Proofing

2026-04-02 21:27:30 by ambuda-bot

This page has not been fully proofread.

श्रीत्रैलोक्यमोहनवज्रपञ्जर रामकवचम्
 
त्रैलोक्यमोहनं नाम कवचं ब्रह्मरूपकम् ।
 
प्रातः काले पठेद्यस्तु कवचं मुक्तिसाधकम् ॥ ३३ ॥
 
कीर्तिश्रीकान्ति मेधायुर्भूतिश्च भवति ध्रुवम् ।
राममन्त्रमथ ब्रह्मकवचं मनुचोदितम् ॥ ३४ ॥
गुह्यमभ्यर्च्य विधिवत् पुनश्चर्यां समाचरेत् ।
अष्टोत्तरशतं जप्त्वा दशांश हवनादिकम् ॥ ३५ ॥
ततः सुसिद्धं कवचं सर्वकार्याणि साधयेत् ।
मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्यां विना ततः ॥ ३६ ॥
 
लाज आज्यं च ।
 
गद्यपद्यमयी वाणी तस्य वक्त्रात्प्रवर्तते ।
 
वक्त्रे तस्य वसेद्वाणी कलाश्च निश्चला गृहे ॥ ३७ ॥
पुष्पाञ्जल्यष्टकं दत्त्वा मलेनैव परे सकृत् ।
अपि वर्षसहस्राणि पूजायाः फलमाप्नुयात् ॥ ३८ ॥
 
विलिख्य भूर्जपत्रे तु स्वर्णस्थं धारयेद्यदि ।
 
कर्णे च दक्षिणे बाहौ स कुर्या वतं [दवितं ] जगत् ॥ ३९ ॥
 
त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् ।
 
तद्गात्रं प्राप्य शास्त्राणि ब्रह्मास्त्रादीनि यानि च ॥ ४० ॥
 
माल्यानि कुसुमानीव सुखदानि भवन्ति हि ।
 
सार्धमु..
......... हवने लक्ष्मीवाणीमुखे वसेत् ॥ ४१ ॥
 
य इदं कवचं ज्ञात्वा यो जपेद्राममन्त्रकम् ।
 
शतलक्षमवाप्नोति सोऽचिरान्मृत्यु [न्मुक्ति ] माप्नुयात् ॥ ४२ ॥
 
त्रैलोक्यमोहनं जप्त्वा न मन्त्रासिद्धिसाधकः ।
सशस्त्रघातमाप्रोति सोऽचिरान्मृत्युमाप्नुयात् ।
 
तस्मात् सर्वप्रयत्नेन कवचं धारयेद्बुधः ॥ ४३ ॥
 
२६९
 
॥ इति ब्रह्माण्डपुराणे पार्वतीश्वरसंवादे त्रैलोक्यमोहन वज्रपञ्जर रामकवचं नाम
दिव्यमन्त्रकवचं सम्पूर्णम् ॥