Proofing

2026-04-02 21:27:30 by ambuda-bot

This page has not been fully proofread.

२६६
 
श्रीरामस्तोत्रेषु
 
श्रवणादस्य सन्तुष्टमानसाम्बुज .
 
1
 
चरेभ्योऽप्यचरेभ्योऽपि दूर्वादिभ्यस्त्वहेतुकम् ॥ ११२ ॥
 
साकेत देशवासिभ्यो दत्तमोक्ष दयानिवे ।
विजयीभव नित्यं त्वमयोध्याधिपनन्दन ॥ ११३ ॥
 
मङ्गलं राघवायास्तु मङ्गलं लक्ष्मणाय च ।
 
मङ्गलं भरतायास्तु शत्रुन्नायापि मङ्गलम् ॥ ११४॥
सीतायै मङ्गलं भूयात्तनयाय सदागतेः ।
तत्सेवनपरायास्तु तद्भक्तिस्नेहशये ॥ ११५ ॥
पुराय भूयात् सा केतना ने दिव्यर्धिमीयुषे ।
अस्तूत्तराय देशाय कोसलायापि मङ्गलम् ॥ ११६ ॥
 
सम्बोधनमिदं स्तोत्रं सूनुना वादिभीकृतः ।
वेङ्कटेशेन रामस्य रचितं जयतात् सदा ॥ ११७ ॥
 
॥ इति श्रीरामसम्बोधनस्तोत्रं सम्पूर्णम् ॥
 
१३. ॥ अथ श्री त्रैलोक्यमोहनवज्रपञ्जररामकवचम् ॥
 
अस्य श्रीत्रैलोक्यमोहनवज्रपञ्जरकवचस्य ब्रह्मा ऋषिः, गायत्री छन्दः,
श्रीरामचन्द्रो देवता, रां बीजं, रीं शक्तिः, रूं कीलकम् । मम समस्त प्रारब्ध-
परिहारद्वारा श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः । रामित्यादि षडङ्गन्यासः ।
भूर्भुवस्सुवरोमिति दिग्बन्धः । ध्यानम् ।
 
नीलाम्भोधरकान्तिकान्तमानिशं वीरासनाध्यासितं
 
मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानुनि ।
सीतां पार्श्वगतां सरोरुहकरां विद्युन्नभां राघवं
 
पश्यन्तं मकुटाङ्गदादिविलसद्रत्नोज्ज्वलानं भजे ॥ १ ॥
 
लमित्यादि पञ्चपूजा ।
 
ओं श्रीपार्वत्युवाच -
 
भगवन् सर्वदेश सर्वदेवनमस्कृत ।
 
सर्व मे कथितं देव राममन्त्रं विशेषतः ॥ २ ॥
 
त्रैलोक्यमोहनं नाम कवचं पूर्वसूचितम् ।
 
कथयस्व महाभाग यद्यहं तव वल्लभा ॥ ३ ॥