रात् कृछ्रादिप्रायश्चित्तात्, प्ररूढः पुनर्द्विजत्वापादक संस्कारैरुत्पन्नः, अत एव शुद्धिमान्, द्विजेोऽपि कश्चित्, रागिणा प्रीतिमता, अधरेणापि, शास्त्राभिज्ञेनानुगृह्यत एव तदनभिज्ञेन पामरेणापीत्यपिशब्दार्थः । सं- छाद्यते, पतितोऽयमिति न प्रकाश्यत इत्यर्थः । 'गुणदोषौ बुधो गृह्णन. इन्दुक्ष्वेलाविवेश्वरः । शिरसा श्लाघते पूर्वे परं कण्ठे नियच्छति' इति 3 सुभाषितनीव्यां दोषोद्घाटनस्यानुचितत्वात्सहृदयस्येति भावः । दन्तसमाधिरत्र गम्यते, द्विजो दन्तः, 'दन्तविप्राण्डजा द्विजाः' इत्यमरः । कृछ्रात् अतिप्रया- सात्, प्ररूढ: उत्पन्नः, अधरेण अधरोष्ठेन; शेषं स्पष्टम् ॥ ५ ॥ कश्चिदुदरपोषणार्थं परिशुद्ध इवाभिनयन् डाम्भिको भवति, ताह शैः 'हैतुकान् बकवृत्तींश्च वाङ्मात्रेणापि नार्चयेत्' इति संभाषणा- दिकमपि न कुर्यादित्यभिप्रेत्याह- जोषमेकपदे स्थित्वा संनिकृष्टान्क्षणाद्वसन् । बहिर्दर्शित संशुद्धिर्बको ऽप्याहारमईति ॥ ६ ॥ जोषमिति । बहिर्दर्शितसंशुद्धिः स्नानादिना वैशिष्ट्यमभिन- यन्नित्यर्थः ; एकपदे एकचरणे, जो मौनेनान्वितः, स्थित्वा योगं कुर्वाण इव, मौनमाश्रित्यैकपादेन स्थित्वेत्यर्थः । सन्निकृष्टान् यैः कैश्चिदयं महान्योगीति भक्त्या समर्पितान् उपहारान् क्षणादवि- लंबेन घसन् गृह्णन्, बकोऽपि बकब्राह्मणोऽपि, आहारमर्हति आहार लब्धुं योग्यो भवतीत्यर्थः । तादृशनिकृष्टवृत्त्यापि स्वोदरपूरणमेव, न परसंरक्षणमित्यभिप्रायेणाहारमर्हतीत्युक्तम् । ' यस्मिन् जीवति जीवन्ति बहव: स तु जीवति । बकोऽपि किं न कुरुते चंच्चा स्वोद- रपूरणम्' इत्यपिशब्देन ज्ञापितम् । अत्र बकसमाधिः ; सन्निकृष्टान् मत्स्यादीन् ; एकपदे युगपत् ; अव्ययमेतत् ; घसन् भक्षयन् ॥ ६॥ द्विजस्य परिशुद्धसहायस्य पण्डितस्यापि समीचीनव्यवहारः समी- चीनवाक् समीचीनजीवनं च विद्यते चेत् शिष्टैः सह शिष्टत्वेन दुर्वृत्तपद्धतिः । संव्यवहारो भवेत् ; नो चेद्बहिष्कार्यतैवेत्यभिप्रायेणाह --- द्विजस्य सितपक्षस्य कवेरपि निरस्यते । ३५ न हंस इति साजात्यं गतिशब्दितवृत्तिभिः ॥ ७ ॥ द्विजखेति ॥ मातृगर्भादण्डरूपेण जननं, पुनरण्डात्करचरणादि- विशिष्टरूपेण जननमिति द्विजस्य, सितपक्षस्य श्वेतगरुतः, के उदके मंचरन् विः पक्षी कविः, तस्यापि गतिशब्दितवृत्तिभिः हंस इति माजात्यं न निरस्यते, हंसस्य हंसान्तरेण साजात्यं, गतिशब्दितवृ- त्तिभिः एकस्य हंसस्य यादृशी गतिर्यादृशः शब्दो यादृशी जीविका तादृशमन्यस्याप्यस्ति चेत् हंस इत्युच्यते, न द्विजत्वसितपक्षत्वक- वित्यैः, द्विजस्य सितपक्षस्य कवेर्बकस्य तादृशगतिशब्दितवृत्त्यभावेन हंमत्वाभावादिति भावः । अप्रस्तुतप्रशंसालंकारः ॥ ७ ॥ विरुद्धाचाराणां आशीरपि न श्रेयः साधनमित्याह-- अव्यवस्थितवृत्तानामभिन्नश्रुतिचक्षुषाम् । अधर्मार्जितभोगानामाशीरप्य हितोचिता ॥ ८ ॥ " अव्यवस्थितेति ॥ अथ यदि ते कर्मविचिकित्सा वा वृत्तवि- चिकित्सा वा स्यात्, ये तत्र ब्राह्मणाः संमर्शिनः, युक्ता आयुक्ताः, अदक्षा धर्मकामाः स्युः, यथा ते तत्र वर्तेरन्, तथा तत्र वर्तेथा: इत्युपदेशमार्ग विहायाव्यवस्थितचरित्राणां ; अभिन्नः जीवात्मना एकीभूतः, श्रुतिचक्षुः परमात्मा, येषां ते तथोक्ता- :: सुभाषितनीव्यां : स्तेषाम् ; 'वेदचक्षुः सनातनः इत्युक्तेः श्रुतिचक्षुः शब्दस्य पर- मात्मपरत्वम् । यद्वा अभिन्नमविचारितं श्रुतिचक्षुः चक्षुः सदृशश्रु- तिर्यैस्ते तथोक्तास्तेषाम्; 'श्रुतिस्मृती तु विप्राणां चक्षुषी द्वे विनिर्मिते इत्युक्तेः श्रुतेश्चक्षुः सदृशत्वं, अधर्मेण धर्मभिन्नेन काम्यकर्मणा, अन- भिसंहितफलो भगवत्प्रीणनैकप्रयोजनतया अनुष्ठीयमानः शास्त्रविहितां धर्मः, तद्भिन्नोऽधर्म एव; धर्मेण पापमपनुदतीत्यत्राभिसंहितफलस्य धर्मस्यापि पापत्वाभिधानात् । आर्जितः भोगः स्वर्गाद्यनुभवो येषां ते तथोक्तास्तेषामाशीरपि अहितोचिता हितोचिता न भवत, श्रेयःसाधनाय न समर्थेत्यर्थः । अत्र निदर्शनं-- अविषु पर्वतेषु अव- स्थिता वृत्ता वर्तुलाश्च तेपां अभिन्नश्रुतिचक्षुषां चक्षुश्रवत्स्वात् अधर्माय परहिंसाये आर्जितः भोगः शरीरं येषां तेषाम् ; सर्पाणामि त्यर्थः । ' अहेः शरीरं भोगः स्यात्' इति निघण्टुः । आशीष्ट्रापि, अहितायाः सर्पत्वस्य उचिता योग्या, 'आशीरुरगदंष्ट्रायां शुभवा- क्याभिलाषयोः' इति विश्वः ॥ ८ ॥ , असद्वृत्तेरारोपमात्रेणापि मान्यो न भवतीत्याह- दुष्टैरारोपितः कश्चिदनर्थक्रिययान्वितः । असत्कारेण गृह्येत विरुद्ध कारवेदिभिः ॥ ९ ॥ दुष्टैरारोपित इति ॥ दुष्टैः दुर्जनैः अनर्थक्रियया अनर्थहेतुव्यापा रेणान्वितः सन्नारोपितः कश्चित् विरुद्धाकारवेदिभिः आरोपिताकारज्ञैः असत्कारेण अबहुमानेन गृह्येत दुष्टदोषयुक्तेरिन्द्रियैः, अनर्थक्रियया दुर्बत्तपद्धतिः । कटकमकुटाद्यर्थक्रियाभावेन, 'क्वचित्तदभावेऽपि नञ्समास इष्यते ' इति ; अन्वितः कश्चिदारोपितो रजतादिः; विरुद्धाकारवेदिभिः शुक्तिस्वरूपज्ञैः, रजतभाववेलायां सत्त्वेन गृहीतोऽपि शुक्तित्व- ग्रहणदशायां, रजतादिरर्थोऽसत्कारेणासद्भावेन, मासिकरजतादिरत्र निदर्शनम् ॥ ९ ॥ वृत्त्या मलिनो राज्ञा मित्रेणापि दण्ड्यो भवतीत्याह- प्राति- तमः स्वभावमलिनं वृच्यालोकोज्झिताश्रयम् । दण्ड्यं मित्त्रेण राज्ञा च दृष्टदोषान्वयं विदुः ॥ १० ॥ तम इति । वृत्त्या हेतुना आलोकेन प्रकाशेन लोकेन च, उज्झित आश्रयो यस्य तथोक्तम्, दृष्टः दोपायां रात्रौ अन्वयो यस्य तत् । दोषापदं रात्रिवाचकमव्ययमिति अमरसिंहादिभिरुक्तम्; अन्ये तु 'ततः कथाभिः समतीत्य दोषामारुह्य सैन्यैः सह पुष्पकं ते ' इति भट्टिप्रयोगादनव्ययमप्याहुः । अन्यत्र दृष्टः दोषाणामन्वयो यस्येति बोध्यम् । स्वभावमलिनं तमः, मित्रेण सूर्येण आप्तेन च, राज्ञा चन्द्रेण च नृपेण च, 'राजा प्रभौ नृपे चन्द्रे' इत्यमरः । दण्ड्यं - निवर्त्य, अन्यत्र शिक्षणीयं विदुः । इलेपनिबन्धनोऽयमप्रस्तुतप्रशं- सालंकारः ॥ दुर्जनाः स्वयं दुर्वृत्ताः सन्तः सद्वृत्तानेव लज्जापयन्तीत्याह- जातिमात्रशरणा बहिष्कृताः केचिदाहतजघन्यवृत्तयः । सुभाषितनीव्यां रोषणा विपरिधाविनो मुहु- पयन्ति जनमुज्झितहियः ॥ ११ ॥ जातिमात्रेति । जातिमात्रमेव शरणं रक्षणोपायो येषां ते तथोक्ताः, मात्रचा तदुचितकर्मादयो व्यवच्छिद्यन्ते, अन्यत्र जातिः चुल्ली, ' जातिजतिफले धात्र्यां चुल्लीकंपिल्लयोरपि' इति विश्वः । तदेव तन्मात्रं शरणं स्थानं येषां तेषामित्यर्थः । बहिष्कृताः सद्भिः निरस्ताः बहिर्देश एव स्थापिताश्च; 'नित्यं समासे ऽनुत्तरपदस्थस्य' इति षत्वम् । आता जघन्यवृत्तिर्नीचवृत्तिश्च येषां ते तथोक्ताः, जघन्यं चरमे शिभे जघन्यं गर्दितेऽन्यवदिति विश्वः । रोषणाः क्रोधाविष्टाः, नन्द्यादित्वाल्ल्युः । मुहुर्विशेषेण; कलहार्थं, नूतनजनाप्रवेशार्थं च अभिमुखं धावन्तीति विपरिधाविनः, ऊज्झितह्रियः स्वयंगर्हितवृत्तय इति, लज्जारहिताः केचिद्दुर्जनाः शुनकाश्च जनं हेपयन्ति ; स्वदर्शनेन जनः स्वयमेव यथा लज्जायुक्तो गच्छेत् तथा कुर्वन्तीत्यर्थः । ह्री ल ज्जायामित्यस्माणिचि अर्तिही इत्यादिना पुगागमे पुगन्तलघूपध- स्येति गुणे हेपयन्तीति रूपम् । शुनकसाम्यं प्रतीयते ॥ ११ ॥ क्षुद्रनिषिद्धविषयाभिलाप: सद्बुद्धिं प्रतिक्षिपतीत्याह-- आलोकावधि यद्वशेन सुगतिं विन्दन्ति भूतान्यसौ दृष्टिस्नेहवशेन सा वितनुते वंशे भुजंगभ्रमम् । दक्षा भोगिषु केषुचिद्विषमितां दृष्टिं निहन्तुं क्षणा- तानप्याशु विनाशयेत्क्षणरुचिः काचित्क्षणस्फूर्जथुः ॥ दुर्वृत्त पद्धतिः । 1 आलोकेति ॥ अलोकावधि आलोको यावति देशे वर्तते ताव- त्पर्यन्तम्, भूतानि यद्वशेन यद्दृष्टिविशेन, सुगतिं शोभनगमनं विन्दन्ति । लोकावधिमभिव्याप्य स्थितानि भूतानि यत्सत्यज्ञानेन सुगतिं सद्गतिं विन्दन्ति इति प्रतीयते । असौ दृष्टिः, तत्त्वबुद्धिश्व ' दृष्टिज्ञानेऽक्षिण दर्शने ' इत्यमरः । स्नेहवशेन रागवशेन मण्डूकत्र- साद्यञ्जनविशेषेण, वंशे वेणौ भुजङ्गभ्रमं वितनुते भुजङ्गभ्रमं जन- यति; वंशोरगभ्रमे मण्डूकवसाञ्जनं दोष इत्याहुः । स्नेहवशेन राग- वशेन, वंशे जनवर्गे, भुजंगभ्रमं विटभ्रान्ति, 'वंशे वेणौ कुले वर्गे' इत्युभयत्रापि विश्वः, वितनुते । भोगिषु सर्वेषु, भोग- वत्सु च विषं इतां प्राप्तां विषमितां, विषमिश्रां ; विषमीकृतां दृष्टिं क्षणान्निहन्तुं दक्षाः सन्तीति शेषः; तामपि दृष्टिं क्षणस्फूर्जथुः क्षणं क्षणमात्रं स्फूर्जथुः वज्रसङ्घर्षशब्दो यस्याः सा ; क्षणरुचिः विद्यु- त्काचित् आशु विनाशयेत् । वज्रपतनकालिकी विद्युत् दृष्टेरत्यन्तप्र- तिबन्धकेति भावः । 'टुओस्फूर्जा वज्रनिर्घोषे इत्यस्मात् द्वितो थुजिति अथुच् ॥ १२ ॥ : इति श्रीमच्छ्रीशैल कुलतिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य श्रीश्रीनिवासविदुषः कृतिषु सुभाषितनीवी- व्याख्यायां रत्नपेटिकाख्यायां दुर्वृत्तपद्धतिः चतुर्थी ॥ असेव्यपद्धतिः ॥ SKO कठिनः कृशमूलच दुर्लभो दक्षिणेतरः । कश्चित्कल्याणगात्रोऽपि मनुष्यैर्नोपजीव्यते ॥ १ ॥ कठिन इति ॥ कठिनो निर्दयः, कृशमूलः निर्धनः, मेरुस्तु मूले कृशः उपरि विस्तीर्णश्च, दक्षिणेतरः अनुदार:, भुवो मध्यदे- शवर्तित्वाद्दक्षिणदिग्भागवर्ती, पर्वतेभ्य इतरश्च, 'दक्षिणस्सरलो वाम- पद्यच्छन्दानुवर्तिषु' इति विश्व: । ' दक्षिणे सरलोदारः ' इत्यमर: । कल्याणगात्रः शुभाकृतिरपि सुवर्णमयशरीरोऽपि; 'कल्याणमक्षये स्वर्णे कल्याणं मङ्गलेऽपि च ' इति विश्वः । कश्चित् पुरुषो मेरुश्च मनुष्यैर्नोपजीव्यते एकत्र व्यर्थत्वादन्यत्रासाध्यत्वादिति भावः ॥ १ ॥ दृष्टपका प्रतिपदं स्यादल्पसरसः स्थितिः । काले घनरसैर्योगे ऽप्यसेव्या जीवितार्थिभिः ॥ २ ॥ दृष्टपङ्केति ॥ प्रतिपदं दृष्टपङ्का ग्रीष्मे दृष्टकर्दमा दृष्टदोषा च; काले वर्षाकाले कार्यकाले च; घनरसैर्योगेऽपि, अल्पसरसः स्थितिः क्षुद्रकासारस्थितिरल्पपुरुषस्थितिश्च; जीवितार्थिभिः प्राणार्थिभिः जीव- नार्थिभिश्च, असेव्या स्यात् । ' उत्तमानेव सेवेत प्राप्तकाले तु मध्य- मान्' इति धृतराष्ट्रप्रजागरे उक्तत्वात् काले घनरसैर्योगे ऽपीत्युक्तम् ॥ असेव्यपद्धतिः । यस्य यत्सत्ता स्वरूपविरुद्धा, तयोः कदापि न संबन्ध इत्याह- सतः सत्त्वविहीनानां सत्तयैवापराध्यतः । कथंकारं प्रतीकारः कल्पकोटिशतैरपि ॥ ३ ॥ सत इति ॥ सत्त्वविहीनानां सत्त्वगुणरहितानां तामसादीनां विद्यमानतारहितानां च सत्तया साधुभावेनैव, विद्यमानतयैव च अपराध्यतः सतः; सत्तैव तेजसस्तिमिरस्य विरुद्धा, प्रतीकारः विरोधपरिहारः, कल्पकोटिशतैरपि कथंकारं कथंचिदित्यर्थः अन्य- थैवं कथमित्थं सुसिद्धाप्रयोगश्चेदिति कथमित्युपपदे स्वार्थे कृञि 'णमुल् ॥ ३ ॥ , : अपि संतापशमनाः शुद्धाः सुरभिशीतलाः । भुजंगसंगाज्जायन्ते भीषणाश्चन्दनद्रुमाः ॥ ४ ॥ अपीति । स्पष्टम् ' मुखेन गरळं मुञ्चन् मूले यदि महोरगः । फलसन्दोहगुरुणा तरुणा किं प्रयोजनम् ॥ ' ' सुपुष्पितः मारफलः फलितः स्याद्दुरासदः । अपक्कः पक्कसङ्काशः स च शीर्येत कर्हिचित् ' इत्यादि स्मारितम् ॥ ४ ॥ नीचानुसरणान्मन्ये निसर्गपरिशुद्धयोः । गतिः कुटिलतां याति गङ्गायमुनयोरपि ॥ ५ ॥ नीचेति ॥ नीचानुसरणात् नीचसेवनात्, उन्नतभूमेर्निम्नदेशे प्रव- इनाश्च गतिर्बुद्धिर्गमनं च, 'गतिस्तु गमने मार्गे दशायां बुद्ध्युपाय- " सुभाषितनीव्यां योः' इति निघण्टुः । शेषं स्पष्टम् । मन्ये – इति निपातप्रतिरूपकम- व्ययमिति भोजराजः । ' अधमांस्तु न सेवेत य इच्छेद्भूतिमात्मनः । यदि सन्तं हि सेवेत यद्यसन्तं तपस्विनम् ॥ ' ' वासो यथा रागवशं प्रयाति तथा स तेषां वशमभ्युपैति ' इत्यादि स्मारितम् ॥ ५ ॥ मित्रे भवति वैमुख्यं मैत्री दोषाकरेण च । अपि तीर्थप्रसूतानां कैरवाणां रजोभृताम् ॥ ६ । मित्र इति । तीर्थप्रसूताना योग्यादुत्पन्नानाम्, जलावतारोत्प- न्नानां च; रजोभृतां रजोगुणवतां, परागवतां च; कैरवाणां शठानां कुमुदानां च; मित्रे सख्यौ सूर्ये च; वैमुख्यं भवति दोषाकरेण पापा- त्मना चन्द्रेण च; मैत्री भवति । अतो न सेव्या इति भावः । नन्व- सेव्यत्वं कैरवाणि न निदर्शनमिति चेन्न; रजोभृतां मिलवैमुख्यादिके निदर्शनेन समर्थिते सति तेषामसेव्यत्वसिद्धेः ॥ ६ ॥ अपि निर्मुक्तभोगेन स्वान्तःस्थविषयेक्षया । असद्भावाय जायेत जिह्मगेन सहासिका ॥ ७ ॥ अपीति ॥ निर्मुक्तस्त्यक्तो भोगो येन तेनापि ; निर्मुक्तो मुक्त- कञ्चुको भोगः शरीरं यस्य तेन च तथोक्तन ; जिझगेन कुटिलवृत्तिना सर्पेण च ; सहासिका सहावस्थानम्, धात्वर्थनिर्देशे ण्वुल् वक्तव्य इति ण्वुल् ; स्वान्तःस्था: मनः स्थिता अभिलषिता ये विषयाः भोग्यपदार्थाः, स्वान्ते स्वस्यान्ते समीपे तिष्ठन्तीति तथोक्ताः ; ते च ते विषयास्ते- पामीक्षया दृष्टया ; स्वस्य अन्तस्तिष्ठतीत्यन्तःस्थं विषं यस्यास्सा ' असेव्यपद्धतिः । तथोक्ता तया, त्रिपगर्भया ; ईक्षया दृष्टया च, असद्भावाय दुष्टत्वाय नाशाय; जायेत । अतो विषयभोगलम्पटेन सह वासो न कार्य इति भावः ७ ॥ 1 मण्डूकराविणं सर्प गोमुखं च मृगादिनम् । न सुहृत्वेन मन्येत मानयन्तं च वैरिणम् ॥ ८ ॥ मण्डूकेति ॥ मण्डूक इव रौतीति मण्डूकरावी तं कर्तर्युपमान इति णिनिः, सर्प, सर्पजातिषु तादृशः कश्चित्सपऽस्ति गोमुखं तादृशमुखयुक्तम् ; मृगादिनं व्याघ्रम्, व्याघ्रजातिषु तादृशः कश्चि- दस्ति; तं दृष्ट्वा तादृशोऽयमिति न विश्वसेदित्यर्थः । मानयन्तं वैरिणं च, सुहृत्त्वेन शोभनहृदयत्वेन मित्रत्वेन च, न मन्येत । ' वदन्ति asarai धर्मैक्यं दीपकं बुधाः इत्युक्तदीपकालंकारः ॥ 'न विश्वसेदविश्वस्ते विश्वस्ते नातिविश्वसेत् । विश्वासाद्भयमुत्पन्नं मूलान्यपि निकृन्तति इति नीतिविदः ॥ ८ ॥ घोरास्त्यक्तमिथोवैराः सौकर्यवदुपद्रवे । दण्डेनापि न भज्येरन्पापकुण्डलिमण्डलाः ॥ ९ ॥ घोरा इति । घोराः क्रूराः, पापा: कुण्डलिमण्डलाः सर्पसमूहा इव तथोक्ताः; सौकर्यं सुकरत्वं अस्यास्तीति सौकर्यवान्, सुलभ इति यावत्; तादृशे उपद्रवे अल्पोपद्रवेऽपीत्यर्थः । सौकर्यं सूकर- भावः, तदेषामस्तीति तद्वन्तो वराहाः । ' सौकर्यं स्यादनायासे सूक- रस्य च कर्मणि इति विश्वः । तेषामुपद्रवे तत्कर्तृकेोपद्रवे, ते हि सुभाषितनीव्यां वल्मीकानि खनन्ति, त्यक्तमिथोवैराः सन्तः सङ्गीभूय पलायमानाः सन्तः दण्डेनापि न भज्येरन्, भग्ना न क्रियेरन्, 'स्यान्मण्डलं द्वा- दशराजके च देशे च बिम्बे च कदम्बके च । कुष्ठप्रभेदेऽप्युपसूर्य के च भुजङ्गभेदे शुनि मण्डल: स्यात् ' ' त्रिम्बोऽस्त्री मण्डलं त्रिषु' इति पुल्लिंग ॥ : अनाकलितमानुष्याः क्षमासंस्पर्शवर्जिताः । प्रतिबुद्धैर्न सेव्यन्ते पूर्वदेवविरोधिनः ॥ १० ॥ ; अनाकलितेति । अनाकलितमगृहीतं, मानुष्यं मनुष्यकर्म, येषां ते तथोक्ताः, पिशाचव्यापारवन्त इत्यर्थः ; गुणवचनब्राह्मणादिभ्यः कर्मण चेति ष्यञ् प्रत्ययः । ब्राह्मणादिराकृतिगण इत्युक्तम् । अनाकलितमप्राप्तं मानुष्यं मनुष्यभावो मनुष्यत्वं येषां ते तथोक्ता इति च । क्षमासंस्पर्शन क्षमा गुणसंस्पर्शन च भूतलसंस्पर्शन च वर्जिताः पूर्व देवविरोधिनो देवद्वेषिणः पश्चात् ब्राह्मणद्वेषिणश्च ; प्रतिबुद्धै: बुद्धिमद्भिः न सेव्यन्ते नाश्रीयन्ते । पूर्वदेवा राक्षसाः, तद्विरोधिनो देवाः, प्रतिबुद्धैर्मोक्षा- र्थिभिः, न सेव्यन्ते ; 'ब्रह्माणं शितिकण्ठं च याश्चान्या देवताः स्मृताः । प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम्' इत्युक्तेः ॥ यथा मोक्षकामैरन्यदेवता न सेव्यन्ते, दूरं परिहियन्ते, एवं बुद्धिमद्भिः दुर्जना न प्राप्या इत्यर्थः ॥ १० ॥ परिक्षीणाचारस्य श्रुतमपि विदुषाऽतिक्रमे दण्डभूयस्त्वहेतुत्वा- दधिकानर्थे संपादयतीति सदृष्टान्तमाह- असे व्यपद्धतिः । अमित्रे विश्वासः श्वपचकरके सौमिकरसः कपाले गङ्गाम्भः खलपरिषद के सुजनता । परिक्षीणाचारे श्रुतमनुपनीते च निगमः स्वतःसिद्धां शुद्धिं त्यजति विपरीतं च फलति ॥ ११ ॥ ' अमित्र इति । श्रपचानां चण्डालानां करके पात्रविशेषः, तस्मिन्; सौमिकरस: ः देवतासमर्पितावशिष्टः सोमरसः, जनानां समूहो जनता, शोभना चासौ जनता च सुजनता, ग्रामजनबन्धुभ्यस्त - लिति समूहार्थे तत्प्रत्ययः । स्पष्टमन्यत् ॥ ११ ॥ राजगृहं द्रव्यचौर्याद्यारोपणादिभिर्दण्डहेतुत्वाद सेव्यमित्याह-- तरतु विवित्सयाब्धिमधिरोहतु शैलतटं धमतु च धातुवर्गमधिगच्छतु शस्त्रमुखम् । तदिदमरुन्तुदं यदुत बहवधाय भिया धनमदमेदुरक्षितिभृदङ्कणचङ्क्रमणम् ॥ १२ ॥ इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सुभाषितनीव्यां असेव्यपद्धतिः पञ्चमी ॥ सुभाषितनीव्यां तरत्विति ॥ विवित्सया धनलाभेच्छया, विद्ल लाभ इत्यस्मात्सन् अब्धिं तरतु, नावा देशान्तरं गच्छतु; कामचारे लोट्, ततोऽनिष्टं नास्तीत्यर्थः, धातुवर्गे अश्मविकारसमूहम्; सुवर्णीकरणाय धमतु च पुटपाका निक्षिप्य मुखेन वायुफूत्कारं करोतु ; अधिगच्छतु शस्त्रमुखम्, तदपि शक्यमेवेति भावः ; धनलाभाय खड्गप्रहारादिसह- नात् । भिया भयेन, कुत्र को वापराधः स्यादिति भयेन बहु यथा भवति तथा अवधाय अप्रमादेन स्थित्वा ; 'प्रमादोऽनवधानता' इत्य- मरः । धनमदेन मेदुराणां क्षितिभृतां, अङ्गणे चङ्क्रमणं गृहे परि- भ्रमणमित्यर्थः । यदुत तदिदमरुन्तुदं दुःखावहम् । उतेति निन्दा - द्योतकम् ; स्तब्धोऽस्युतेतिवत् ॥ १२ ॥ इति श्रीमच्छ्रीशैलकुलतिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य श्री श्रीनिवासविदुषः कृतिषु सुभाषितनीवी - व्याख्यायां रत्नपेटिकाख्यायां असेव्यपद्धतिः पचमी ॥ महापुरुषपद्धतिः ॥ एवमज्ञानमूलदोषविषयपद्धती: प्रणीय अनन्तरं ज्ञानमूलगुण- विषयपद्धतयः प्रणीताः । तत्र सकलगुणानामाश्रयत्वान्महापुरुषस्य महापुरुषपद्धतिः प्रथममुक्ता- - सतामेव खपुष्पत्वं येषां यत्सदसत्रयोः । न जातु तस्य तत्ताभ्यामिति तेषां स विश्वदृक् ॥ १ ॥ सतामिति ॥ यत्सदसत्त्वयो: यस्य महापुरुषस्य सदसत्त्वयोः, येषां सतामेव, खपुष्पत्वं अप्रसिद्धत्वम्; सर्वज्ञस्य सत्त्वे इतरजना - नामप्रसिद्धत्वम्, तदसत्त्वेऽपि सतामेव खपुष्पत्वं शून्यत्वम् । सन्मा- र्गप्रकाशकस्य महाजनस्याभावे सत्पुरुषदौर्लभ्यमित्यर्थः । जातु कदा- चिदपि तस्य महापुरुषस्य तत्ताभ्यां तेषां सतां ताभ्यां सत्त्वासत्त्वा- भ्याम्, न वपुष्पत्वं नास्तीत्यर्थः । सतां सत्त्वे सर्वज्ञस्याप्रसिद्धत्वं नास्ति, असत्त्वे च शून्यत्वं नास्तीति एवं तेषां सतां मध्ये, म विश्व- दृक् सर्वज्ञः । अत्र निदर्शनम् -- विश्वहक जंगच्चक्षुः सूर्य: 'कर्मसाक्षी- जगच्चक्षुः' इत्युक्तेः । यत्सदसत्त्वयो: यस्य सूर्यस्य सदसत्त्वयोः, सतां नक्षत्राणामेव स्वपुष्पत्वं सत्त्वे व शून्यं पुष्पं विकासो येषां तत्त्वम्; दिवा नक्षत्रसत्त्वेऽप्यस्फुरणात् । 'स्वमिन्द्रिये सुखे स्वर्गे शून्ये बिन्दौ विहायसि । पुष्पं विकासे कुमुमे स्त्रीणां रजसि च स्मृतम् इति ) सुभाषितनीव्यां विश्वः ॥ असत्त्वे खे आकाशे पुष्पवत् स्थितत्वं रात्रौ तथाभानात्, जातु कदापि तस्य सूर्यस्य तत्ताभ्यां नक्षत्रसत्त्वासत्त्वाभ्यां, खपुष्पत्वं नास्तीति, तेषां नक्षत्राणां मध्ये, स विश्वदृक् जगच्चक्षुः । प्रकृताप्र- कृतश्लेषः, तेनोपमालङ्कारो व्यज्यते ॥ १ ॥ महाजनः सतां नियमनेन शिष्टानां ब्राह्मणादीनां स्वसूत्रानुगुण्येन प्रवृत्ति निवृत्तिं च न भिनत्तीत्याह- सन्नियोगेन शिष्टानां वर्णादीनां स्वसूत्रतः । प्रवृत्तिं च निवृत्तिं च न भिन्द्यात्साधुशब्दवत् ॥ २ ॥ , सन्नियोगेनेति ॥ स्वसूत्रतः आपस्तम्बादिसूत्रानुसारेण, व्या- करणसूत्रानुसारेण च, शिष्टानां सत्पुरुषाज्ञया शिक्षितानाम्, सहविहि- तानां च, वर्णादीनां ब्राह्मणादीनाम्; आदिशब्देनाश्रमादीनां ग्रहणम् ; वनोरचेत्यादिना ङीबादिसन्नियोगेन शिष्टानां रेफादिवर्णानां च साधुशब्दवत् साधुशब्दानामित्र तत्र तस्येति वतिप्रत्ययः । प्रवृत्तिं 'शास्त्राधीशे शक्तियुक्ते ' इति बृहस्पतिमौढ्यादिषु प्रथमोपाकर्मादिषु प्रवृत्तिं शुक्र मौढ्यादिषु निवृत्तिं ङीबादिना सह रेफादीनां प्रवृत्ति तदभावे तदभावं 'औत्वप्रतिषेधः साकच्कस्य वा वक्तव्यः साधुत्वं च' इत्यादिषु औत्वाद्यन्ते उत्वनिवृत्तिमित्यादिकं, न भिन्द्यात् महा- पुरुषो न निरुन्ध्यात्, अपि तु प्रवर्तयेत्; अर्हार्थे लिङ् अनाशीरर्थक- त्वेन सार्वधातुकत्वात् श्नम् । यासुटो ङित्वात् ; ' नसोरल्लोपः' इत्य- लोपः । नकारमात्रस्य श्रवणम्, सन्नियोगविशिष्टानां सह वा प्रवृत्ति: सह वा निवृत्तिरिति न्यायोऽत्रानुसन्धेयः । उपमालङ्कारः २ ॥ महापुरुषपद्धतिः । विष्णुभक्तिमानेव महाजन इत्यभिप्रेत्याह--- मुक्तानुगुणवृत्तानां भजतां पावनीं गतिम् । नित्यं विष्णुपदे वृत्तिस्तारकाणां सितात्मनाम् ॥ ३॥ मुक्तेति ॥ मुक्तपुरुषानुरूपव्यापारवतां, मुक्तामणय इवानुसृतगु- णानां वृत्तानां वर्तुलानां च पावनीं पवित्रकारिणीम् गतिम् उपायं प्रपत्तिम् भजतां, वायुसम्बन्धिमार्गमाश्रयतञ्च । 'गतिस्तु गमने मार्गे दशायां बुद्धयुपाययोः' इति विश्वः । सितात्मनां परिशुद्धमनसां शुक्ल- रूपाणां च, तारकाणां संसारं तारयतां नक्षत्राणां च ' कनीनिकायां नक्षत्रे तारकं तारकाऽपि च' इति विश्वप्रकाशे नपुंसकत्वमुक्तम् । नित्यं विष्णुपदे भगवत्पादे आकाशे च वृत्तिः स्थितिः भवति ॥ ३ ॥ महाजनदर्शनं पापनिवर्तकमित्याह - धर्मसेतुनिविष्टानामचलानां गरीयसाम् । दक्षिणोत्तरवृत्तीनां दृष्टिः पापनिवर्तिनी ॥ ४ ॥ धर्मेति ॥ धर्मसेतो धर्ममर्यादायां निविष्टानाम् । 'द्वौ समुद्रौ विततावज्र्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अतियन्त्यन्य- मपश्यन्तः सेतुं नातियन्त्यन्यम् ' इत्युक्तरामसेतौ निविष्टानां च; अच- लानां स्थिरचित्तानाम्, दक्षिणाः समर्थाः उत्तरा उत्कृष्टा वृत्तिः वर्तनं येषां ते तथोक्ताः तेषाम्, गरीयसां महात्मनाम् । अचलपक्षे उत्तर- दिग्भागमुपक्रम्य दक्षिणाभिमुखं स्थितानां गरीयसां अचलानां गन्ध- मादनप्रभृतिमहा पर्वतानां दृष्टिः पापनिवर्तिनी ॥ ४ ॥ 4 सुभाषितनीव्यां महात्मनां सम्पत्तिः सार्थकत्वादलंकार इत्याह-- अनङ्गीकृतकामानामनुमानार्हवर्ष्मणाम् । धृतनिर्मलतीर्थानां भूतिलेपो विभूषणम् ॥ ५ ॥ अनङ्गीकृतेति ॥ अनङ्गीकृतः अस्वीकृतः कामो विषयाभि- लात्रो यैः तेषां शरीररहितीकृतमन्मथानां च, अनुमानार्हवर्ष्मणां अनु- मानशब्देन व्याप्तिमूलकत्वात्तर्क उच्यते, सत्तर्कानुगृहीतप्रत्यक्षानु- मानागमानामित्यर्थः । अन्यत्र नार्ह अनर्हे, नञर्थस्य नशब्दस्य सुप्सुपेति समासः । उमाया नाई उमानार्ह तन्न भवतीत्यनुमानार्हम्, उमायोग्यमित्यर्थः; वर्ष्म देहः येषां ते तथोक्ताः तेषाम्, 'वर्ष्म देहप्र- माणयोः ' इत्यमरः । धृतं निर्मलं तीर्थे शास्त्रं गङ्गा च यैः तेषां तथो- क्तानाम्, 'तीर्थे शास्त्राध्वरक्षेत्रोपायोपाध्यायमन्त्रिषु' इत्यमरः । भूति- लेपःसंपत्सम्बन्धः भस्मलेपश्च विभूषणम् । रुद्रसाम्यमुक्तम् ॥ ५ । ' जानाति विश्वासयितुं मनुष्यान् विज्ञातदोषेषु ददाति दण्डम् । जानाति *मात्रां च तथा क्षमाञ्च तं तादृशं श्रीर्जुषते समग्रा ॥ ' इत्युक्तरीत्या महाजनस्यैव न्यायानुवर्तिनः सौख्यं भवतीत्याह -- अनन्तख्यातिसंपन्नः शुद्धसत्त्वः सधीबलः । . धत्ते बहुमुखं भोगं श्रुतिदृष्टिस्थिराशयः ॥ ६ ॥ अनन्तख्यातीति ॥ अपरिमितकीर्तिसंपन्नः, अनन्त इति नाम- संपन्नश्च; शुद्धसत्त्वः रजस्तमोऽनभिभूतसत्त्वगुणः, अधिकबलश्च, * मात्रां विषयाणामनित्यत्वम् । महापुरुषपद्धतिः । मधीबलः बुद्धिबलयुक्तः, श्रुतिदृष्टिः भगवान् तस्मिन् स्थिरचित्तः, यद्वा श्रुतिदृष्टिरिति व्यस्तं पदम् 'श्रुतिस्मृती तु विप्राणां चक्षुषी द्वे विनिर्मिते' इत्युक्तरीत्या वेदार्थदर्शी । अन्यत्र चक्षुश्श्रवाः बहु- मुग्वं भोगं सुखं सहस्रमुखं शरीरं च धत्ते । ' भोगः सुखे त्र्यादि- भृतावहेश्व फणकाययो:' इत्यमर: । अत्र शेषसाम्यम् ॥ ६ ॥ महाजन एव सतां सेव्य इत्याह- अहार्यः सर्वमध्यस्थः काञ्चनद्युतिमुद्वहन् । सत्प्रदक्षिणयोग्यत्वमुपयाति महोन्नतः ॥ ७ ॥ अहार्य इति ॥ अहार्यः कुग्भिः प्रतारयितुमशक्यः, पर्वतश्च, अहार्यधरपर्वताः' इत्यमरः । सर्वमध्यस्थ: अपक्षपाती सर्वभूमण्डल- मध्यवर्ती च । कांचन अनिर्वाच्यां द्युतिं तेजः उद्वहन्, सुवर्ण- मयश्व, महोन्नतः सर्वोत्कृष्टः अत्युन्नतश्च सतां सत्पुरुषाणां नक्ष- त्राणां च प्रदक्षिणयोग्यत्वमुपयाति । अत्र मेरुपर्वतसाम्यम् ॥ ७ ॥ , महात्मानो देवैरपि शिरसा प्रणम्यन्त इत्याह- पुण्यगन्धाः सुमनसः प्रबुद्धाः समयागमे । शिरसा परिगृह्यन्ते सादरं त्रिदशैरपि ॥ ८ ॥ पुण्यगन्धा इति ॥ समयागमे सिद्धान्तशास्त्रे वसन्तादिकाले च, प्रबुद्धा: ज्ञानवन्तो विकसिताश्च पुण्यगन्धाः पुण्यसंबन्धवन्तः मनोहरपरिमळाश्च 'गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोः ' इति विश्वः । ' यथा वृक्षस्य संपुष्पितस्य दूराद्गन्धो वात्येवं पुण्यस्य सुभाषितनीव्यां कर्मणो दूराद्गन्धो वाति' इति श्रुतिः स्मारिता । सुमनसः ज्ञानिनः पुष्पाणि च 'सुमनाः पुष्पमालत्योः स्त्री देवबुधयोः पुमान्' इत्यु- भयत्रापि, त्रिदशैः देवैरपि सादरं शिरसा परिगृह्यन्ते ' सर्वेऽस्मै देवा बलिमावहन्ति ' इति श्रुतेः । अत्र पुष्पसाम्यम् ॥ 'यश्चात्मनापत्रपते भृशं नरः सर्वस्य लोकस्य गुरुर्भवत्युत । अन- न्ततेजा: : सुमनाः समाहितः स्वतेजसा सूर्य इवावभासते ॥ ' इत्युक्तम- हापुरुषे तदनुग्रहेण मन्दानामपि मैत्री भवतीत्याह -- अनुकर्तुमपह्नोतुमतिवर्तितुमीक्षितुम् । अशक्ये तेजसां पत्यौ मित्रतानुमतिक्षमा ॥ ९ ॥ अनुकर्तुमिति ॥ अनुकर्ते सदृशीभवितुम्, अपह्नोतुं किमस्य माहात्म्यमिति निषेद्धुम् सूर्य इति कश्चित्तेजस्वी अस्ति वेति निषे- ढुं च, अतिवर्तितुं निराकर्तुम् अतिलङ्गितुं च; केनापि सूर्यस्य पश्चा- द्भागादृष्टेरिति भावः । ईक्षितुं क्षुद्राणां दर्शनं कर्तु तेजसो दृष्टिप्रति घातकत्वादवलोकितुं च, अशक्ये तेजसां पत्यौ तेजस्विनि पुरुषे सूर्ये च, मित्रता सुहृत्त्वं सूर्यत्वं च, अनुमतेः अनुज्ञायाः क्षमा अभ्युपगम- योग्या, अनुमतिः पूर्णिमाभेद:, ' कलाहीने सानुमति: ' इत्युक्तेः । तस्याः क्षमा सूर्यकिरणानामेव चन्द्रकला पूर्तिहेतुत्वात्, 'यमादित्या अं- शुमाप्याययन्ति' इति श्रुतेः 'यत्रामुष्य सुधीभवन्ति किरणाः' इत्यादि- प्रसिद्धेश्च । अत्र यादवः - 'तासां शतानि चत्वारि रश्मीनां वृष्टिसर्जने । - शतत्रयं हिमोत्सर्गे तावद्धर्मस्य सर्जने । आनन्दनाश्च मेध्याश्च नृतना: महापुरुषपद्धतिः । पूतना इति । शतं शतं वृष्टिवहास्ताः सर्वा अमृताः स्त्रियः ॥ इति ॥ ९ ॥ क्षुद्रा एवं क्षुद्राणां धर्षणीया न महान्त इत्याह- अहितुण्डिकदृष्टीनामशेषा भोगिनः पदम् । न संवर्ताग्निसारथ्ये स्थाता यन्मुखमारुतः ॥ १० ॥ अहीति ॥ अहितुण्डिकदृष्टीनां व्यालग्राहिदृष्टीनाम्, मन्त्रौषधा- दिव्यापाराणामित्यर्थः, 'व्यालग्राह्यहितुण्डिकः ' इत्यमरः । अशेषाः शेत्रभिन्नाः भोगिनः सर्पाः पदं विषयः ; यन्मुखमारुतः येषां सर्पाणां मुखमारुतः, संवर्ताग्निसारथ्ये प्रलयकालाग्निसहायभावे न स्थाता, ष्ठा गतिनिवृत्तावित्यस्माल्लुट् । शेषमुखमारुतस्तु प्रलयका- ला: सहायीभूय जगत् नाशयति, तादृशं शेषं कः परिभवेदिति भावः ॥ ' अयोग्य घटनस्वभावोऽपि विधिः क्वचिद्येोग्यघटनेन श्लाघनी- योऽपि भवतीत्याह- गरुत्मति सुपक्षतां गिरिधुरंधरे धीरता- मुदन्वति गभीरताममृतदीधितौ सौम्यताम् । विवस्वति च दीप्ततां विधिरुपादधानश्चिरा- दनर्घगुणचित्रितं किमपि चित्रमासूत्रयत् ॥ ११ ॥ गरुत्मतीति ॥ गिरिधुरंधरे गिरिश्रेष्ठे । विधिः, अनर्घगुणैः सुपक्ष- त्वादिगुणैः, चित्रितं आश्चर्यविषयीकृतम्, किमपि चित्रं सज्जनाख्याले - ख्यम्, आसूत्रयत् घटितवान् । एकैकं सद्गुणमन्यत्र विधायाभ्यसित्व सुभाषितनीव्यां सज्जनाख्यं चित्रं निर्मितवानित्यर्थः । चित्रमिति निगीर्याध्यवसायलक्ष- णातिशयोक्तेः श्लेषमूलाभेदाध्यवसायलक्षणातिशयोक्तेरङ्गमिति तयोः सङ्करः। अप्रस्तुतविधिस्तुत्या सज्जनस्तुतिर्गम्यत इति व्याजस्तुत्यलङ्का- रः, तदङ्गं 'गरुत्मति सुपक्षतां ' इत्यादिषु समालङ्कार इति सङ्करश्चेति तयोः सङ्करयोरपि सङ्करः ॥ ११ ॥ सज्जनेषु दारिद्यमस्ति चेत् तेषां किं न्यूनं ? ' तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम्' इति धनस्यैव वैयर्थ्यम् । ते तु, अतिचञ्चलाः संपदः, शान्तिसुखामृतनदीलीनाः सन्तो न श्लाघन्त इत्याह- प्रशस्ति विन्दन्ति प्रशमसुखदिव्यामृत सरि- त्मलीना धन्यानां परिषदि न संपत्तिसरितः । अमित्रोपक्षेपक्षणविगलदात्मीयपृतना- दृढा मर्दत्रस्यद्दमिड भटजङ्घाजवभृतः ॥ १२ ॥ इति श्रीकवितार्किक सिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सुभाषितनीव्यां महापुरुषपद्धतिः षष्ठी ॥ प्रशस्तिमिति ॥ ' शरीरपतनावधिप्रभुनिषेवणापादनादबिन्धनध- नञ्जयप्रशमदं धनं दन्धनम् । धनञ्जयविवर्धनं धनमुदूढगोवर्धनं महापुरुषपद्धतिः । सुसाधनमबाधनं सुमनसां समाराधनम् ॥ इत्युक्तधनं लब्धारो धन्याः, धनगणं लब्धा इति यव्यत्यय:, तेषां परिषदि संपत्तिसरित: प्रशस्ति श्लाघनं न विन्दन्तीत्यन्वयः । सम्पत्तिसरितः कीदृश्यः; अमित्रेत्यादि- अमित्रोपक्षेपणे शत्रुनिरसनोद्योगक्षण एव विगलन्त्या आत्मीयपृ- तनायाः स्वयुध्यसेनाजनस्य दृढो य आमर्दः प्रबलसामन्तात् सं- क्षोभः तस्मात् त्रस्यन्तः शत्रव एवागता इति भ्रमेण बिभ्यतो ये द्रमिडभटाः तेषां पलायमानानां जङ्घानां यादृशो जवस्तादृशजवभृतः, द्रमिडभटा ह्यतिभरिवः पलायने महावेगवन्तः तद्वद तिशीघ्रगामिन्यः, सम्पदोऽतिचञ्चला इत्यर्थः । पुनश्च कीदृश्यः, प्रशमसुखमेव दिव्या- मृतसरित् तत्र प्रलीनाः । यथा महाप्रवाहवत्यां नद्यां क्षुद्रनद्यो लीना भवन्ति तद्वत्तदीयप्रशमसुखसरिद्भिस्तिरोहिता इत्यर्थः ॥ १२ ॥ इति श्रीमच्छ्रीशैलकुलतिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य श्रीश्रीनिवासविदुषः कृतिषु सुभाषितनीवी- व्याख्यायां रत्नपेटिकाख्यायां महापुरुषपद्धतिः षष्ठी ॥ समचित्तपद्धतिः ॥ अथ समचित्तत्वं महाजनस्य धर्म इति समचित्तपद्धतिरारभ्यते- पुंसः कस्य चिदास्थाने द्विजेन्द्रः सूरिसेविते । गुणवत्पक्षपातेऽपि मध्ये तिष्ठति मानभृत् ॥ १ ॥ पुंस इति ॥ सूरसेविते कस्य चित्पुंसो महाप्रभोरास्थाने, गुणवत्सु पक्षपाते सत्यपि व्यवहारवेलायां, मानभृत् प्रमाणान्यनुसरन्, मध्ये तिष्ठति वादिप्रतिवादिनोर्मध्यस्थो भवति, पक्षपात्यपि मध्यस्थ इति विरोधाभासः । अत्र निदर्शनम् - कस्यचित्पुंसो रङ्गनायकस्य नित्यसूरिसेविते आस्थाने, द्विजेन्द्रो गरुत्मान् गुणवत्पक्षपातेऽपि आवृत्तिमत्पक्षप्रसरणे सत्यपि मानभृत् पूजां बिभ्रत् मध्ये तिष्ठति रङ्गमण्टपमध्ये तिष्ठति । 'गुणस्त्वावृत्तिशब्दादिवेन्द्रिय । मुख्यतन्तुषु ' इति रत्नमाला ॥ १ ॥ महाजना:सर्वत्र समबुद्धय एव तेषु केषांचिदादरः केषांचिदना- दरश्च तत्तत्पुरुषस्वभावाद्भवतीत्याह— चकोरानादरं देवश्चक्रवाकस्य चादरम् । विवस्वान् नाभिसंधत्ते विश्वमेतत्प्रकाशयन् ॥ २ ॥ चकोरेति । देवः प्रकाशमानः, विवस्वान् सूर्यः, एतद्विश्वं जगत्, समचित्तपद्धतिः । प्रकाशयन्, चकोरानादरं नाभिसन्धत्ते, स्वप्रकाशनेन चन्द्रे निस्तेज - स्के सति चकोराणां चन्द्रिका मास्त्विति सूर्यस्याभिसन्धिर्नास्ति, तथा चक्रवाकस्यादरं च नाभिसन्धत्ते, स्वप्रकाशनेन चक्रवाकस्य स्त्रिया संभोगो भवतु इति अभिसन्धिर्नास्ति इत्यर्थः । विश्वप्रकाशनमेव तस्य कार्ये, तत्तददृष्टानुगुण्येन आनुकूल्यानानुकूल्ये इति भावः ॥ क्षुद्राणां देशकालवशेन वैषम्ये सत्यपि महतां कदापि न वैष- म्यमित्याह-- देशकालविशेषेण विषमत्वं समत्ववत् । निशादिवस योर्हष्टमहोरात्रस्य न कचित् ॥ ३ ॥ देशकालेति । निशादिवसयोः देशकालविशेषेण समत्ववत् विषम- त्वं च दृष्टम् । निशादिवसयोः कदाचित् प्रत्येकं त्रिंशद्धटिकात्मकत्ववत् देशविशेषेण लङ्कोदयादिषु उदयास्तमययोर्वैषम्यं भवति । कालविशे- पेण, निशायास्त्रयस्त्रिंशद्धटिकात्मकत्वम्, दिवसस्य सप्तविंशतिघटिका- त्मकत्वम्, तथा दिवसस्य त्रयस्त्रिंशद्वटिकात्मकत्वं निशायाः सप्तत्रिंश- तिघटिकात्मकत्वमित्यादि भवतीत्यर्थः । अहो रात्रेश्व समाहार: अहोरात्रः, 'अहस्सर्वैकदेशसंख्यात पुण्याच्च रात्रेः' इति समासान्तो ऽ- च्प्रत्ययः, 'रात्राह्णाहाः पुंसि' इति पुल्लिंगत्वम्, 'रूपरात्रिरथन्तरेषु त्वं वाच्यम्, इति एकदेशविकृतस्यानन्यत्वाद्रात्रशब्देऽपि रुत्वम् । अहोरात्रसमुदायस्य क्वचिदपि कदाचिदपीत्यध्याहार्यम् । वैषम्यं न दृष्टम् । सर्वत्र सर्वदा षष्टिघटिकात्मकत्वमेवेति भावः । अत्राहोरात्रो निदर्शनम् । अप्रस्तुतप्रशंसालङ्कारः ॥ ३ ॥ , सुभाषितनीव्यां नित्यसन्तुष्टानां महात्मनां पदार्थसत्त्वे तदभावे चैकरूपचित्ततैव, न विकारित्वमित्याह - प्रतिगृह्णति जीमूते प्रत्यर्पयति वा स्वयम् । अपूरणमपांपत्युः पूरणं च न लक्ष्यते ॥ ४ ॥ प्रतीति । जीमूते मेघे प्रतिगृह्णाति समुद्रोदकं पिवति सति, प्रत्यर्पयति वर्षाति सति वेत्यर्थः । ' उदेति सविता ताम्रस्ताम्र एवा- स्तमेति च । उत्पत्तौ च विपत्तौ च महतामेकरूपता ॥ ' इत्याहुः । 'छेदेऽपि चन्दनतरुः सुरभयति मुखं कुठारस्य । इति न्यायेन महात्मानः सर्वत्र समस्वभावा इत्याह- छिद्रं जनयतां नीचैरच्छिद्रं बिभ्रतामपि । त्रासहीनाः सुमणयः स्वभावादुपकुर्वते ॥ ५ ॥ नीचैः निकृष्टपुरुषैः छिद्रमिति ॥ नीचैः अधोभागे छिद्रं रन्ध्रं, अन्तःकलहं च, अछिद्रं हीरमण्यादिकमिति भावः । त्रासो नाम मणिदोषः । तदुक्तं बाहलेन ' रागस्त्रासश्च बिन्दुश्च रेखा च जलग- भता । सर्वरत्नेष्वमी पञ्च दोषाः साधारणा मताः ।' इति । अन्यत्र भयं, तद्रहिताः सुमणयः स्वभावादुपकुर्वते; ' अथवा भवतः प्रव- र्तना न कथं पिष्ठमियं पिनष्ठिनः । स्वत एव सतां परार्थता ग्रह णानां हि यथा यथार्थता ।' इति श्रीहर्षः ॥ ५ ॥ समचित्तस्वभावं सर्वेऽपि प्रणमन्तीत्याह - समचित्तपद्धतिः । अनुज्झितसुहृद्भावः सुहृदां दुर्हृदामपि । सम इत्येव भाव्योऽपि नम इत्यभिभाष्यते ॥ ६ ॥ अनुज्झितेति ॥ स्पष्टम् । समं इति वक्तव्ये नम इत्युच्यत इति चित्रमिति भावः ॥ ६ ॥ : 'दुजर्नः सुजनं द्वेष्टि ' इति दुष्टैः पीड्यमानोऽपि न विकारं गच्छतीत्याह- मरुद्भिः पीड्यमानोऽपि संत्यक्तोऽपि दिवानिशम् । विषयस्नेहरहितो रत्नदीपः प्रकाशते ॥ ७ ॥ मरुद्भिरिति । विषयस्नेहरहितः पात्रतैलरहितः विषयाभिला- परहितश्च ; विषयाभिलाषिणः खलु तदभावे मनोविकारः । रत्नदीप: प्रकाशते । प्राप्ते विबुधो यथा प्रकृत्यास्ते 'न विकारं व्रजति महांश्चा- तुर्मास्येष्विवाज्यपशुशब्दः ॥ इति नयमालिकायां मामकः श्लोकः ॥ जनयत्यनले दाहं शमयत्यपि तोयदे । अभिः स्थीयते पुण्यैराश्रमारण्यपादपैः ॥ ८ ॥ जनयतीति ॥ अभिन्नैः एकरूपैः; स्थीयते स्थितम्, भावे लट् ॥ ' लाभः श्रीमत्तरं किंचिदन्यत्पथ्यतरं मतम् । प्रभविष्णोर्यथा ना क्षमा सर्वत्र सर्वदा ॥ क्षमेदशक्तः सर्वस्य शक्तिमान् धर्मकारणात् ' इति महात्मानः क्षमयैव सर्वे जयन्तीत्याह -- सुभाषितनीव्यां अहार्येण कदाप्यन्यैरसंहार्येण केनचित् । तितिक्षाकवचेनैव सर्व जयति संहृतः ॥ ९ ॥ अहार्येणेति ॥ तितिक्षाकवचेन संवृतः आच्छादितः जयति सर्व- मतिशेत इत्यर्थः । ' हन्ति नित्यं क्षमा क्रोधमाचारो हन्त्यलक्षणम् ' इति क्रोधनिवृत्तौ न कश्चिदपि वैरीति सर्वे स्वाधीना एवेति जय इति भावः । लौंहकवचापेक्षया तितिक्षाकवचस्य व्यतिरेकः तत्सहकृ- तश्च परिणामालङ्कारः, स्वरूपेण सर्वजयासाधनत्वादारोप्यमाणस्य कव- चस्य तितिक्षात्मना उपयोगात्, ' परिणामः क्रियार्थश्चेद्विषयी विषयात्मना ' इति तल्लक्षणात् ॥ ९ ॥ भगवदेकान्ती भगवद्वयतिरेकेण किमपि नापेक्षते, अतः स एव समचित्त इत्याह-- अमृतस्यन्दिनं कश्चित्कृष्णमेघं द्विजः स्मरन् । उदन्यया न वेशन्तमुदन्वन्तं च वीक्षते ॥ १० ॥ अमृतेति ॥ कश्चित् द्विजः चातकः, अमृतस्यन्दिनं उदकव- र्षिणं नीलमेघं स्मरन, उदन्यया पिपासया, ' उदन्या तु पिपासा तृद् तर्षः' इत्यमरः । वेशन्तं अल्पसरः, उदन्वन्तं समुद्रं च न वीक्षते ! मोक्षप्रदं कृष्णं लचीकृत्य पुरुषार्थे सया ब्रह्मरुद्रादीन् लौकिकक्षु- द्रानपि कश्चिद्भाग्यवान् न वीक्षत इत्यर्थः ॥ १० ॥ समचित्तस्य दुर्जनसृष्टिरप्युपकारायैवेति मतिरित्यभिप्रेत्याह- समचित्तपद्धतिः । विदधातु धाम तमसा कृतेन किं यदि वा न वेत्ति नविधिर्न वा वयम् । प्रथमोपकारि चरमं यतस्ततः प्रतियोगीनो भवति तस्य सार्थता ॥ ११ ॥ विदधात्विति ॥ विधिः, धाम तेजः, विदधातु सृजतु, आलोकस्य चाक्षुषप्रत्यक्षादिहेतुत्वेन लोकोपकारत्वादिति भावः । कृतेन तमसा किं तमः सृष्ट्या किं प्रयोजनम्, लोकप्रतिबन्धकत्वादिति भावः । एवं चोद्ये उत्तरमाह ---- यदिवेति । पश्चान्तरे विधिर्न वेत्तीति न तत्प्रयोजनं न जानातीति न जानात्येव, न वा वयं वयं वा न विद्म इति नेत्य- नुषङ्गः, यतः कारणात् चरमं तमः प्रथमोपकारि आलोकस्योपकारकं, तमःसृष्टयभावे आलोकापेक्षाविरहात्, ततः कारणात् तस्यालोकस्य प्रतियोगिनः तमसः सार्थता भवति, तमसोऽभावे आलोकप्रयोजनं न ज्ञायेत, अतः तमः सृष्टवानिति भावः । ' हस्त इव भूतिमलिनो यथा यथा लङ्घयति खलः सुजनम् । दर्पणमिव तं कुरुते तथा तथा निर्मलच्छायम् ।' ' साधुपापविशुद्धयर्थं दुर्जनः परिकल्पितः । ग्रामवधीविशुद्धयर्थं सूकरः परिकल्पित: ' इत्यादि दृष्टव्यम् ॥ ११॥ सर्वसमः पुरुषः सर्वेषां हृदयंगम इत्याह- विषयेष्वपि दोषगन्धहीनः प्रलयेऽपि स्थितिमक्षयां दधानः । सुभाषितनीव्यां विषमेष्वपि भावयन्समत्वं पुरुषः कोऽपि हृदि स्थितः प्रजानाम् ॥ १२ ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सुभाषितनीव्यां समचित्तपद्धतिः सप्तमी ॥ विषयेष्विति ॥ विषयाभिलाषरहिततया तत्प्रयुक्तरागद्वेषादिदोष- लेशहीनः, नानाविधस्थानस्थितत्वेऽपि हेयप्रतिभटतया तत्प्रयुक्तापुरु- पार्थादिरहितश्च, प्रलयेऽपि सङ्कटदशायामपि धैर्येणाक्षयां स्थितिं दधानः, 'एको ह वै नारायण आसीत् ' इत्युक्तरीत्या प्रलयेऽपि स्थितिं दधानश्च, विषमेषु विरुद्धेष्वपि समत्वं भावयन् उपेक्षाबुद्धिं कुर्वन् 'समोऽहं सर्वभूतेषु' इति समदृष्टिं कुर्वेश्च; यद्वा विषमेषु सत्त्वरजस्तमस्स्वपि समत्वं प्रलयावस्थां भावयन् पुरुषः प्रजानां हृदि स्थितः समीचीन इति मनस्यनुसंहितः, अन्तर्यामिरूपेण स्थितश्च । अत्र परमपुरुषसाम्यम् ॥ १२ ॥ इति श्रीमच्छ्रीशैल कुलतिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य श्रीश्रीनिवासविदुषः कृतिषु सुभाषितनीवी- व्याख्यायां रत्नपेटिकाख्यायां समचित्तपद्धतिः सप्तमी ॥ सदाश्रितपद्धतिः । सुवृत्तस्यावदातस्य कलापूर्णस्य सत्पतेः । क्षणलेशग्रहेऽपि स्यादतीर्थस्यापि तीर्थता ॥। १॥ सुवृत्तस्येति । सुवृत्तस्य सदाचारम्य, अवदातस्य रागादिदोष- हीनस्य, सत्पतेः सत्पुरुष श्रेष्टस्य, चन्द्रस्य च ; क्षणलेशेऽल्पकाले ग्रहेऽपि स्वीकारेऽपि उपरागेऽपि च, अतीर्थस्य अयोग्यस्यापि तीर्थता योग्यता भवति । महदाश्रयणादयोग्योऽपि योग्यो भवती- त्यर्थः । सर्वे गङ्गासमं तोयमिति जलमात्रस्य पुण्यतीर्थत्वं भवतीति च; निपानागमयोस्तीर्थमृषिजुष्टजले गुरौ' इत्यमरः । ' पशुर्मनुष्यः पक्षी वा ये च वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम्' इत्यादिकमनुसंधेयम् ॥ १ ॥ ' सदाचार्य समाश्रितस्य ज्ञानप्राप्त्या न रागादिदोषसंभव इत्याह- प्रतिपत्प्राप्तितः प्रागप्यापदा सत्पदाश्रितः । राजा तदितरो वापि नोपरागेण गृह्यते ॥ २ ॥ प्रतिपदिति ॥ प्राक् ज्ञानलाभात् प्राक् आपदा तापत्रयदुःखेनो- ' पलक्षितोऽपि इति शेषः । सत्पदाश्रितः प्रतिपत्प्राप्तितः ज्ञानप्राप्तितः प्रतिपत् शन्तिचेतना: ' इत्यमरः; राजा तदितरो वापि, उपहतो राग सुभाषितनीव्यां उपरागः प्रादिसमासः, तेन न गृह्यते न पीड्यते । अत्र चन्द्रः सूर्यश्च निदर्शनम् । तत्र पक्षे प्राक् प्रतिपत्प्राप्तितः प्राक्, आपदा पर्वणि राहुकेतुग्रहपीडया उपलक्षितोऽपि तदनन्तरं राजा चन्द्रः तदितर: सूर्यः उपरागेण राहुग्रसनेन न गृह्यते । ' उपरागो ग्रहे राहुग्रस्ते त्विन्दौ च पूष्णि च' इत्यमरः ॥ २ ॥ महाजनयोगात्पुरुषः प्रसिद्धो भवतीत्याह- विषमो गुणभेदेन विकारान् जनयन् क्रमात् । समये महता योगादहंकारः प्रतीयते ॥ ३ ॥ विषम इति ॥ गुणभेदेन सत्त्वरजस्तमोगुणभेदेन विषमः भिन्न- भिन्नप्रकृतियुक्तः, गुणसाम्यावस्था प्रधानस्य प्रलयः, वैषम्यावस्था सृष्टिरिति गुणवैषम्ययुक्तश्च क्रमात्, महदादिविकारांश्च जनयन कृर्वन् प्रधानाख्यपदार्थ इत्यर्थ: । समये भाग्यपरिपाकसमये सृष्टि- काले च, अहंकारः प्रत्यगात्या, अथातोऽहंकारावंश इत्यादिषु जींव Sहंकारशब्दप्रयोगात् ; अहमिति कारयति उच्चारयतीत्यहंकारः । पदं मिथ्याकारयत इत्यादौ कृञ इत्युच्चारणार्थत्वदर्शनात् अहंकार इति तत्वविशेषश्च सन्, महता महापुरुषेण महत्तत्वेन च योगात्, प्रती- यते प्रसिद्धो भवति अहंकारतत्त्वात्मना ज्ञायते चेत्यर्थः । अत्र प्रधानं निदर्शनम् ॥ ३ ॥ सत्पुरुषाभिमुख्यात् स्वरूपज्ञानवान् भवतीत्याह-- स्वदृष्टिप्रतिघातेऽपि स्वच्छे वचन शोभनः । तत्राभिमुखः स्वात्मा झाडत्येव प्रकाशते ॥ ४ ॥ सदाश्रित पद्धतिः । स्वदृष्टीति । स्वदृष्टिप्रतिघातेऽपि स्वस्याज्ञाने सत्यपि स्वचक्षूर- इमीनां प्रसरणप्रतिबन्धेऽपि च, स्वच्छे यत्र वचन परिशुद्धज्ञानादिमति दर्पणे च, शोभनः प्रकाशमानः, तत्र गुरौ दर्पणे च अभिमुखः, स्वात्मा, झडित्येव शीघ्रमेव, प्रकाशते । नायनरश्मय एव दर्पणे प्रति- हतगतयः परावृत्य स्वमुखं गृह्णन्तीत्याहु: । 'आभिमुख्यदशामात्रादा- दर्श इव सजनः । शीघ्रं रक्तमरक्तं वा गृह्णाति स्वप्रसादतः ॥ इति नीतिवेदिनः ॥ ४ ॥ * शिक्षके हरिताकारो मेरौ नीलतनुर्द्विजः । अपूर्ववर्णवद्भाति सत्यनिष्ठे च कौशिकः ॥ ५ ॥ महदुपदेशप्राप्तं ज्ञानं अज्ञाननिवृत्तिं समृद्धिं च तनोतीत्याह- कलङ्किनि जले कापि सौरं प्रतिफलन्महः । तमोऽपहत्वं तनुते समृद्धिं च दिने दिने ॥ ६ ॥ कलङ्किनीति ॥ कलङ्कनि अङ्कवति अपवादवत्यपि, जले उदके, चन्द्रस्य जलविकारत्वात् जडे च, प्रतिफलत् प्रविशत्, सौरं सूर्यसम्बन्धि सूरि संबन्धि च, मह: तेज: ज्ञानं च, तमोऽपहत्वं अज्ञाननिवृत्तिं च दिने दिने, समृद्धिं कलावृद्धिं ज्ञानवृद्धिं च तनुते । अत्र सूर्यतेजो गुरूपदिष्टज्ञानस्य निदर्शनम् । 'ज्ञानाङ्कुरं तत् परिवर्धयन्ति ये शास्त्रसत्सङ्गतितोयसेकैः । ते तु प्रबुद्धात् फलमाप्नुवन्ति मोक्षाभिधं ज्ञानतरोर्दुरापम् ।' इत्याद्यनुसन्धेयम् ॥ ६ ॥ * अस्य श्लोकस्य रत्नपेटिकाव्याख्या गोपलभ्यते । सुभाषितनीव्यां स्वतो बुद्धिरहितस्यान्तरिछद्रवतः पुरुषार्थव्यापाराः हितकारिपरो- पदेशेनैवेत्याह--- स्वतःचैतन्यहीनस्य विषमच्छिद्र भागिनः । कस्यचित्प्राज्ञमूलाः स्युः पुरुषार्थप्रवृत्तयः ॥ ७ ॥ स्वत इति ॥ चैतन्यहीनस्य अचेतनस्य, विषमस्य गुणवैषम्य- वतः, छिद्रभागिन:, ' सच्छिद्राण्यवयविद्रव्याणि ' इति प्रसिद्धेः । कस्यचित् प्रधानस्य पुरुषार्थप्रवृत्तयः जीवार्थदेहेन्द्रियपरिणामादि- व्यापारा:, प्राज्ञमूला: परमात्ममूला: । स्पष्टमन्यत् । अत्र प्रधानं निदर्शनम् ॥ ७ ॥ महदाश्रयो महानेव भवतीत्याह- महान्तं पुरुषं प्राप्य कंचित्सत्त्वप्रवर्तकम् । प्रतिबुद्धो जनस्तेन परमं साम्यमक्षुते ॥ ८ ॥ ' महान्तमिति । प्रतिबुद्धो जनः विवेकी मोक्षकामश्च, 'महान् प्रभुर्वै पुरुषः सत्त्वस्यैव प्रवर्तक : ' ' निरञ्जनः परमं साम्यमुपैति इति श्रुती अनुसन्धेये । मुक्तपुरुषोऽत्र निदर्शनम् ॥ ८ ॥ प्रकारान्तरेणापि महाजनाश्रयेण तदन्तर्गतत्वमभिप्रेत्याह- सूत्रं रत्नसमावेशाच्चर्म सत्पदसंश्रयात् । . तदभेदेन गृह्येत तृणमप्यस्त्रमन्त्रणात् ॥ ९ ॥ सूत्रमिति । किमुत पुरुष इति काव्यार्थापत्तिर्व्यज्यते, तथा वर्ति- तव्यमिति भावः ॥ ९ ॥ सदाश्रितपद्धतिः । आचार्यकटाक्षलभ्यार्थी रुद्रेण चतुर्मुखेनेन्द्रेण च न लभ्यत इत्याह- - एकयैव गुरोर्दृष्ट्या द्वाभ्यां वापि लभेत यत् । न तत्तिसृभिरष्टाभिः सहस्रेणापि कर्हिचित् ॥ १० ॥ एकयेति ॥ कर्हिचित् कुत्रचिदपि ॥ १० ॥ परस्परसङ्गत्या परिशुद्धानाह- नद्यास्तोयं त्रिदशसरिता राजनीतिः सुकीर्त्या काव्यालापस्त्रियुगकथया कायवानात्मबुद्ध्या । दारप्रीतिः प्रजननधिया जन्तुहिंसा मखेन प्रज्ञाहीनः परहितविदा संगतः शुद्धिमेति ॥ ११ ॥ : नद्या इति ॥ अल्पनद्यास्तोयं गङ्गया सङ्गतं सत् शुद्धिमेतीत्य- न्वयः । राजनीतिः सुकीर्त्या सङ्गता चेत् । त्रियुगकथया त्रियुगस्य भग- व्रतः कथया, त्रीणि युगानि ज्ञानबलादियुग्मानि यस्य स तथोक्तः, अन्यथा 'काव्यालापांश्च वर्जयेत् इति निषेधात् । अत एवोक्तं भगवता बादरायणेन 'असत्कीर्तनकान्तारपरिवर्तन पांसुलाम् । वाच शौरिकथालापगङ्गयैव पुनीमहे ॥' इति । कायवान् शरीरी, आत्म- बुद्धया देहादिविलक्षणात्मज्ञानेन परमात्मज्ञानेन च, 'क्षेत्रज्ञस्येश्वरशा नाद्विशुद्धिः परमा मता' इत्युक्तम् । दारेषु प्रीतिः, प्रजननधिया वंश. प्रतिष्ठा भवतीति बुद्धया सङ्गता चेत् शुद्धिमेतीत्यन्वयः । ' धर्मप्र- जासंपत्त्यर्थं स्त्रियमुद्र हे ' ' प्रजायै गृहमेधिनाम्' इति धर्मोपयोगात् । सुभाषितनीव्यां ' यत्त्रानुकूल्यं दंपत्योस्त्रिवर्गस्तल वर्धते ' इति युक्तम् । जन्तुहिंसा मखेन, अन्यथा जन्तुहिंसाया निषिद्धत्वात् । प्रज्ञाहीनः स्वत उपायो- न्नयनानभिज्ञः, परहितविदा आप्तेन सङ्गतः शुद्धिमेति, अनर्था- निस्तरति । दीपकालङ्कारः ॥ ११ ॥ महदाश्रयणे महात्मानः परार्थैकप्रवणाः परार्थमकृत्यमपि कृत्वा परार्थ साधयन्तीत्यभिप्रेत्याह- विशुर्बन्धं प्राप्य व्यतनुत विमुक्तिं व्रजभ्रुवां स्वतन्त्रोऽसौ धूर्तः स्वयमजनि सूतश्च भजताम् । प्रतिज्ञां स्वामौज्झत्स्वपदतटिनीसूनुसमरे महद्योगात्मायो वहति महिमानं तदधिकम् ॥ १२॥ इति श्रीकवितार्किक सिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सुभाषितनीव्यां सदाश्रितपद्धतिः अष्ठमी ॥ विभुरिति ॥ पुरुषः महद्योगात् तदाश्रयणात् तदधिकं महि- मानं वहति, प्रायः निश्चय इत्यन्वयः । अत्र निदर्शयति-उलूखले स्वयं बन्धं प्राप्य यमलार्जुनवृक्षादीनां व्रजभुवां विमुक्तिं व्यतनुत । 'बद्धं तथा भावयतां मुकुन्दमयत्नविच्छेदिनि कर्मबन्धे । तपस्विनी तत्क्रतुनीतिराद्या सव्रीडमारण्यकथासु तस्थौ ' इति न केवलमर्जुन- सदाश्रितपद्धतिः । ' वृक्षयोरेव, अपि तु सर्वेषामपीति भावः । प्रतिज्ञामिति । भक्तया त्वनन्यया शक्यः' इति स्वप्रतिज्ञाम् । 'विष्णुवामपदाङ्गुष्ठनखस्रोतो- विनिःसृते । तद्भक्तिविघ्नरूपा त्वं गङ्गे मां मोचयैनसः' इत्युक्तरीत्या गङ्गास्नानादिनापि मुक्तिं सम्पाद्य त्यक्तवानिति भावः । विशेषेण मामान्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ १२ ॥ इति श्रीमच्छ्रीशैल कुलतिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य श्रीश्रीनिवासविदुषः कृतिषु सुभाषितनीवी- व्याख्यायां रत्नपेटिकाख्यायां सदाश्रितपद्धतिः अष्टमी ॥ * नीतिमत्पद्धतिः ॥ विक्रमाक्रान्तभुवने समे षाङ्गुण्यशालिनि । , भजति स्थिरतां लक्ष्मीः कस्मिंश्चित्पुरुषोत्तमे ॥ १ ॥ विक्रमेति ॥ विक्रमेण पराक्रमेण पादन्यासेन च, आक्रान्तभुवने आक्रान्तलोके, समे सर्वजनसमानवृत्तौ षाड्गुण्यशालिनि सन्धिवि- ग्रहयानासनद्वैधीभावसमाश्रयाख्यषड्गुणशालिनि, षड्गुणा एव घा ड्गुण्यं, स्वार्थे ष्यञ् , ज्ञानबलैश्वर्यवीर्यशक्तितेजः शालिनि च, कस्मि श्चित् पुरुषोत्तमे पुरुषधौरेये परमपुरुषे च, लक्ष्मीः सम्पत् देवी च, ' शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिति कथ्यते ' इति निघण्टुः । स्थिरतां भजति । पुरुषोत्तम शब्दसमर्थनं बहुधा ग्रन्थेषु कृतमिति नेह तन्यते । ' जानाति विश्वासयितुं मनुष्यान् विज्ञातदोषेषु ददाति दण्डम् । जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा । ' मात्रां विषयाणामनित्यत्वम् ' एकया द्वौ विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु । पञ्च जित्वा विदित्वा पट् सप्त जित्वा सुखीभव ॥' बुद्धया धर्मार्थौ साद्धयौ विनिश्चित्य शत्रुमित्रोदासीनान् सामादि चतुभिं- रुपायैः स्वाधीनान् कुरु, ज्ञानेन्द्रियादिपञ्च जित्वा षट् सन्ध्यादीन् स्वाधीननियोज्यान् कृत्वा पानादिसप्तव्यसनानि परिहृत्य सुखी भवेत्यर्थः ॥ १ ॥ नीतिमत्पद्धतिः । 'समवेश्येह धर्मार्थी सम्भारान् योऽधिगच्छति । स वै संभृतसं- भारः सततं सुखमेधते ॥ यः पञ्चाभ्यन्तरान् शत्रूनविजित्य मनो- मयान् । जिगीषति रिपूनन्यान् रिपवोऽभिभवन्ति तम् ॥ अनसूया - र्जवं शौचं सन्तोषः प्रियवादिता । दमः सत्यमनायासो न भवन्ति दुरा- त्मनाम् ॥ धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च । धृत- राष्ट्रोल्मुकानीव ज्ञांतयो भरतर्षभ ॥ महानप्येकजो वृक्षो बलवान् सुप्रतिष्ठितः । प्रसह्य एव वातेन सस्कन्धो मर्दितुं क्षणात् ॥ अथ ये सहिता वृक्षाः सङ्घशः सुप्रतिष्ठिताः । ते हि शीघ्रतमान् वातान् सहन्ते ऽन्योन्यसंश्रयात् ॥ ज्ञातिभिर्विग्रहस्तात न कर्तव्यः शुभार्थिना । सुखानि सह भोज्यानि ज्ञातिभिर्भरतर्षभ ॥ ज्ञातयो वर्धनीयास्तैर्य इच्छन्त्यात्मनः शुभम् । कुलवृद्धिं च राजेन्द्र तस्मात् साधु समाचर ' इत्युक्तरीत्या ज्ञात्यनादरणनिमित्तमन्तश्छिद्रं कुलं नाशयति, तस्मात् नीत्या वर्तितव्यमित्यभिप्रेत्याह--- पार्थिवानां पदार्थानां स्वभृत्या चक्रवर्तिनाम् । जनयत्यचिराद्भेदं छिद्रेण महतान्वयः ॥ २ ॥ पार्थिवानामिति । प्रदाय राज्याय इमे पदार्थास्तेषां स्वभूत्या स्वैश्वर्येण चक्रवर्तिनां अखण्ड भूमण्डलाधिपतीनां पार्थिवानां राज्ञां अन्वयो वंशः महता छिद्रेण अन्तःकलहेन भेदं जनयति, प्रभुत्वं नानामुखं करोति । अत्र घटादिनिदर्शनं स्वभूत्या स्वीयया स्वोत्पा- दनार्थमपेक्षितया भूत्या भस्मना सह चक्रवर्तिनां कुलालचक्रस्थि- तानां पार्थिवानां पदार्थानां घटादीनामन्वयः सद्भावः, महता छिद्रेण भेदं भग्नत्वं जनयति ॥ २ ॥ सुभाषितनीव्यां सम्यक्परिपालने स एव लोकपालो भवतीत्याह- सदसन्तौ विचिन्वानः समवर्ती शमप्रदः । अपि दण्डधरो नित्यं लोकपालः सदक्षिणः ॥ ३ ॥ सदिति । सदसन्तौ गुणदोषसत्त्वासत्त्वे विचिन्वानः विमृशन्, समवर्ति सर्वसमानवृत्ति, शमप्रदः यथाधिकारं क्षमावान् । दण्डध- रोऽपि दक्षिणःसमर्थो, लोकपालः लोकरक्षकः । अत्र निदर्शनं यमः स हि धर्माधर्मविचारयिता, समवर्ती शमन: कालदण्डाख्यदण्डधरः, दक्षिणो लोकपालः दक्षिणदिक्पालः । 'अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चाधिगच्छति' इत्यादिस्मृतिरनुसन्धेया ॥ ३ ॥ - महावीरो वानरचेष्टाभिर्युद्धं कुर्वन्नपि अवसरे भातीत्याह- तमिस्राचारिणां योद्धा विजिताक्षो मरुत्प्रियः । कपिकृत्यैरपि स्थाने भाति वेलातिलङ्गिभिः ॥ ४॥ तमित्रेति । तमिस्राचारिणां रोद्धा तामसाचारवतां नियन्ता, रात्रिञ्चराणां हिंसकश्च विजिताक्षः जितेन्द्रियः जिताक्षकुमारश्च, मरुतां देवानां प्रियः वायुप्रियश्च, वेलातिलङ्गिभिः मर्यादातीतैः अ- ब्धिवृद्धिमतिक्रम्य कृतैश्च, 'वेलाब्धितीराभिवृद्धयोः' इति रत्नमाला । कपिकृत्यैरपि स्थाने युक्तसमये भाति । हनुमानत्र निदर्शनम् । अतो यथाकथंचित्पराक्रमं कुर्यादिति भावः । 'निजानन्तरतः शत्रून् पश्च पञ्चप्रयोजनान् । यो मोहान्न निगृह्णाति तमापद्मसते नरम् । 1 नीतिमत्पद्धतिः । ' वश्येन्द्रियं जितात्मानं धृतदण्डं विकारिषु । परीक्ष्यकारिणं वीरमत्यन्तं श्रीर्निषेवते ।' 'दानं होमं दैवतं मङ्गलानि प्रायश्चित्तं विविधान् लोक- वादान् । एतानि यः कुरुते नैत्यिकानि तस्योत्थानं देवता राधयन्ति ' इत्यादीनि द्रष्टव्यानि ॥ 8 ॥ 'प्रसादो निष्फलो यस्य क्रोधो यस्य निरर्थकः । न तं भर्तारमि- च्छन्ति पण्डं पतिमिव स्त्रियः । ' ' अपनीतं सुनीतेन योऽर्थे प्रत्यानि- नीते । मतिमास्थाय सुदृढां तदकापुरुषव्रतम् । आयत्यां प्रतिका- रशः तथाद्य दृढनिश्चयः । अतीतकार्यशेषज्ञो नरोऽथैर्न प्रहीयते ' इति राजनीतिमनुवर्तमानो न शत्रुभिर्जीयत इत्याह-- --- अङ्गयुक्तः कृतास्त्रश्च कुर्वन्सम्यक्पुरोविधिम् । विजानन्सिद्धसाध्यादीन्वैरिणोऽस्त्रैर्न पीड्यते ॥ ५ ॥ अङ्गेति ॥ ' स्वाम्यमात्यसुहृत्कोशराष्ट्र दुर्गबलानि च । राज्याङ्गानि इत्युक्ताङ्गयुक्तः, कृतास्त्रः शिक्षितधनुर्विद्यः, सम्यक्पुरोविधिं कुर्वन् पुरोहितवरणं कृत्वा सर्वकार्येष्वतो ब्राह्मणं कुर्वन्नित्यर्थः । सिद्धसा- यादीन् एतावत्कार्य सिद्धं, एतावत्कार्य साध्यं इति जानन् कृत- प्रत्यवेक्षणेन कृत्यशेषं निर्धारयन्नित्यर्थः । एवंविधो राजा वैरिणो- Sर्न पीड्यते । अत्र मन्त्रशास्त्रप्रक्रियया पुरश्चरणं कुर्वाणो निदर्श- नम् । अङ्गयुक्तः षडङ्गद्वादशाङ्गादिन्यासयुक्तः, कृतास्त्रः कृतास्त्रमन्त्रः, सिद्धसाध्यादीन् मन्त्रार्पणविधिना स्वनाम्ना सिद्धसाध्यादिस्थानानि विजानन्, पुरोविधिं कुर्वन् पुरश्चरणं कुर्वन, वैरिणोऽस्त्रैर्न पीड्यत इति ॥ ५ ॥ 1 सुभाषितनीव्यां ' निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः । अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते ॥ यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे । कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥ यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते । न किंचिदवमन्यन्ते नराः पण्डि - तबुद्धयः ॥ आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते । हितं च नाभ्य- सूयन्ति पण्डिता भरतर्षभ ॥ मङ्गलालम्बनं योगः श्रुतमुत्थानमार्जवम् । भूतिमेतानि कुर्वन्ति सतां चाभीक्ष्णदर्शनम् ॥ ' ' बलं पञ्चविधं नित्यं पुरुषाणां निबोध मे । यत्तु बाहुबलं नाम प्रथमं बलमुच्यते ॥ अमा- त्यलाभो भद्रं ते द्वितीयं बलमुच्यते । तृतीयं धनलाभं च बलमाहुर्म- नीषिणः ॥ यत्त्वस्य सहजं राजन् पितृपैतामहं बलम् । अभिजातबलं नाम चतुर्थे बलमुच्यते ॥ यद्वलानां बलं श्रेष्ठे तत्प्रज्ञाबलमुच्यते । ' इत्युक्तपञ्चविधबलशालिनः राज्ञः प्रभुमन्त्रोत्साहशक्तयः सिद्धिहेतव इत्याह- कामाधिकरणग्राह्यकुलादिबलशालिनः । अहीनेऽपि नरेन्द्रस्य शक्तयः सिद्धिहेतवः ॥ ६ ॥ कामेति ॥ काममत्यर्थं अधिकेषु रणेषु ग्राह्यं कुलादिबलं पितृपै- तामहादिबलम् । शलति गच्छतीति तथोक्तस्य नरेन्द्रस्य, शक्तयः प्रभुमन्त्रोत्साहशक्तयः, अहीने बलवच्छत्रावपि सिद्धिहेतवः जय- हेतवः । विषवैद्येोऽत्र निदर्शनम् । कामाधिकरणं कामबीजं सकल- मन्त्राणां मन्मथबीजसरस्वतीबाजश्रीबीजादियुक्तत्वात् तेन ग्राह्यं कुलादिबलं, मन्त्रेषु कुलाकुलमन्त्राः सन्तीति मन्त्रवेदिनो वदन्ति, ' नीतिमत्पद्धतिः । ' तद्बलशालिनः नरेन्द्रस्य सर्पवैद्यस्य शक्तयः मन्त्रौषधशक्तयः, अहीने सर्वश्रेष्ठेऽपि, सिद्धिहेतवः ग्रहणहेतव: । ' क्षत्रियं चाप्ययो- द्वारं विप्रं चाप्यप्रवासिनम् । भूमिरेतौ निगिरति सर्पों बिलशया- त्रिव । संपदा सुस्थिरंमन्यो भवति स्वल्पयापि यः । कुतकृत्यो विधिर्मन्ये न वर्धयति तस्य ताम् ।' इति ॥ ६ ॥ उत्साहशक्तियुक्तः सन् धैर्येण वीर्ययुक्तः कृत्स्नं जगत् निवरं कुर्यादित्याह— प्रद्युम्न निरुद्धात्मा स्वनाम्ना मानसोदयः । वीरः कश्चिद्वितन्वीत स्त्रीप्रायमखिलं जगत् ॥ ७ ॥ ' : प्रद्युम्नेति । कश्विद्वीरः, प्रद्युम्नः प्रकृष्टधनयुक्तः सन्, 'हिरण्यं द्रविणं द्युम्नम् इत्यमरः । मानेन अभिमानेन सोदयः अभ्युदय- युक्तः सन् स्वनाम्ना स्वनामप्रसिद्धयान्वितः, अनिरुद्धात्मा अप्र- तिहतधैर्यः सन्, 'आत्मा यत्रो धृतिर्बुद्धिः' इत्यमरः । अखिलं जगत् स्त्रीप्रायं स्त्रीसदृशं पौरुषहीनं वितन्वीत । एवंविधः श्रेष्ठ इति भावः । 'प्रायश्वानशने मृत्यौ तुल्यबाहुल्ययोरपि इति विश्वः । अत्र मन्मथो भगवांश्च निदर्शनम् । प्रद्युम्नः कृष्णपुत्रो मन्मथः, तस्य पुत्रोऽनि- रुद्ध:, तस्मिन्नात्मा मनो यस्य स तथेोक्तः । यद्वा अनिरुद्धरूपश्व, 6 आत्मा वै पुत्रनामासि' इति श्रुतेः । स्वनाम्ना मानसोदयः, मनो- भवः, वीरः कश्चित् अखिलं जगत् स्त्रीप्रायं स्त्र्यनुरागप्रचुरं वितनुते । वहति महिलामाद्यो वेधास्त्रयीमुखरैर्मुग्वैर्वरतनुतया वामो भागः शिवस्य विवर्तते । तदपि परमं तत्त्वं गोपीजनस्य वशंवदं मदनकदनैर्न 6 सुभाषितनीव्यां ." क्राश्येरन् कथं त्वितरे जनाः ॥ ' ' वर्ग तृतीयमवधरियतां विनेत' इति युक्तम् । भगवत्पक्षे विः पक्षी गरुत्मान् तेन ईरयति गच्छतीति वीरः, प्रद्युम्नः अनिरुद्धात्मा च वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धा इति व्यूहेषु परिगणितत्वात् स्वनाम्ना स्वनामस्मृत्यर्थं अध्ययनेन वसतीति- वत्, मानसोदयः भक्तानां चित्तेषु अभिव्यक्तः, अखिलं जगत् 'स्त्री- प्रायं पतिं विश्वस्य' इत्युक्तरीत्या स्त्रीतुल्यं वितनुते भर्तृभार्यासंबन्ध- तुल्यसम्बन्धवत्करोतीत्यर्थः । न च पतित्वमीश्वरत्वमिति वाच्यम् । आत्मैश्वरमिति पुनरुक्तेः ॥ ७ ॥ * यमेनोपक्रमे जानन्विश्वाधीशं व्यवस्थितम् । सामादिषु च तत्त्वज्ञः स न कः सिद्धिमर्हति ॥ ८ ॥ * प्रयुक्तं मन्त्रिभिः काले भक्तिभेद पुरस्कृतम् । अपि ज्वलनवक्तॄणां साम संवननं परम् ॥ ९ ॥ * विधौ लब्धधृतिर्नीत्या विनतानन्दनो द्विजः । नियम्यमानैः स्थानेषु भुजगैरपि भूष्यते ॥ १० ॥ * नीतिः सती त्वयि परं परपुष्टधातुः पुत्रीकृतोऽपि बलिपुष्टकुलैर्यतस्त्वम् । दूरीकृतोऽपि पुरुषैस्तत एव काले कण्ठो यदेष तव पञ्चममुच्चकार ॥ ११ ॥ * एतेषां चतुर्णा श्लोकानां रत्नपेटिकाव्याख्या नोपलभ्यते ॥ क्षमावन्तो महात्मानः क्षान्यैवाक्षैपरूक्षाक्षरमुखरमुखान् दुर्जनान् दुःखयन्तः कलावन्तः क्षमागुणवत्तया मनःकालुष्यं न प्राप्स्यन्ति । क्षुद्रपुरुषोत्तरादानेन असमर्था इत्यपवादोऽपि तेषां न कर्तुं शक्यत इत्याह-- विबुधमहिते मेरावैरावणः करटी मुहुः कषतु करटं कण्डूलं स्वं क्षरन्मदकर्दमम् । भजतु च तटक्रीडां पादैर्विसन्धि रसाद्दृढं न च मलिनता नापि क्षोभः कलाभृति संभृतः ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सुभाषितनीव्यां नीतिमत्पद्धतिः नवमी ॥ विबुधेति ॥ विबुधमहिते देवबहुमते विद्वत्पूजिते च, मेरौ, विदुषीति गम्यते, ऐरावणः करटी, ऐरावतो गजः दुर्जनश्च, अरन्मदकर्दमं स्रवत्कर्दमसदृशमदं, कण्डूलं कण्डूतियुक्तम्, कटं कषतु, किं च पादैः दृढं विसन्धि विशरसन्धिबन्धं यथा भवति तथा; तटक्रीडां भजतु, कलाभृति मुवर्णधारिणि मेरौ विद्यावति च, सुभाषितनीव्यां मलिनता मदपङ्कालेपप्रयुक्तमालिन्यम्, न च, अतिस्निग्धत्वादिति भावः । सम्भृतेत्यनुषङ्गः । क्षोभः चलनमपि न सम्भृतः, त्रिलोकाधा- रत्वादिति भावः ॥ १२ ॥ इति श्रीमच्छ्रीशैलकुलतिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य श्रीश्रीनिवासविदुषः कृतिषु सुभाषितनीवी - व्याख्यायां रत्नपेटिकाख्यायां नीतिमत्पद्धतिः । नवमी ॥ धनधान्यपद्धतिः ॥ आभिमुख्यदशामात्रादादर्श इव सज्जनः । शीघ्रं रक्तमरक्तं वा गृह्णाति स्वप्रसादतः ॥ १ ॥ आभिमुख्येति ॥ सजना दाता आभिमुख्यदशामात्राद्याचक- स्याभिमुखागमनमात्रेण, न तु याच्ञापर्यन्तं, याच्ञायाः परक्लेशावह- त्वात्, रक्तं रागवन्तं फलाभिलाषिणम्, अरक्तं तद्रहितं वा, लाक्षादिरागयुक्तद्रव्यं तद्रहितद्रव्यं वा, स्वप्रसादतः 'कृतज्ञतापक- र्तृत्वं भूयो दोषानभिज्ञता । एप प्रसादश्चित्तानां लक्षणशैरुदाहृतः । ' इत्युक्तचित्तगुणात् स्वनैर्मल्यतश्च, आदर्श इव, गृह्णाति अनुगृह्णाति, ग्रहणसाधनं भवति च, साधने कर्तृत्वोपचारः । स्वात्मदातृत्वप्रकाश- नेन स्वाश्रितेषु भगवतः उदाराः सर्व एवैते ' इति खलुक्तिः । मजनप्रकृतिस्तादृशीति भावः । उपमालङ्कारः ॥ १ ॥ ' अप्यनावर्जिताः स्वेन फलरागेण समताः । अर्भकैरपि गृह्यन्ते साधुसन्तानशाखिनः ॥ २ ॥ अपीति ॥ अनावर्जिताः स्वेन स्वार्थफलाभिलाषेण अनाकृष्टा अपि अत्युन्नतत्वादनम्या अपि, फलरागेण सन्नताः परार्थफलग्रहणा- भिलाषेण मन्नताः स्वयमेत्र सम्यङ्नताः, माधव एव सन्तानशाखिनः सुभाषितनीव्यां अर्भकैरसमर्थैरपि गृह्यन्ते, हस्तापचेयफला भवन्ति । षोत्थापित- ताद्रूप्यरूपकालङ्कारः ॥ २॥ धिनोतीति धनं, तद्धि लौकिकं न भवति, तस्य 'अर्थानामार्जने दुःखम् ' इत्यादिना दुःखहेतुत्वात्, अतस्तत्परित्यागेन ये आत्मत- त्परास्त एव सुखिन इत्याह- निर्मुक्तभवनक्षेत्राः स्युः सदागतिनिर्वृताः । प्राप्ते भयविपर्यासे भोगिनः खलु भोगिनः ॥ ३॥ निर्मुक्तेति ॥ निर्मुक्तानि त्यक्तानि भवनानि गृहाः क्षेत्राणि च यैस्ते तथोक्ताः, 'लोकेषणायाश्च पुत्रेषणायाश्च वित्तेषणायाश्च व्युत्था- याथ भिक्षाचर्ये चरति, ' 'अत्र ब्रह्म समश्नुते' 'इमं च लोकममुं च परि- त्यज्यात्मानमन्विच्छेत्' इत्यादिभिरात्मानुभवशालिन इत्यर्थः । सता- मागतौ प्राप्त निर्वृताः, भयविपर्यासे प्राप्तेऽपि महाप्रलयादौ प्रा- "तेऽपि, भोगिनः सुखवन्तः, भोगिनः स्युः खलु फणिनः स्युः खलु । श्लेषभित्तिकाध्यवसायनिबन्धनातिशयोक्तिः । फणिपक्षे निर्मुक्तानि मुक्तकञ्चुकानि भवनसदृशानि क्षेत्राणि शरीराणि येषां ते तथो- क्ताः, सदागतिना वाताहारेण निर्वृता इत्यर्थः ॥ ३ ॥ सर्वेषामुत्तरामाशां धनदो यः प्रतीक्षते । सत्यं मनुष्यधर्मैव स तु पुण्यजनेश्वरः ॥ ४ ॥ सर्वेषामिति ॥ सर्वेषामुत्तरां उत्कृष्ठां आशां स्वस्माद्धनग्रहणा- भिलाषं, यो वदान्यः, प्रतीक्षते परिपालयति, स मनुष्यधर्मैव, पुरु धनधान्यपद्धतिः । ' पधर्मवान् स एव पुरुष इत्यर्थः । पुण्यजनानां ईश्वरश्च । कुबेरोऽत्र निदर्शनम् । यः कुबेरः सर्वेषामुत्तरामाशां उत्तरदिशम् परिपाल - यति सः, मनुष्यस्येव आचारो यस्य मनुष्यधर्मा, सप्तम्युपमानेत्या- दिना समासः । धर्मादनिच्केवलादिति समासान्तोऽनिच् । भद्रमङ्गल- वारादिशब्दवद्विपरीतलक्षणया पुण्यजनशब्दो राक्षसे प्रसिद्धः तेषां ईश्वरः पुण्यजनेश्वरः । ' देहीति वदतां प्रायः प्रसीदन्प्रत्युवाच सः । ललितध्वनिभिर्लक्ष्मीलीलाकमलषट्पदैः ॥' 'चातकस्त्रिचतुरान् पयः कणान् याचते जलधरं पिपासया । सोऽपि पूरयति विश्वमम्भसा हन्त हन्त महतामुदारता ॥' इत्यादीनीहानुसन्धेयानि ॥ ४ ॥ येषां हिरण्यकशिपुक्षेत्रदानकरः करः । तेषां तिर्यङ्मुखखेऽपि पुरुषत्वं न हीयते ॥ ५ ॥ येषामिति ॥ येषां करः हस्त: हिरण्यं च कशिपु अन्नवस्त्रे 'कशिपु , त्वन्नमाच्छादनं द्वयम् इत्यमरः । तच्च क्षेत्राणि च तेषां दानं करोतीति दानकरः, तेषां तिर्यग्वृत्तं मुखं येषां ते तथोक्ताः तेषां भावः तिर्यङ्मुखत्वम्, तस्मिन्नपि पुरुषत्वं श्रेष्ठत्वम्, न हीयते न त्यज्यते । अत्र नरसिंहो निदर्शनम्, स हि हिरण्यकशिपोः क्षेत्रदानं शरीर- च्छेदनं, करेण कृतवान्, तिर्यङ्मुखः सिंहस्य तिर्यग्जातित्वात् पुरु- पश्च । 'भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधि च वर्तेते वासुदेवे सनातने, इति तस्य पुरुषधर्मपौष्कल्यात् ॥ ५ ॥ मुख्यदानोदकक्लिन्नकरः ख्यातक्षमाधृतिः । लोकपालाश्रितः कश्चिदनाशावारणः कथम् ॥ ६ ॥ 6 सुभाषितनीव्यां , मुख्येति ॥ मुख्यानां श्रेष्ठवस्तूनां यद्वा मुख्यानां ब्राह्मणानाम्, दानोदकेन क्लिन्नः आर्द्रीभूतः करो यस्य स तथेोक्तः, मुखोद्भवेन मदोदकेन क्लिन्नशुण्डादण्डश्च ख्याते प्रसिद्धे क्षमा क्षान्तिः धृतिः धैर्ये च यस्य स तथेोक्तः, अन्यत्र ख्याता क्षमायाः भूमेः धृतिर्धारणं यस्य स इत्यर्थः । लोकपालाश्रितः कश्चित् सचिवः दिक्पालाश्रि तश्च, कथमनाशावारण: अर्थिकामाशां पूरयत्येव, कथं न दिग्गज इत्यर्थः । अत्न दिग्गजो निदर्शनम् । अत्र मामक श्लोकः- आ- श्रित्य प्रभुमेकं नित्यं पूर्णः स्वयं परं पूर्णः । कुरुते तृतीयसवनं प्राप्याग्रयणं यथैव षोडशिनम्' ॥ ६ ॥ क्षोभितो विबुधैः कश्चिद्गम्भीरमधुराशयः । चन्द्ररत्नगजाश्वादिसहितां दिशति श्रियम् ॥ ७ ॥ " क्षोभित इति ॥ विबुधैः विद्वद्भिः क्षोभितः प्रसङ्गैः उल्लासितः, अन्यत्र विबुधैः देवैः मथितः, चन्द्र:, कर्पूरम्, अन्यत्र चन्द्रः, श्रियं संपत्तिं लक्ष्मीं च । स्पष्टमन्यत् । समुद्रो निदर्शनम् ॥ ७ ॥ परमपुरुषं निदर्शनीकृत्य कस्यचिन्महौदार्यमाह - अपुनर्देहिशब्दार्थममत्युपकृतिक्षमम् । अर्थिनं कुरुते कश्चित्पुनरावृत्तिवर्जितम् ॥ ८ ॥ अपुनरिति । कश्चित् अर्थिनं, अपुनर्दे हिशब्दार्थ - देहि वित रेति शब्दस्यार्थो यस्य पुनर्नास्ति सोऽपुनर्देहिशब्दार्थः तं, भगवत्पक्षे स्वाश्रयणानन्तरं पुनर्देही देहवानिति शब्दस्यार्थो यथा न स्यात् तथा धनधान्यपद्धतिः । करोतीत्यर्थः । महोपकारदानेन अर्थिनः प्रत्युपकारं कर्तुमयोग्यत्वमाह- अप्रत्युपकृतिक्षममिति, स्वल्पप्रदानेन पुरुषार्थार्थ पुनरावर्तिनं करोति किं ? नेत्याह-पुनरावृत्तिवर्जितमिति । भगवांश्च - 'नत्र पुनरावर्तते ' 'आ ब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन । मामुपेप्य तु कौन्तेय पुनर्जन्म न विद्यते ' इत्युक्तं करोतीत्यर्थः । अपुनः प्रार्थनीयस्य प्रार्थि- ताधिकदायिनः । अर्थिनः प्रथमे तस्य चरमान् पर्यपूरयन् ' इत्यादि- कमनु सन्धेमम् ॥ ८ ॥ * वदान्यश्च कदर्यश्व गृहीतस्थिरलोभतः । स्वानर्थान्संचिनोत्यर्थान्परानर्थैरयोजयन् ॥ ९ ॥ * अनिःशेषितदातव्यं वदान्यदिति वादिनम् । नोपसर्पति सव्रीडो व्रीडाकुलवधूरिव ॥ १० ॥ ' 'श्रद्धया देयम् । ' यद्वातुः सौम्यता सेयं पूर्णेन्दोरकलङ्कता 'मम्प्रीतिभोज्यान्यन्नानि,' 'प्रियवाग्दानशीलश्च वदान्यः परिकीर्तितः' इति महादानमपि प्रियोक्तिपूर्वकमेव सर्वोत्कृष्टमित्याह--- त्वचं मांसं जीवं यदपि ददुरस्थीनि पृथिवीं श्रियं रत्नाधीशं त्रिदशतरुमैरावतमपि । तदेतत्प्रत्येकं मिलितमपि नालं तुलयितुं मनस्कारोपेतां स्थिरमधुरकल्योक्तिकणिकाम् ॥ * अनयोः श्लोकयोः रत्नपेटिकाव्याख्या नोपलभ्यते । सुभाषितनीव्यां त्वचमिति । त्वचं कर्णः शरीराभिन्नं कवचं शरीरात् च्छित्वा ददौ । मांसं शित्रिः श्येनाय स्वोरुमांसं कपोतरक्षणाय ददौ । जीवं कपो- तः स्वसमीपागताय व्याधाय स्वभार्याप्राणान् ददौ । अस्थीनि इन्द्राय दधीचिरस्थीनि ददौ । पृथिवीं परशुरामः कश्यपाय ददौ । श्रियं रत्नाधीशं त्रिदशतरुं ऐरावतमपि समुद्रो ददौ । एवं यदपि ददुः, तदे तत्प्रत्येकं वा मिलितमपि वा, मनस्कारोपेतां मनस्कार: चित्ताभोग:, 'चित्ताभोगो मनस्कार:' इत्यमरः । चित्तस्याभोगस्तात्पर्यमिति सर्वानन्दः । एकस्मिन् विषये पुनः पुनः चित्तवृत्तिराभोग इति पञ्जिका। तेनोपेतां, स्थिरां कालान्तरेपि स्मर्तव्यां, मधुरां हृदयानन्दवि- धायिनीं, कल्यां शुभात्मिकां ' स्यात्कल्या तु शुभात्मिका' इत्यमरः । उक्तिकणिकां सूनृतवाग्लेशमपि तुलयितुं समीकर्तुं नालं न पर्याप्तम् । अतिथिविषये 'अभावे भूमिरुदकं तृणानि कल्याणी वागित्येतानि वै सतोऽगारे न क्षीयन्ते ' इत्यापस्तंबः । ' सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः । हृतं व्याहृताच्छ्रेय आहुः, सत्यं वदेद्वयाहृतं तद्वितीयम् । प्रियं वदे- द्वयाहृतं तत्तृतीयम्, धर्म्य वदेद्वयाहृतं तच्चतुर्थम् ।' इति महाभारते । 'चन्दनं शीतलं लोके चन्दनादपि चन्द्रमाः । चन्द्रचन्दनयोर्मध्ये साधुवाक्यं सुशीतलम् । इति चाटुकाराः ॥ ११ ॥ , परमपुरुषो महोदारान् परार्थमेवासृजदित्याह- अनिर्घातं धाराधरमशमनीयं निधिरपा- मकाठिन्यं चिन्तामणिमजडभूतं सुरतरुम् । अव्या- धनधान्यपद्धतिः । 1 अभिवोपादाय प्रभुर पशुवृत्तिं च सुरभिं परार्थैकस्वार्थानकृत पुरुषानादिपुरुषः ॥ १२ ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्र स्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सुभाषितनीव्यां धनधान्यपद्धतिः दशमी ॥ अनिर्घातमिति । प्रभुः सकलविलक्षणनिर्माणसमर्थः, आदि- पुरुष: परार्थ एक एव स्वार्थो येषां ते तथोक्ताः तान् पुरुषान् अकृ- तेत्यन्वयः । कथं कृत्वा अभित्त्वा अनिर्घातं धाराधरं, अशमनीयमपा- न्निधिं, अकाठिन्यं चिन्तामणिम्, अजडभूतं सुरतरुं, अपशुवृत्ति सुरभिं च उपादाय गृहीत्वा अभित्त्वा सर्वानेकीकृत्येत्यर्थः । पूर्वसृष्टस्य धाराधरस्य वज्रनिर्घातो दोषः, अपान्निधेः शमनीयत्वं दोषः, चिन्ता- मणेः काठिन्यं दोषः, सुरतरोः जडत्वं दोषः, सुरभेः पशुवृत्तिर्दोष इति तान्विहाय दोषरहितैः तादृशपदार्थैरेकीकृत्य सृष्टवानित्यर्थः । अनेन निस्समाभ्यधिकमौदार्य प्रतीयते, निर्घातशब्देनात्र परुषवाक्यं विवक्षितम्, शमनीयत्वं परार्थशून्यत्वं विवश्चितम्, काठिन्यमत्र निर्दयत्वं विवचितम् । जडत्वमत्र मन्दत्वं विवक्षितम्, पशुवृत्तिः पात्रापात्रविशेषानभिज्ञता विवक्षिता । अनिर्घातं धाराधरमित्यादिना सुभाषितनीव्यां प्रसिद्धेभ्यो व्यतिरेकः, तदुपादानासम्बन्धेऽपि सम्बन्धोक्तेरतिशयो- क्तिः । तद्भेदेऽप्यभेदातिशयोक्तिश्चेति तेषां सङ्करः ॥ १२ ॥ इति श्रीमच्छ्रशैिलकुलतिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य श्रीश्रीनिवासविदुषः कृतिषु सुभाषितनीवी- व्याख्यायां रत्नपेटिकाख्यायां धनधान्यपद्धतिः दशमी ॥ सत्कविपद्धतिः । अपङ्किलधियः शुद्धाः साधुमानसवृत्तयः । वमन्ति श्रुतिजीवातुं ध्वनिं नवरसास्पदम् ॥ १ ॥ अपङ्किलेति ॥ अपङ्किलधियः रागमोहादिकालुष्यरहितबुद्धयः, अनेन वक्तृवैलक्षण्येनोपादेयत्वसिद्धिः, अन्यत्र कर्दमवत्सु क्षुद्रसर- स्स्वपेक्षारहिताः, शुद्धाः शुचयः धवलाश्व, साधुमानसे समीचीनमनो- व्यापारे भगवद्भक्त्यादौ मानससरसि च वृत्तिर्येषां ते तथेोक्ताः, नव- रसास्पदं शृङ्गारादिनवरसाभिव्यञ्जकम् नूतनोदकपानसम्भवं च, श्रुति- जीवातुं वेदमूलम् श्रोत्रानन्दकरं च, ध्वनिं वमन्ति प्रकटयन्ति, गौण- वृत्त्याश्रयणाद्वमन्ति इत्यस्य न ग्राम्यता । तदुक्तम् 'निष्टयूतोद्गीर्णवान्ता- दिगौणवृत्तिव्यपाश्रयात् । अतिसुन्दरमन्यत्र ग्राम्यकक्ष्यां विगाहते ' इति । हंससाम्यं गम्यते, 'मधुरं मधु पीयूषं तस्मात्तस्मात्कवेर्वचः ॥' महानायकमेव स्वकाव्यस्य विषयं कुर्वन् प्रतिभान्वितां महाक- विर्भवतीत्याह- महापुरुषबद्धात्मा सर्गादिप्रथितोदयः । पश्यावदातया वाचा सेव्यते चतुराननः ॥ २ ॥ महापुरुषेति ॥ चतुरं रसभावादिबन्धुर काव्य निर्माणचतुरम् आ- ननं वक्त्रं यस्य स तथोक्तः; 'यद्धि मनसा ध्यायति, तद्वाचा वदति सुभाषितनीव्यां इति बुद्धिस्थं चातुर्य तदनुशब्दाभिलापिनि आनने आरोपितम् ; चतुर्मुखश्च, महापुरुषे धीरोदात्तादिनायके परमपुरुषे च बद्धः वर्ण- यितृत्वेन सम्बद्धः आत्मा मनो यस्य स तथोक्तः, परमपुरुषव्यानासक्त- मनाश्च; सर्गादिषु सर्गकाण्डसमुच्छ्रासादिसंज्ञकपरिच्छेदेषु विषये प्रथितः प्रसिद्धः उदयः बुद्धिप्रतिभादिरूपाभ्युदयो यस्य स तथोक्तः, सृष्टयादिविषये प्रसिद्धोत्पत्तिश्च । अवदातया शुद्धया दोषरहितयेति यावत्, धवलया च वाचा वाग्देव्या च सेव्यते । पश्य मनसा विचा- रयेत्यर्थः । चतुर्मुखो निदर्शनम् ॥ २ ॥ सत्यवान् महाकविदुर्लभ इत्याह- - विशुद्धवर्णललिता गुणालंकारशालिनी । सरसा भारती यस्य स सत्ये कः प्रतिष्ठितः ॥ ३ ॥ विशुद्धेति । विशुद्धवर्णललिता रसानुगुण्येन असंयुक्तकोमलव- र्णादिमनोहरा, शुभ्रवर्णा च गुणालङ्कारशालिनी प्रसादमाधुर्यादि- गुणैरुपमानुप्रासाद्यलङ्कारैश्च शालिनी । अन्यत्र सौन्दर्यादिगुणैः कटककेयूराद्यलङ्कारैश्च शालिनी, सरसा रसाभिव्यञ्जका भर्तरि सानु - रागा च, भारती वाक् वाग्देवता च यस्य सः, सत्ये कः प्रतिष्ठितः कोsपि, भगवानेव यस्य स्तुतेर्विषयः । सत्ये ब्रह्मणि कः कोऽपि प्रतिष्ठितः । ' इषुक्षयान्निवर्तन्ते नान्तरिक्षक्षितिक्षयात् । मतिक्षया- न्निवर्तन्ते न गोविन्दगुणक्षयात् ' ' वितथा वेदपान्थानां यत्र सायंगृहा गतिः । ' ' यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः : इत्युक्त- सत्कविपद्धतिः । रीत्या परम पुरुषमहिमवर्णनप्रवृत्तस्य सत्यप्रतिष्ठितत्वस्य संभवान्न व्यति- रेके तात्पर्यम् । अपि तु दौर्लभ्य एव तात्पर्यम् ; ' स महात्मा सुदु- 1 र्लभः इतिवत् । अन्यत्र सत्ये सत्यलोके कः ब्रह्मा प्रतिष्ठित इत्यर्थः । चतुर्मुखोऽत्र निदर्शनम् ॥ ३ ॥ 'वार्ता च कौतुककरी विमला च विद्या लोकोत्तर: परिमलश्च कु- रङ्गनाभेः । तैलस्य बिन्दुरिव वारिणि दुर्निवारमेतत्त्वयं प्रसरति स्वय- इत्युक्तरीत्या परिशुद्धविद्या समुद्रपरिवेष्टितभूमण्डले मेत्र लोके ॥ स्वयमेव प्रसरतीत्याह- कुतश्चिदचलस्थानात्प्रयान्ती सागरान्तिकम् । दृश्यादृश्यतनुर्भाति कृत्यभीष्टा सरस्वती ॥ ४ ॥ कुत इति ॥ कुतश्चिदचलस्थानात् देशान्तरं असञ्चरतोऽपि कवे- रित्यर्थः पर्वतस्थानाच्च, सागरान्तिकं प्रयान्ती समुद्रपर्यन्तं गच्छन्ती दृश्यादृश्यतनुः क्वचिद्रूढव्यङ्गयाकृतिः क्वचिद गूढव्यङ्गयाकृतिः, यद्वा पण्डितेषु दृश्यतनुः अपण्डितेषु अदृश्यतनु:, अन्यत्र सरस्वत्या- ख्यनद्या गुतगामित्वात् दृश्यादृश्यतनुत्वं प्रसिद्धम् । कृतिषु प्रबन्धेषु विषये अभीष्टा कृतीनां विदुषां स्नानाद्यर्थमभीष्टाच, सरस्वती विद्या वेगाख्यनदी च भाति, नदी निदर्शनम् ॥ ४ ॥ विदुषां सूक्तयो मुक्तात्मतां संपादयन्त्यः श्रोत्रानन्दाय भवन्ती- त्याह- - प्रभूतोदितमुक्ताभिर्भूयते सूक्तिशुक्तिभिः । सुदृशां कर्णपूराय तादृक्त्वं फलभेदतः ॥ २ ॥ सुभाषितनीव्यां प्रभूतेति ॥ प्रभूतं अधिकं यथा भवति तथा उदिता आविर्भूता मुक्ता याभ्यस्ताभ्यः सूक्तिशुक्तिभिः, शुक्तिसदृशसूक्तिभिः सूक्तिसदृश- शुक्तिभिश्व, सुदृशां विदुषां कर्णपूराय श्रोत्रानन्दाय, स्त्रीणां कर्णावतं- साय च भूयते भावे लट् । श्रोत्रानन्दावहत्वं कथं ? कथं वा कर्णावतं- सार्थत्वं शुक्तीनामित्यत्राह ' तादृक्त्वं फलभेदतः' इति, अर्थभेद- वैचित्र्यात् गर्भीकृतमौक्तिकानां शुक्तीनां भेदनाच्च । शुक्तिसा म्यम् ॥ ५ ॥ ' सा कविता सा वनिता यस्याः श्रवणेन दर्शनेनापि । कवि- हृदयं युवहृदयं सरलं तरलं च सत्वरं भवति' इत्युक्तरीत्या सतां सूक्ति- र्विरुद्धं विचारितापि स्वां शोभामपरित्यजन्ती भगवदानन्दावहेत्याह– प्रतीपमुपसृष्टापि स्वामभिख्यां न मुञ्चति । कालिकेव सतां सूक्तिस्तादृशपुतिनन्दनी ॥ ६॥ प्रतीपमिति ॥ प्रतीपं प्रतिकूलं, उपमृष्टापि विचारितापि, कालिकेव मेघपङ्किवि, स्वामभिख्यां शोभां सूक्तिरित्याख्यां वा न- मुञ्चती अत्यजन्ती, मेघपङ्क्तिरपि प्रतीपं प्रतिलोमं उपमृष्टापि करत - लादिना घट्टितापि स्वां शोभां न मुञ्चति, तद्वदित्यर्थः ; सतां सूक्तिः तादृशद्युतिः भगवान् तस्य नन्दनी सन्तोषावहा भवति । नमुञ्चती- त्यत्र आच्छीनद्योर्नुमित्यस्य वैकल्पिकत्वान्नुमभावः, नशब्दस्य सुप्- सुपेति समासः ॥ ६॥ 'युक्तियुक्तं वचो ग्राह्यं बालादपि सुभाषितम् ' इति न्यायेन पशु- पालवाक्यमप्यर्थवश्चेद्ब्राह्यमित्याह- सत्कविपद्धतिः । अपार्थेतरयुक्तानां व्याससङ्ग्रहशालिनाम् । अपि गोपालगीतानां निवेशो निगमादिषु ॥ ७ ॥ , व्यासो अपार्थेति ॥ अपार्थेतरः सदर्थ: अर्जुनश्च तेन युक्तानाम्, विस्तरः संग्रहः सङ्क्षेपः तेन शालिनाम्, ग्रन्थकारिणामेष स्वभावः, 'यत्समासव्यासधारणम्' इति । व्यासस्य बादरायणस्य संग्रहेण ग्रथनेन शालिनां च; गोपालगीतानां पशुपाल श्लोकानामपि श्रीकृष्णो- क्तानामपि निगमादिषु निवेश: प्रमाणेषु ग्रहो भवति, गीतोपनिषद- ति वेदान्ततुल्यत्वेन ग्रहो भवतीत्यर्थः । गीतोपनिपन्निदर्शनम् ॥ ७ ॥ 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः पर- निरृतये कान्तासम्मिततयोपदेशयुजे ॥' इति काव्यस्यानेकपुरुषा- र्थसाधनत्वात् लोहितपायिगोपीडन्यायेन केनचित्कुकविना सरसकवि- शब्दं न्यक्कृत्य क्रियमाणः शब्दाडम्बरो वृधेत्याह- जलाशयस्य घोषेण जातलौल्यस्य भूयसा । कविशब्दं तिरोधाय कश्चिदर्थो न साध्यते ॥ ८ ॥ जलाशयस्येति ॥ जातं लौल्यं अहं कविरिति चापल्यं वाय्वादिना तरलत्वं च यस्य तथोक्तस्य ; जलाशयस्य मन्दबुद्धे: लडयोरभेदात्, सरसश्च; भूयसा घोषेण कवेः सत्कवेः शब्दं, के जले विः पक्षी हंसः तस्य शब्दं तिरोधाय परैरश्रुतं कृत्वा, कश्चिदप्यर्थो न साध्यते, कवि- शब्दकृतमाधुर्यादिकं स्वयं न विभर्ति -- इत्यर्थः ॥ ८ ॥ मणिना बलयं वलयेन मणिर्मणिना वलयेन विभाति करः । सुभाषितनीव्यां कविना च विभुर्विभुना च कविः कविना विभुना च विभाति सभा ।' ' अपत्यं च कवित्वं च द्वयमेव शुभास्पदम् ' इत्युक्तरीत्या कविता - भाग्यवानेन प्रकाशत इत्याह- 5- सदा नवोक्तिमहितः प्रतिरुन्धन्प्रतीपगान् । प्रथितः काव्यनाम्नापि कविरेकः प्रकाशते ॥ ९ ॥ सदेति ॥ सदा नवोक्त्या 'प्रज्ञां नवनवोन्मेषशालिनीं प्रतिभां विदु:' इत्युक्तप्रतिभया विचित्रापूर्वशब्दार्थयुक्त रचनया, महितः सर्वैः पूजितः, दानवानां उक्तिभिः सह वर्तत इति सदानवोक्तिः स चासौ महितश्चेति ; शुक्रपक्षे खञ्जकुब्जवद्विशेषणसमासः । प्रतीप- गान् प्रतीपवर्तिनः कुकवीन् प्रतिरुन्धन् प्रतिकूलवर्तिग्रहान् प्रति- रुन्धंश्च, शुक्रदृष्टेस्तद्दोषनिवर्तकत्वादिति भावः; काव्यनाम्नापि प्रथितः भारविः मात्र इत्यादिकाव्यनामात्मनापि स्वनामप्रसिद्धिमान्, अपि- शब्देन कालिदास इत्यादि केवलनाम्ना च प्रसिद्ध:, ' शुक्रो दैत्य- गुरुः काव्य:' इति काव्यनाम्ना च प्रथित इति च ; एकः मुख्यः कवि : आदिर्वर्णयिता द्वितीयः शुक्रश्च, प्रकाशते दीप्यते । शुक्रो निदर्शनम् ॥ ९ ॥ कश्चिन्महाकविः स्वयमेकदेशस्थितोऽपि कीर्त्या सर्वदिग्व्याप्तो भवतीत्याह- पूर्वकल्पप्रकारेण पुरुषार्थप्रवृत्तया विचित्रसृष्टया विहरन्व्याप्तः कश्चिन्महानपि ॥ १० ॥ पूर्वकल्पेति ॥ 'सवाग्विसर्गो जनताघविप्लवो यस्मिन् प्रति- सत्कविपद्धतिः । • श्लोक मबद्ध मस्त्यपि । नामान्यनन्तस्य यशोङ्कितानि गृह्णन्ति गायन्ति गृणन्ति साधवः ॥' इति सत्कविताया भगवच्चरित्रवर्णने पापनिव- र्तकत्वात् सर्वपुरुषार्थहेतुत्वात् महानपि धनादिना अधिकोऽपि कश्चि त्परमपुरुष इति 'महान् प्रभुर्वै पुरुषः सत्त्वस्यैव प्रवर्तकः । ' इति श्रुतिप्रसिद्धेः । पूर्वकल्पप्रकारेण आदिकवीनां वाल्मीकिप्रभृतीनां निर्माणप्रकारेण ' धाता यथा पूर्वमकल्पयत् इति श्रुतिनिर्दिष्टपूर्व- ब्रह्मकल्पप्रकारेण च, पुरुषार्थप्रवृत्तया, ' यशसेऽर्थकृते इत्युक्तप्र योजनार्थं प्रवृत्तया, पुरुषस्य करणकलेवरादिनिर्माणार्थं प्रवृत्तया च; विचित्रसृष्टया रसभावबंधुरशब्दार्थचमत्कारकल्पनया विहरन्, व्याप्तः कीर्त्या सर्वत्र व्याप्तः, स्वरूपेण सर्वत्र व्याप्तश्च । परमपुरुषो निदशर्नम् ॥ क्षीरसमुद्रोत्पन्नसुधेव सत्कविसूक्तिरास्वादनीया भवतीत्याह-- मतिमन्थजवेन लब्धवर्णा प्रतिपन्ना विबुधैरनन्यभक्तैः । सुकवेरनघा नयस्य सूक्तिः स्वदते दुग्धपयोनिधेः सुधेव ॥ ११ ॥ मतिमन्थेति ॥ अनन्यभक्तैः भगवद्भक्तैः अमृतातिरिक्तान्नरहितैश्व, विबुधैः विद्वद्भिः देवैश्व मतिमन्थजवेन मन्थसदृशबुद्धयतिशयेन मतिसदृशमन्थवेगेन च, प्रतिपन्ना लब्धा वर्णा यस्याः सा तथोक्ता, लब्धः वर्णः शुभ्रवर्णो यस्याः सा तथोक्ता च; अनघा दोषरहिता दुःखविरोधिनी च; सुकवेर्नयस्य सूक्ति: नीतिसम्बन्धिनी सूक्तिः, दुग्धपयोनिधेः सुधेव स्वदते रोचते ॥ ११ ॥ ९.४ सुभाषितनीव्यां भाग्यवशेन स्वयमेव कस्मिंश्चिजने वाल्मीकाविव कविता प्रस- रति चेत्सैव कविता, न यत्नसाध्या, तादृशी च क्वचिद्भवतीत्याह- मनुव्यासप्राचेतसपरिषद कचिदियं सुधासिक्का मूक्तिः स्वयमुदयमन्विच्छति जने । निरुन्ध्युः के विन्ध्याचलविकटसंध्यानटजटा- परिभ्रान्ता पोरुपरि यदि गङ्गा निपतति ॥ इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सुभाषितनीव्यां सत्कविपद्धतिः एकादशी ॥ मनुव्यासेति ॥ मनुव्यासप्राचेतसपरिषद सुधा सिक्तारसभरिता सूक्ति:, जने पामरेऽपि स्वयमुदयमाविर्भावं अन्विच्छति अपेक्षते, तत्र निदर्शनमाह - निरुन्ध्युरिति । विन्ध्याचलवद्विकटा निम्नोन्नताः सन्ध्यानटस्य शिवस्य या जटास्तत्र परिभ्रान्ता गङ्गा पङ्गोरुपरि यदि निपतति के निरुन्धुः, न केऽपीत्यर्थः ॥ १२ ॥ इति श्रीमच्छ्रीशैल कुलतिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य श्रीश्रीनिवासविदुषः कृतिषु सुभाषितनीवी- व्याख्यायां रत्नपेटिकास्यायां सत्कविपद्धतिः एकादशी ॥ 6 परीक्षितपद्धतिः ॥ -1.4109 सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः इति नीतिमनुसृत्य परीक्षितपद्धतिमाह- काकानां कोकिलानां च सीमाभेदः कथं भवेत् । यदि विश्वसृजा साक्षं न कृता कर्णशष्कुली ॥ १ ॥ ; काकानामिति । विश्वसृजा ब्रह्मणा अक्षिभ्यां सहितं यथा भवति तथा साक्षं, 'तेन सहेति तुल्ययोगे' इति बहुव्रीहिः ; बहुव्रीहौ सक्थ्यक्ष्णोः : स्वाङ्गात् प्रजिति षच् । कर्णशष्कुली कर्णपाशी, न कृता यदि, 'शष्कुली कर्णपाश्यपि इत्यमरः । काकानां कोकिलानां च माया मर्यादायाः, भेदः कथं भवेत्; कर्णसृष्ट्यभावे काकको कि- लभेदो न जायेत, अक्षिसृष्टया काककोकिलसाम्यमेव गृहीतम्, तत्र तनिग्राहिकर्णसृष्टया अयं काकः अयं कोकिल इति ज्ञायत इत्यर्थः । परमपुरुषेणैव लोकहितार्थ समीचीनप्रमाणानि सम्पादितानि, ततश्चापातज्ञानेन सदसद्विशेषाग्रहेऽपि विशेषग्राहकै : प्रमाणैः सम्यक् परीक्ष्य सद्वस्तूपाददीत, असद्वस्तु त्यजेदिति भावः ॥ १ ॥ 'ये तत्र ब्राह्मणाः सम्मर्शिनः, युक्ता आयुक्ताः, अक्षा धर्मकामाः स्युः, यथा तत्र वर्तेरन्, तथा तत्र वर्तेथाः' इत्युक्तरीत्या वृत्तादि- सुभाषितनीव्यां धर्मसन्देहे वृद्धान् पृच्छेत्, तेऽपि तत्र सम्यगुपदिशन्तीत्यभिप्रेत्याह-- छन्दःप्रत्ययशुद्धात्मा पश्यन्यतिगणस्थितीः । वर्णादिनियतं वृत्तं नियुङ्क्ते गौरवादिवित् ॥ २ ॥ छन्द इति ॥ छन्दः प्रत्ययेन वेदार्थज्ञानेन छन्दः शास्त्रज्ञा- नेन च, शुद्धः सन्देहरहितः आत्मा मनो यस्य स तथोक्तः, यतीनां व्रतिनां गणस्थितीः, पश्यन् विचारयन्, 'ये निर्जितेन्द्रियग्रामा यति- नो यतयश्च ते ' इत्यमर: । ' यतिर्विच्छेदसंज्ञितः इत्युक्तयति- गणस्थितीश्च ; अत्र विच्छेदाभावो दोषः, अत्र विच्छेदाभावो गुण इत्यादिस्थितीश्च पश्यन् . गौरवादिवित् गुरुभावं प्राप्तवान्, वर्णानां गुरुत्वलघुत्वाद्यभिज्ञश्च वर्णादिनियतं ब्राह्मणादिवर्णानियतं अक्षरगणादिनियतं च, वृत्तं आचारं आर्यादिवृत्तं च, नियुङ्क्ते उप- दिशति ; अतो वृद्धान् दृष्ट्वा अनुतिष्ठेदिति भावः ॥ २ ॥ सदसद्विवेकः परिशुद्धमुखादवगन्तव्य इत्याह- सुवर्णमपि दुर्वर्ण युक्त्या दर्शयितुं कचित् । व्यनक्ति शुद्धिं सहसा शुचिरेकः स्वतैक्ष्ण्यतः ॥ ३ ॥ सुवर्णमपीति ॥ एकः शुचिः अभिजनविद्यावृत्तैः शुद्धः वह्निश्च, ' शुचिरप्पित्तम्' इत्यमरः । क्वचित् पुरुषे हिरण्यादौ च युक्त्या स्वयोगेन, सुवर्णे शोभनब्राह्मणादिजातिं दुर्वर्ण शूद्रादिजातिं च शूद्रा- दिष्वपि केषु चिद्यज्ञोपवीतादिधारणसंभवात्, सुवर्ण शोभनवर्ण दुर्वर्णे च दर्शयितुं स्वतैक्ष्ण्यतः स्वतेजेामहिम्ना, सहसा शुद्धिं शोभनं परीक्षितपद्धतिः । वनक्ति प्रकटयति यथा अभिमुखतो हिरण्यरजतादिशुद्धिर्ज्ञायते तथा परिशुद्धयोगात् दुष्टादुष्टस्वरूपे ज्ञायेते इति भावः । ' सुवर्णमपि दुर्वर्ण दर्शयितुमिति विरोधस्यार्थान्तरेणाभासितत्वात् विरोधाभासः ॥ महात्मसु दुर्जनेनारोपितं दोघं केऽपि न गृह्णन्तीत्याह- स्वच्छ स्वादुविशुद्धानां स्रोतसां कलशोदधेः । दोषं केऽपि न मृष्यन्ति दुष्टजिह्येन कल्पितम् ॥ ४ ॥ स्वच्छेति ॥ दुष्टजिह्येन दुष्टसर्पेण वासुकिना कल्पितम्, कलशो- दधेः क्षीरसमुद्रस्य, स्वच्छस्वादुविशुद्धानां निर्मलमधुरशुभ्राणाम्, स्रोतसाम्, दोषं कालकुट विषम्, केऽपि न मृष्यन्ति न सहन्ते । एवं सत्सु दुष्टैरारोपितं दोघं केऽपि नाङ्गीकुर्वन्तीत्यर्थः ॥ ४ ॥ सतामिह लोके जातं सत्त्वगुणसंस्थापनं योग्यम्, दुष्टानां तु सत्त्व- संस्थापनं अन्यदित्याह-- . इहैव भुवने जातं सत्त्वसंस्थापनं क्षमम् । गृह्यते किमपि स्वस्थैरन्यत्किमपि जिह्मगैः ॥ ५ ॥ • इहेति ॥ इहैव भुवने लोके, जातं संभावितम्, सत्त्वसंस्थापनं स्वगुणवर्धनम्, क्षमं हितम्, 'आहारशुद्धौ सत्वशुद्धि:' इत्युक्त-- कारेण संवृद्धिः सम्पादनीयेत्यर्थः । 'न सत्त्वादारोग्यम्' इति सत्त्व- . गुगस्यैवात्मनो भवरोगनिवर्तनेनारोगतासम्पादकत्वात् 'इहैव नरक- व्याधिचिकित्सां न करोति चेत् । अनौषधमयं प्राप्य सरुजः किं करिष्यति' इति युक्तम् । स्वस्थैः पारलौकिकदुःखमजानद्भिः इद- 7 सुभाषितनीव्यां मेव भोग्यमिति मन्वानैः जिझगैः दुष्टैस्तु अन्यत्किमपि, सत्त्वसंस्था- पनमित्यनुषज्यते, सत्त्वं सत्त्वगुणः संस्थाप्यते नाश्यते बलवता- Satति सत्त्वसंस्थापनं रजस्तमोवृद्धिकरं सत्त्वनाशकं वस्तु, गृह्यते सेव्यते, विरुद्धविषयमदिरास्वादः क्रियत इत्यर्थः । अत्र निदर्शनं सर्पाः । जिह्मगैः सर्वैः पातालस्वर्गस्थैः अन्यत्किमपि सत्त्वसंस्था- पनं नागसहस्रबलकरं रसं पीयते, तत्तेषां स्वर्गस्थत्वात्सुखावहं एतेषां स्वस्थत्वभ्रान्त्या अन्यद्गृह्यते, तद्दुःखावहमिति भावः । नागलोके तादृशरसोऽस्तीति भारते भीमसेनपातालगमने वर्णितम् । संपूर्वः स्थाधातुः सम्यक्स्थापने नाशने च वर्तते ॥ ५ ॥ . दुर्वासनाबलवशात् दुष्टा: सच्छास्त्रं परिहरन्ति चेन्न शास्त्रस्य हानिः, किंतु त एव अज्ञानिन इत्यभिप्रेत्याह -- 1 कलकण्ठगल।स्वाद्ये कामस्यास्त्रे निजाङ्कुरे । निम्बवृत्तिभिरुद्गीर्णे न चूतः परितप्यते ॥ ६ ॥ कलकण्ठेति ॥ कलकण्ठगलास्वाद्ये कोकिलकण्ठास्वादनीये कल्मषनिवर्तनेन तदीयमधुरध्वनिहेतौ, अनेन पापनिवर्तनेन समीची- नज्ञानोत्पत्तिहेताविति गम्यते । कामस्यास्त्रे विषयसुखसाधने, अत्रापि भगवत्कैङ्कर्यादिसुखहेताविति गम्यते । निजाङ्कुरे स्वकीयपल्लवे, निम्ब- वृत्तिभिरुष्टेः उद्गीर्णे निम्बसंयोगादर्थादास्यप्रविष्टे वान्ते सति चूतो न परितप्यते परितापं नोपैति, जनानां परितापविषयो न भवति, उष्ट्रा एव निद्यन्त इति भावः ॥ तप सन्ताप इत्यस्मात् कर्तरि लट्, दिवादित्वाच्छ्यन् ॥ ६ ॥ : परीक्षितपद्धतिः । महाजनपरिगृहीतं निकृष्टमपि वस्तु श्रेष्ठं भवतीत्यभिप्रेत्याह- रत्नाभरणयोग्यानां राजान्तः पुरयोषिताम् । क्रीडाकङ्कणनिर्माणकाचोऽपि ललितायते ॥ ७ ॥ रत्नाभरणेति ॥ क्रीडाकङ्कणेषु निर्माणार्थकाचोऽपि मृद्भेदकृतदर्प- गोऽपि ललितायते परमभोग्यो भवति । 'भृशादिभ्यो भुव्यच्वेर्लोपश्च हल:' इति अभूततद्भावे क्यङ् । 'काचारिशक्यमृद्भेददृजः' इत्यमरः । गजान्तः : पुरयोषितामित्यनेन परमैकान्तिनो विवक्षिताः स्त्राभरणयो- ग्यानामिति महाराजपरिचरणीयत्वं विवक्षितम् । क्रीडाकङ्कणेत्यनेन तमेवायोग्यः कचिद्बुद्धिमान् निकृष्टोऽपि विवक्षितः ॥ ७ ॥ यत्र सारासारविवेचकाभावेन तुल्यत्वपरिकल्पनं तत्र मतां महतां मौनमेव युक्तमित्यभिप्रेत्याह-- मन्ये किन्नरमुख्यानां मौनं जगति सांप्रतम् । मशकक्कणितं यत्र वीणास्त्रन विकल्पितम् ॥ ८ ॥ मन्य इति ॥ यत्र मशककणितं मशकध्वनि: वीणास्वनेन विक- पितं तुल्यं कृतमित्यर्थः । तत्र जगति किन्नरमुख्यानां मौनमेव साम्प्रतं मन्ये, युक्तमिति निश्चिनोमि ॥ ८ ॥ क्वचित्कार्यवशेन निकृष्टपरिग्रहेऽपि हृदयाहादिनी प्रवृत्तिर्न भवतीत्याह- कटूनामिह सार्थत्वात्कामं भवति संग्रहः । तथापि वृत्तिर्न तथा रसज्ञानुमतिक्षमा ॥ ९ ॥ सुभाषितनीव्यां कटूनामिति ॥ कटूनां तीक्ष्णानां कोपवतामित्यर्थः । ' रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः ' इत्यमरः । शुण्ठी पिप्पली मरिचा इति वैद्यशास्त्रप्रसिद्धत्रिकटूनां च सार्थत्वात् सप्रयोजनत्वात् कामं यथेच्छं संग्रहः स्वीकारो भवति, तथापि वृत्तिः व्यापारः भक्षणं च, तथा समीचीनवत् रसज्ञानां रसिकानां रसज्ञाया जिह्वायाश्चानु- मतेरङ्गीकारस्य क्षमा योग्या न भवति । त्रिकटुकं निदर्शनम् ॥ ९ ॥ वेदशास्त्रवत्सु वृधा शब्दो न प्रसरतीत्यभिप्रेत्याह- नादमङ्कणतालानां लाङ्गली नटनोचितम् । श्रुतिक्षमेषु ग्रामेषु न मूर्छयति गीतिवत् ॥ १० ॥ नादमिति ॥ वेदशास्त्रसमर्थेषु ग्रामेषु लाङ्गलीनां नारिकेलानाम्, नटने वाय्वादिना चलने, उचितमभ्यस्तम्, अङ्कणतालानां च त्वरख- र्तितालवृक्षाणां सहभावेन प्रवृत्तं नादम् ; श्रुतयः स्वरारम्भकावयवश- दाः ताभिः क्षमेषु समर्थेषु, ग्रामेषु स्वरसन्दोहेषु, नटनोचितं नाट्योचितम्, तालानां कांस्यवाद्यानाम्, नादं गीतिवत् गीतिष्विव, न मूर्च्छति न वर्धयति । गीतिषु स्वरारोहावरोहणं मूर्च्छनम् ; तत्र ताल- नादस्य यथारोहावरोहणं नास्ति, तथा तत्र तालनादस्य मेलनं वेदपा- ठको न सहते, निरर्थकशब्दं न सहत इति भावः ॥ १० ॥ सदसद्विवेचनं कस्यचित् भाग्यवशेन भवति, नाभ्यासादित्याह -- विधिमन्तरेण विहगेन कुतः पयसोरशिक्ष्यत विवेकविधिः । परीक्षित पद्धतिः । कति वा दिनानि वद पर्यचिनो- त्कलशसुतः कबलयन् जलधिम् ॥ ११ ॥ विधिमिति । विहगेन हंसेन, विधिमन्तरेण दैवयनं विना, पयसोः क्षीरनीरयोः, विवेकविधिः विविच्यग्रहणम्, कुतोऽशिक्ष्यत अभ्यस्तः, न कुतश्चिदपीत्यर्थः । कलशीसुतः अगस्त्यो वा जलधिं कबलयन् कबलनार्थे कतिवा दिनानि पर्यचिनोत् परिचयमकार्षीत् । वदेति परिचयाद्यभावप्रकटनार्थः ॥ ११ ॥ परिशुद्धविद्य एव श्रेयानित्याह- एकयाsपि कलया विशुद्धया योऽपि कोऽपि भजते गिरीशताम् । भूयसीरपि कलाः कलङ्किताः प्राप्य कश्चिदपचीयते शनैः ॥ १२ ॥ इति श्रीकवितार्किक सिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु सुभाषितनीव्यां परीक्षित पद्धतिः द्वादशी । सैषा सुभाषितानां माला महनीयवर्णवृत्तगुणा । भावुकसङ्गथारूढा प्रियपद्धतिभूषिता जयति ॥ सुभाषितनीव्यां : एकयेति ॥ कश्चित्कलङ्किताः सम्यगभ्यासाभावेन अनिश्चि- तार्थाः, भूयसीः कलाः बह्वीः विद्याः, प्राप्य शनैः अपचीयते क्षीणो भवति, सुदृढविद्यो न भवति, विशुद्धया संप्रदाय पूर्वकं सम्यगभ्य- स्तया, सुनिश्चितार्थया एकया कलयाऽपि, योऽपि कोऽपि यः क- चिदपि, गिरि वाचि विषये, ईशतां स्वतन्त्रत्वम् भजते । अत्र चन्द्रः शिवश्व निदर्शनम् ॥ १२ ॥ तुषारगिरिसच्छायं तुलसीदामभूषणम् । तुरङ्गवदनं वन्दे तुङ्गसारस्वतप्रदम् ॥ श्रीमते रामानुजाय नमः । इति श्रीमच्छ्रीशैल कुलतिलकस्य वेङ्कटाचार्य सोमसुतः सुतस्य श्रीश्रीनिवासविदुषः कृतिषु सुभाषितनीवी- व्याख्यायां रत्नपेटिकाख्यायां परीक्षित पद्धतिः द्वादशी । श्लोकानुक्रमणिका ॥ VPKKK पृष्ठम् पृष्ठम् अ अमित्रे विश्वासः अकिञ्चित्कारिणाम् अमृतस्यन्दिनं अङ्गयुक्तः अवक्रस्तारकाधीशः अण्डजाः १५ अव्यवस्थितत्रृत्तानां अधिकोन्नतैरपि अस्तु तावत् अनङ्गीकृतकामानां अहार्यः सर्वमध्यस्थः अनन्तख्याति संपत्र: अहार्येण अनाकलितमानुष्याः ૪૪ अनिर्घातं धाराधरम् आ अनिःशेषितदातव्यं आत्मार्थ युक्त अनुकर्तुमहोतुं ५२ आभिमुख्यदशा अनुज्झित सुहृद्भावः आलोकावधि यद्वशेन अनेक मुखपापात्मा अपलिधियः इहैव भुवने जातम् अपार्थेतरयुक्तानां उ अपि निर्मुक्तभोगेन ૪ उत्पथा दुर्मदाः अपि सत्पथ ए अपि सन्तापशमनाः एकयापि कलया अपुनर्देहशब्दार्थ ८२ एकयैव गुरोर्दया अप्यनावर्जिताः सुभाषितनीव्यां पृष्ठम् पृष्ठम् कटूनामिह सार्थत्वात् जनयत्यनले दाहं कठिनः कृशमूलच जनित्वापि महागोत्रे कलकण्ठगलास्वाद्ये कलङ्किनि जले जलाशयस्य घोषेण ९ १ ६५ जातिमात्रशरणा: काकानां कोकिलानां ९५ जोषमेकपदे ૪ कामाधिकरणप्राह्यः कामं लिखतु कुतश्चिदचलस्थानात् केन चिद्दान्तकृत्येन क्षोभितो विबुधैः १५. त ૭૪ तदेव गृह्यताम् ८९. तमः स्वभावमलिनं २५ तमिस्राचारिणां ૨ तरतु विवित्सयाधि ग तान् घ्नन्ति हन्त गतियोंम्ना १९. त्वचं मांस जीवं गरुत्मति सुपक्षतां ५.३ द गुणजालप्रकर्षे दष्टसारङ्ग घ दुष्टैरारोपितः घोरास्त्य कमिधांवैराः चकोरानादर दृष्टपका प्रतिपदं देशकालविशेषेण २६ द्विजराजाइ छ छन्दः प्रत्ययशुद्धात्मा छिद्रं जनयताम् छलिनं सत्कथानर्हम् द्विजस्य सिंतपक्षस्य २६ धर्मसेतुनिविष्टानां ५८ धुर्याणामपि ९.६ ध न श्लोकानुक्रमणिका । पृष्ठम् नद्यास्तोयं नवदलपुटे पृष्ठम ६७ प्रद्युम्न प्रभूतोदित नादमङ्कणतालानां प्रमितिपरिष्कृत * निगिरन्तो जगत्प्राणान् निमीलयतु लोचने २७ प्रयुक्तं मन्त्रिभिः प्रशस्ति विन्दन्ति निरवधिगुणग्रामे निर्मुक्तभवन नीचानुस्मरणान्मन्ये नीतिः सती बलांतरेण ४१. बहु विदधति मण्डूकराविणं पतनानन्तरम् ३३ मतिमन्थजवेन पततां हन्त ३३ मनुव्यास परचिन्तै कनिरताः मन्ये किन्नर पश्यति परेषु ५ मरुद्भिः पीड्यमान पार्थिवानां महान्तं पुरुषं पुण्यगन्धाः महापुरुष पुंसः कस्यचित् मित्रे भवति पूर्व कल्पप्रकारेण मुक्तानुगुण प्रतिगृह्णति मुक्ताहार प्रकिपत्प्राप्तितः ६३ मुख्यदानोदक ≈ m ~ ~ r " 2 x x ~ J ४ ३ प्रतिपन्नवामदृष्टिः प्रतीपमुप ९. य यत्र पयःप्रभृति प्रथम सुजनाय २ यमेनोपक्रमे सुभाषितनीव्यां पृष्टम पृष्टम् येषां हिरण्यकशिपु मतामेत्र खपुष्पत्वं र सत्पथं छादयन रत्नाभरण ९९. सदसन्तौ व सदानवोक्किमहितः वदान्यथ ८३ सन्नियोगेन ૪૮ विक्रमाक्रान्त 05. सर्वेषामुत्तरा .. विदधातु धाम विधिमन्तरेण सुदर्शनभृता सुवर्णमपि दुर्वर्ण विधौ लब्धधृतिः विबुधमहिते विभुबन्धं प्राप्य विशुद्धवर्ण सुवृत्तस्यावदातस्य सूत्रं रत्नसमावेशात् ६८ स्थलपरिशेषित स्नेहः शैत्यम् विषमो गुणभेदेन विषयेष्वपि स्फटिकः स्वभाव स्वच्छ खादु श स्वतश्चतन्य शिक्षके हरिताकारो सतः सत्त्वविहीनानाम् ६५ स्वदृष्टिप्रतिघातेन ૪ स ह हरिकर पुष्कर हंस ADDENDA. पुट: ६५. शिक्षकेति ॥ शिक्षके शिक्षकसमीपे, हरिताकारो द्विजः शुकः, अपूर्ववर्णवान् भाति अकाराद्यक्षरवान् भाति । मेरौ, नीलतनुः द्विजः काकः, अपूर्ववर्णवान् पूर्ववर्णादन्यवर्णवान् स्वर्णवर्ण इत्यर्थः । सत्यनिष्ठे वसिष्ठे, कौशिकः विश्वामित्रः, अपूर्ववर्णवान् ब्राह्म- गवर्णवान्, वर्णशब्दो वर्णत्वपरः न विद्यते यस्मात् पूर्वो वर्णः सोऽपूर्ववर्ण: ब्राह्मणवर्णः, ब्राह्मणवर्णा न पूर्ववर्णोऽस्ति तस्य सर्वपूर्वत्वात् । यद्वा सत्यनिष्ठे गौतमे कौशिकः इन्द्रः, अपूर्ववर्णवान् अवर्णवान् इत्यर्थः । अवर्णम् अधरः परीवादो वा । । : निर्वादपरीवादापवादवत् इत्यमरः ॥ ५ ॥ पुटः ७६. 6 'अवर्णाक्षेप- यमेति ॥ ' अहिंसा सत्यवचनं ब्रह्मचर्यमकल्कता । अस्तेय- मिति पञ्चैते यमाश्चैव व्रतानि च । इति यमशब्दार्थः उक्तः । उपक्रमे ऐश्वर्यारम्भदशायां यमेनाहिंसनादिना, व्यवस्थितमेकरूपं पुरुषम्, विश्वाधीशं विश्वस्य भूमण्डलस्य अधीशं प्रभुं, जानन् अहिं- सादियुक्त एव मण्डलाधिपतिः भविष्यतीति निश्वयवानित्यर्थः सामादिषु सामदानभेददण्डेषु, तत्त्वज्ञः यथार्थज्ञानवान् च यो भवति । स तादृशः कः सिद्धिं नार्हति । एतादृश: सर्वोऽपि राजा सिद्धिं इष्टार्थप्राप्तिम् अर्हत्येवेत्यर्थः । अर्थान्तरम् । यं सनकमकं ब्रह्म- कुमारम्, एनोऽपक्रमे पापापगमे जाते व्यवस्थितं वौ परमात्मनि अवस्थितम्, विश्वाधीशं च विश्वेषाम् आधीनां मानसव्यथानाम् ईशम् अवश्यं च, अजानन् महर्षयो ज्ञातवन्तः । सामादिषु ऋग्यजुः- सामाथर्वणेषु, तत्त्वज्ञः स सनकः सिद्धिमर्हत्येव । ' विः प्रक्षिपरमा- त्मनो:' इति भट्टबाणः 'पुंस्याधिर्मानसी व्यथा' इत्यमरः । अर्थान्तरम् । एनोऽपक्रमे पापापगमे, विश्वाधीशं प्रपञ्चप्रभुं व्यव- स्थितं इंसस्थितं च यं ब्रह्माणं जानन् सामादितत्त्वज्ञः पुरुषो भवति, सः कः स ब्रह्मा सिद्धिं प्राप्यताम् अर्हतीति । अर्थान्तरम् । सामादि तत्त्वज्ञः पुरुषः व्ववस्थितं गरुडस्थितं हरिं विश्वाधीशं चराचरपतिं जानन् भवति । 'एको नैकः सवः कः किम्' इति ससंज्ञः स हरिः सिद्धिम् अनवाप्तावाप्तव्यप्राप्तिं नार्हति । ' नानवाप्तमवाप्तव्यम्' इति स्मृतेः ॥ ८ ॥ 1 प्रयुक्तमिति ॥ काले मन्त्रिभिः प्रयुक्तं प्रातिकूल्याभिवृद्धेः प्रागे- वामात्यैः कृतं, भक्तिभेदात् पुरस्कृतं पूजितं, साम समीचीनवचनं, ज्वलनवक्त्राणामपि क्रोधातिशयेन ज्वलनसदृशमुखानामपि परं संव- ननं श्रेष्ठं वशीकरणसाधनं । 'वशक्रिया संवननम्' इत्यमरः । अर्था- न्तरम् । काले बहिष्पवमानादिप्रयोगकाले मन्त्रिभिः सामगैः ऋग्यजुः- सामानि मन्त्राः तद्विदः मन्त्रिणः 'अहे बुध्न्य मन्त्रं मे गोपाय यमृप- यस्त्रैविदा विदुः। ऋचः सामानि यजूंषि । सा हि श्रीरमृता सताम् ' इति श्रुतेः । प्रयुक्तं गीतं, भक्तिभेदेन हिङ्काराख्येन भक्तिविशेषेण, पुरस्कृतं पूर्वभागे कृतं हिङ्कारस्य सामानवयवत्वेऽपि 'सप्तभक्तं 3 सामोपसीत' इति श्रुत्या स्तोत्राङ्गत्वेन च भक्तिशब्दः । प्रस्तावस्य मामावयवत्वेऽपि सामपुरस्कारकत्वं न संभवति, उद्गीथाद्येकदेश- पुरस्कारकत्वात्। ज्वलनवक्त्राणामपि अग्निमुग्वानां देवानामपि, साम- गीतिविशेषः परं संवननमिति । यद्वा भक्तिभेदैः प्रस्तावोद्गीथप्रति- हारोपद्रवनिदानाख्यैः विभागविशेषैः पूजितमिति ॥ ९ ॥ 1 विधाविति ॥ नीत्या जैमिनिमुनिप्रणीतन्यायकलापेन, विधौ शास्त्रार्थे, लब्धधृतिः निर्भयः, क्रियमाणे कर्मण्यन्यथाशङ्का हि दुरि- तोत्पत्तिशङ्काजननद्वारा भीतिमुत्पादयति, न्यायजनितो निर्णयः तां शङ्कां वारयति । विनतानन्दनः आनतानां ऋत्विजां दक्षिणाभिः आनन्दोत्पादकः, द्विजः त्रैवर्णिकः, स्थानेषु नियम्यमानैः भुजङ्गैरपि भूष्यते संज्ञपन विशसनादिषु नियुज्यमानैः कुपितैरपि स्तूयते । अर्था- न्तरम् । नीत्या इष्टदेशप्रापणेन तदर्थमित्यर्थः । विधौ विष्णौ, लब्ध- धृतिः प्राप्तधारणः, विनतानन्दनः द्विजः वैनतेयः पक्षी, स्थानेषु शिरः कर्णभुजवक्षःकटिपादेषु, नियम्यमानैः बध्यमानैः, भुजङ्गैः सर्वैरपि, भूष्यते अलंक्रियते ॥ १० ॥ 1 नीतिरिति ॥ व्यवहारासमर्थस्य कोकिलस्य शैशवे शरीररक्षार्थे का- ककुलान्तर्भावोऽपेक्षितः । साध्यनिष्पत्त्युत्तरकालं विजातीयसहवासस्य दु:ग्वावहत्वेन सजातीयसहवासस्य हृद्यत्वेन च काककुलबहिर्भावो- ऽपेक्षितः । एतदुभयं काकैरेव घटयतो विधेः साजात्यवैजात्यबुद्धयु- त्पादनरूपसामर्थ्यप्रशंसया परैरेव स्वार्थे घटयतः पुरुषविशेषस्य साम- प्रशंसां व्यनक्ति । हे परपुष्ट, कोकिल, यतः नीतेः, त्वं, बलिपुष्ट- कुलैः काककुलैः पुत्रीकृतोऽसि । एष विधिः तत्र कर्णे यथा पञ्चमम् 1 उच्चकार उद्गीर्णवान् विभक्तवान् । ततः काले तस्मिन् काले, परुषैः ' तैरेव यतो नीतेः दूरीकृतश्चासि । त्वयि धातुः सा नीतिः साजात्य- बैजात्यबुद्धयुत्पादनरूपा परं सती अत्यन्तं श्लाघ्या ॥ ११ ॥ पुट: ८३. , : वदान्येति ॥ कदर्यश्च गृहीतस्थिरलोभतः इदं स्थिरं भूयादिति भावात्, परान् अन्यान्, अर्थैः अयोजयन्, कस्मैचित् किंचित् अददत्, स्वजनानामनर्थहेतून् अर्थान् धनानि संचिनोति । परेभ्यो- ऽर्थे दत्ते स्वार्थनाशः स्यादिति मत्वा न किंचित् ददाति, प्रत्युत स्व- जनान् बाधते स्वार्थलाभायेति भावः । वदान्यः, गृहीतस्थिरलोभतः गृहीतमिदं स्थिरं मे भूयादिति इच्छया स्वान् अर्थान् आत्मीयधनानि, परानर्थैः परोपद्रवैः, अयोजयन् परोपद्रवे कृते तत्रानुकूलार्थनाशः स्यादिति बुद्धया स्वेनार्थेन परान् अपीडयन्नित्यर्थः । अर्थान संचिनोति ॥ ९ ॥ अनिःशेषित इति ॥ दातव्यम् अपरेप्सितं तेन च तत्प्रश्नो लक्ष्यते । अनिःशेषितः असमाप्तः दातव्यः ईप्सितप्रश्नो येन तम् । वदान्यमिति वादिनं अन्यदीप्सितं वदेति वादिनं पुरुषम्, अर्थी जनः, सव्रीलः नोपसर्पति व्रीलया आकुला वधूरिव, महत् अस्माकम् ईप्सितं कथमयं दास्यतीति आगमनदशायाम् उत्पन्नाया बुद्धेः सर्वमीप्सितम् दत्त्वा पुनः अन्यत् वद इति प्रश्न बाधितत्वात् लज्जा ॥ १० ॥ पुरुष / This book is a preservation photocopy. It was produced on Hammermill Laser Print natural white, a 60 # book weight acid-free archival paper which meets the requirements of ANSI/NISO Z39.48-1992 (permanence of paper) Preservation photocopying and binding by Acme Bookbinding Charlestown, Massachusetts 1996