Proofing

2026-04-02 21:27:29 by ambuda-bot

This page has not been fully proofread.

श्रीरामसम्बोधनस्तोत्रम्
 
दृष्टत्रिकूटमूर्धस्थलङ्कापुर समन्ततः ।
तदीशमकुटीभङ्गकृता वानरभूभृता ॥ ७० ॥
 
पुनः सङ्गत तत्स्तोत्रपर तत्साहसाक्षम ।
निरुद्धलङ्कानगर काननालयपुङ्गवैः ॥ ७१ ॥
शक्रजित्प्रेरितैर्नागपाशैर्बद्धाङ्ग पक्षिणाम् ।
 
नाथेन मुक्तगात्रास्माद्बन्धनादपि कर्कशात् ॥ ७२ ॥
इतधूम्राक्ष पुत्रेण मरुतो वालिसूनुना ।
वज्रदंष्ट्रा सुहननकर मारुतसूनुना ॥ ७३ ॥
 
हता कम्पन नीलेन हत ( कपि) सेन महीभृता ।
हतरावणसैन्येशप्रहस्ताह्वयराक्षस ॥ ७४ ॥
 
प्रथमायोधने पङ्क्तिमुख प्रेरितशक्तितः ।
विद्धलक्ष्मण तेनानुद्धृतावरज शत्रुणा ॥ ७५ ॥
वायुसूनोस्तु सौहार्दाद्भक्त्या परमयापि च ।
उद्घृतौ कनिष्ठाश्रितवत्सल ( ? ) ॥ ७६ ॥
 
समितावधिरूढांससदागतिसुतोत्तम ।
पराजितस्वबाणार्तिमुक्तचापदशानन ॥ ७७ ॥
 
गत्वा विश्रम्यतां लङ्कामित्यनुज्ञाप्रदेशितुः ।
रक्षसां स्वाशुगस्मृत्या व्यथितारातिमानस ॥ ७८ ॥
तद्भयेनातिनिद्रस्योत्थापितस्यातियत्नतः ।
गिरिमात्रशरीरस्य कुम्भकर्णस्य युध्यतः ॥ ७९ ॥
 
कपिराजनखालूनकर्णनासस्य नर्दतः ।
 
वधकारिन् वालिसूनुहस्ताहतनरान्तक ॥ ८० ॥
 
हनुमत्संहृतस्वर्गनिलयान्तक तेन च ।
 
हत त्रिशीर्षातिकायप्राणासंहारिलक्ष्मण ॥ ८१ ॥
 
रावणीरितविध्यस्त्रविवशाङ्गानुजादिभिः ।
सार्धं वायुसुतानीतदिव्यौषधविशेषतः ॥ ८२ ॥
 
विमुक्तपीड सुग्रीवहुतकुम्भ हनूमता ।
निकुम्भप्राणहरण मकराक्षहर स्वयम् ॥ ८३ ॥
 
२६३