Proofing

2026-04-02 21:27:30 by ambuda-bot

This page has not been fully proofread.

श्री ईश्वर उवाच -
 
श्री त्रैलोक्यमोहनवज्रपञ्जररामकवचम्
 
शृणु वक्ष्यामि देवेशि कवचं परमाद्भुतम् ।
अत्यन्तगोपितं गुह्यं ब्रह्ममन्त्रौघविग्रहम् ॥ ४ ॥
कवचस्य ऋषिर्ब्रह्मा गायत्री छन्द ईरितम् ।
देवता रामचन्द्रोऽस्य विनियोगोऽष्टसिद्धिषु ॥ ५ ॥
ओम् । प्रणवो मे शिरः पातु तारकब्रह्मरूपधृत् ।
अनन्तोऽग्निसहस्रेन्दुः नासां पातु रघोः पतिः ॥ ६॥
रां रामाय नमस्तुभ्यं षडर्णो भुक्तिमुक्तिदः ।
फालं पायान्नेत्रयुग्मं राम्रो व्यक्षरसंज्ञकः ॥ ७ ॥
रां रामचन्द्राय नमो भ्रूद्वयं पातु मेऽन्वहम् ।
रां रामभद्राय नमश्चुबुकं पातु मे सदा ॥ ८ ॥
क्लीं मे पायाच्छ्रोत्रयुग्मं कर्णौ मे विश्वमोहनः ।
क्लीं रामाय नमःश्चेति मुखं मे परिरक्षतु ॥ ९॥
तारं रामचतुर्थ तु क्रोधास्रवह्निकल्पितम् (?) ।
अष्टर्णोऽयं परो मन्त्रो जिह्वां मे पातु सर्वदा ॥ १० ॥
गुणं बीजं तथा मायां हृद्रामाय ततश्चर ।
शिरो मां राममन्त्रोऽयं गण्डयुग्मं सदावतु ॥ ११ ॥
ओं हृद्भगवते रामचन्द्रभद्रौ च ज्ञेयता ।
अर्काद्विविधौ मन्त्रौ रक्षतां मम कन्धरम् ॥ १२ ॥
रां रामचन्द्राय स्वाहा षडर्णोऽव्याद्भुजद्वयम् ।
श्रीरामाय नमश्चासौ कक्षौ पातु खरान्तकः ॥ १३ ॥
 
...
 
नृसिंहो लक्ष्मीपाशाङ्कुशस्ततः ।
 
वर्माणि वधू युक्तो व्यर्णोऽव्यादुरःस्थलम् ॥ १४ ॥
 
श्रीरामचन्द्राय ततो रक्षोघ्नाय नमस्त्वयम् ।
हृदयं मे सदा पातु रघुवंशसमुद्भवः ॥ १५ ॥
 
रामाज्ञेतु वराहास्त्रं वह्निजायायुतं मनुः ।
वीरस्वरूपरामाभ्यां सप्तार्णा पातु पार्श्वकौ (?) ॥ १६ ॥
 
ओं श्रीं ह्रीं क्लीं ततो रामं च रामाय नमस्त्वयम् ।
दशाक्षराज्ञो मन्त्रो मे पुरतः पृष्ठतोऽवतु ॥ १७ ॥
 
२६७