Proofing

2026-04-02 21:27:29 by ambuda-bot

This page has not been fully proofread.

२६०
 
श्रीरामस्तोत्रेषु
 
निवृत्तारण्यतस्सीताऽदर्शनात्तप्तमानस ।
 
अरण्येषु महीध्रेषु सरित्सु सरसीषु च ॥ २७ ॥
महिलाविचितोन्मत्तदशापन्न स्मरार्तिमन् ।
कृतसंस्कारगृध्रेश ब्रह्म मेधविधानतः ॥ २८ ॥
तन्मोक्षदायिन् सत्येन जितलोकप्रदानतः ।
शुश्रूषया च धनुषा जितदीनार्यशत्रुक ॥ २९ ॥
हतयोजनबाह्वाख्योदर तूर कबन्धक ( ? ) ।
[ततः प्रस्थाय ] शबरीं प्राप्त सम्पूजितैतया ॥ ३० ॥
 
॥ किष्किन्धाकाण्डः ॥
 
पम्पातीरे हनुमता सङ्गताथाग्रजन्मना ।
वालिना सूनुना भानोर्निरस्तेन समन्त्रिणा ॥ ३१ ॥
 
ऋश्य मूकाद्रिशिखरे कृतसख्याग्निसाक्षिकम् ।
सालभञ्जनसञ्जातप्रत्ययेन तदुक्तितः ॥ ३२ ॥
 
हतवालिन पुनस्तस्मै दत्तवानरराजत ।
सहतारारुमं वर्षाकाले माल्यवदाह्वये ॥ ३३ ॥
गिरौ सीताविरहजं प्राप्त दुःखमगोचरम् ।
वाचा, कनीयसाश्वस्त कुपिते मत्तचेतसि ॥ ३४॥
 
ग्राम्यभोगरते भानुतनये स्वानुजे पुरीम् ।
किष्किन्धां याति तद्द्वारे विहितज्यारवे सति ॥ ३५ ॥
 
भीतेन हनुमद्वाक्यात सुमित्रात्मज सान्त्वने ।
तारां प्रेषयता तेन कपीन् संगृहताखिलान् ॥ ३६॥
 
अरण्यपर्वतनदीवासानतिबलोत्कटान् ।
 
दिक्षु प्रेषयता सर्वास्वशेषान् वदताद्भुतान् ॥ ३७ ॥
 
तेभ्यो देशान् समन्विष्टवैदेहतनयात्मजे ।
बायोरर्पित कार्यत्वाद्दत्ताङ्गुलिविभूषण ॥ ३८ ॥
 
ताराङ्गदादियुक्तेन तत्र तत्र विचिन्वता ।
 
सीतां कालात्ययात्तीक्ष्णदण्डत्वाद्वानरप्रभोः ॥ ३९ ॥
 
भीतेनाश्वस्तमनसा सम्पातेर्वचसा पुनः ।
 
स्वभ्रातृवधदुःखस्य तस्मै दत्तजलाञ्जलेः ॥ ४० ॥