Proofing

✦

This page has been fully proofread once and needs a second look.

७४
 
काव्यमाला ।
 
कृपाविपाकेन विना यथा मतिर्यथा सुपुत्रेण विना गृहस्थितिः ।

तथैव शोच्या हरिणाङ्कशेखरस्तवोपयोगेन विना सरस्वती ॥ १४ ॥
 

(तिलकम्)
 

 
यथा हि शीलेनेति, यथा विना द्यौरिति, कृपाविपाकेनेति, तिलकम् । शीलेन स-

दाचारेण विना यथा कुलस्त्री शोच्या शोचनीया भवति, विवेकेन कार्याकार्यविचारेण
विना यथा मनीषिता वैदुष्यं शोच्या भवति, यथा च श्रुतिः श्रवणं सदर्थबोधेन संस्ता-

त्त्विको योऽर्थस्तस्य बोधो ज्ञानं तेन विना यथा शोच्या भवति । 'भुजङ्गः खिङ्ग सर्पयोः ।

कामुकेऽपि' इति मङ्गःखः । महीभुजंगेन पृथ्वीपतिना नेत्रा विना यथा पृथ्वी शोच्या,
•

अरविन्दबन्धुना कमलबान्धवेन रविणा विना यथा द्यौर्विंयच्छोच्या, यथा शशाङ्केन

चन्द्रमसा विना निशीथिनी रात्रिः शोच्या भवति, विदग्धवर्गेण विदग्धानां मनोषिणां

निपुणकविकर्मकृतां वर्गेण समूहेन विना यथा सभा परिषच्छाछोच्या भवति । विभूतिर्महै-

श्वर्यमपि विनयेन क्षमापरपर्यायेण विना यथा शोच्या, मतिर्धिषणा कृपाया दीनजनोप-

काररूपाया विपाक आधिक्यं तेन विना यथा शोच्या, सुपुत्रेण गुणवता तनयेन विना

गृहस्थितिः । तात्स्थ्यात्ताच्छन्द्य (?) इति गृहशब्देन गृहस्थ उच्यते । गृहस्थितिर्गृहस्थ

स्थितिर्गृहमर्यादा वा यथा शोच्या, तथैव हरिणाङ्कशेखरस्तवोपयोगेन चन्द्रशेखरस्तुत्यु •
-
पयोगेन विना सरस्वती । कवेरिति शेषः । कविवाणी तथैव शोच्येत्यर्थः । 'भगवत्प-

दाम्बुजस्तवोपयोगेन' इति च पाठो दृश्यते । कुनृपतिप्रभृतिस्तुतिरूपं प्रलापं विहाय

श्रीशिवस्तुत्यमृतरसासिक्तचेतोभिः कंकविवरैस्तत्स्तुतिकथास्वेवाहर्निशं यत्नो विधेय

इत्यर्थः ॥ तिलकम् ॥
 

 
इदानीं सकलं विहाय श्रीशिवभक्तिप्रसङ्गेण मनो विनोदयति -
 

 
रमापि देवी मम नो मनोरमा क्षमापि मा[^१]मभ्यवपत्तुमक्षमा ।

मम क्षमैका भगवत्परा पुनर्भवार्तिभङ्गे सरसा सरस्वती ॥ १५ ॥
 

 
रमादेवी लक्ष्मीरपि मम संयतचित्तस्य मनोरमा हृद्या न । तथा क्षमापि । अत्रापि

देवीत्यध्याहारः । 'क्षितिक्षान्त्यौ क्षमे' इत्यमरः । क्षमादेवी पृथ्वीदेव्यपि मामभ्यवपत्तु-

माश्वासयितुम् । जन्मजरामरणार्दितमातुरमित्यर्थ: । सापि न क्षमा न समर्था । अ
त्र
सिद्धान्तपक्षमाह - ममैषा सरस्वती वाणी सरसा सह रसेन तदेकताभावनारसेन वर्तते

या सा तादृशी भवार्तिभङ्गे भवस्य जन्मनः । उपलक्षणमेतत् । भवार्तेर्जन्ममरणार्तेर्भङ्ग-

स्तस्मिन्सैवैका मम वाणी क्षमा भवति । आत्यन्तिकदुःखनिवृत्तिविधायिनी सैवैका भव-

तीत्यर्थः ॥
 

 
अचेतनो यः किल कुस्थितिप्रियः टपृथग्विधोपाधिशतक्षताशयः ।

निषेव्यते पादतले स यद्गिरिश्चिरं मुनीन्द्रैरपि [^२]शुद्धमानसः ॥ १६ ॥
 

 
[^
१]. 'अभ्यवपातुं' इति क पाठ:.
[^
२]. 'शुद्धमानसैः' इति ख- पाठः
 
Digitized by Google