Stotrarnava /317
This page has not been fully proofread.
श्रीरामशतकम्
सीतासमेतमजिनाम्बरमप्रमेयं
सौमित्रिणा नियतसेवितपादयुग्मम् ।
नीलोत्पलद्युतिमनन्तगुणं प्रशान्तं
श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ ८ ॥
श्री राघवं दशरथामजमप्रमेयं
सीतापतिं रघुकुलान्वय रत्नदीपम् ।
आजानुबाहुमरविन्ददलायताक्षं
रामं निशाचरविनाशकरं नमामि ॥ ९ ॥
श्रीराघवं दशमुखान्तकमम्बुजाक्षं
सीतामनोरमणमम्बुदनीलदेहम् ।
काकुत्स्थवंशपयसांनिधिपूर्णचन्द्रं
श्रीरामचन्द्रमनिशं शिरसा नमामि ॥ १० ॥
राकाशशाङ्कवदनं रघुवंशदीपं
राजाधिराजतनयं रमणीयमूर्तिम् ।
रात्रिञ्चरान्तकमनन्तगुणं मनोज्ञं
श्रीरामचन्द्रमनिशं शरणं भजेऽहम् ॥ ११ ॥
कन्दर्पकोटिसदृशं करुणाम्बुराशि
काकुत्स्थ वंशकनकाचलरत्नदीपम् ।
कञ्जातपत्रनयनं करचापबाणं
कल्याणराममनिशं शरणं भजेऽहम् ॥ १२ ॥
विश्वाधिपं विबुधपूजितपादपद्मं
विप्रप्रियं विमलपङ्कजपत्रनेत्रम् ।
विद्यात्मकं विजितराक्षसवीरकोटिं
श्रवीरराममनिशं शरणं भजेऽहम् ॥ १३ ॥
पद्मासनादिपुरुहूतसुरार्चितं तं
पापान्धकारतरणिं पवनात्मजेशम् ।
पङ्केरुहाक्षमखिलश्रुतिमौलिसारं
पट्टाभिराममनिशं शरणं भजेऽहम् ॥ १४ ॥
श्रीवत्सहारमकुटाङ्गदभूषिताङ्गं
श्रीभारतीविधृतचामरवीज्यमानम् ।
श्रीनायकं शिवविरिञ्चिनुताङ्घ्रिपीठं
श्रीरामचन्द्रमनिशं शरणं भजेऽहम् ॥ १५ ॥
२७१
सीतासमेतमजिनाम्बरमप्रमेयं
सौमित्रिणा नियतसेवितपादयुग्मम् ।
नीलोत्पलद्युतिमनन्तगुणं प्रशान्तं
श्रीरामचन्द्रमनिशं कलयामि चित्ते ॥ ८ ॥
श्री राघवं दशरथामजमप्रमेयं
सीतापतिं रघुकुलान्वय रत्नदीपम् ।
आजानुबाहुमरविन्ददलायताक्षं
रामं निशाचरविनाशकरं नमामि ॥ ९ ॥
श्रीराघवं दशमुखान्तकमम्बुजाक्षं
सीतामनोरमणमम्बुदनीलदेहम् ।
काकुत्स्थवंशपयसांनिधिपूर्णचन्द्रं
श्रीरामचन्द्रमनिशं शिरसा नमामि ॥ १० ॥
राकाशशाङ्कवदनं रघुवंशदीपं
राजाधिराजतनयं रमणीयमूर्तिम् ।
रात्रिञ्चरान्तकमनन्तगुणं मनोज्ञं
श्रीरामचन्द्रमनिशं शरणं भजेऽहम् ॥ ११ ॥
कन्दर्पकोटिसदृशं करुणाम्बुराशि
काकुत्स्थ वंशकनकाचलरत्नदीपम् ।
कञ्जातपत्रनयनं करचापबाणं
कल्याणराममनिशं शरणं भजेऽहम् ॥ १२ ॥
विश्वाधिपं विबुधपूजितपादपद्मं
विप्रप्रियं विमलपङ्कजपत्रनेत्रम् ।
विद्यात्मकं विजितराक्षसवीरकोटिं
श्रवीरराममनिशं शरणं भजेऽहम् ॥ १३ ॥
पद्मासनादिपुरुहूतसुरार्चितं तं
पापान्धकारतरणिं पवनात्मजेशम् ।
पङ्केरुहाक्षमखिलश्रुतिमौलिसारं
पट्टाभिराममनिशं शरणं भजेऽहम् ॥ १४ ॥
श्रीवत्सहारमकुटाङ्गदभूषिताङ्गं
श्रीभारतीविधृतचामरवीज्यमानम् ।
श्रीनायकं शिवविरिञ्चिनुताङ्घ्रिपीठं
श्रीरामचन्द्रमनिशं शरणं भजेऽहम् ॥ १५ ॥
२७१