Stotrarnava /305
This page has not been fully proofread.
श्रीरामसम्बोधनस्तोत्रम्
पितुर्मरणतः पश्चान्मातुलस्य कुलात् पुरीम् ।
अयोध्यामागतेनात्मज [नकादर्शनो ]द्भवात् १३ ॥
कोपात् सन्तप्तमनसा राज्यप्राप्तौ विरागिणा ।
वसिष्ठाद्यनुशिष्टेन निन्दितातपुरोधसा ॥ १४ ॥
भ्रात्रा शिष्येण दासेन भरतेन [मुहुर्मुहु: ] ।
शिरसा याचितास्मै तु दत्तश्रीपादुकाद्वय ॥ १५ ॥
तस्मिन्निवृत्ते संत्यज्य चित्रकूटगिरिं गत ।
अत्र्याश्रमं तत्प्रिययानसूयाभिख्यया ततः ॥ १६॥
दिव्याम्बराङ्गरागादिवस्तुना जानकीगुणैः ।
प्रीतया मानितात्मीयदारानिन्दिततत्पद ॥ १७ ॥
॥ अरण्यकाण्डः ॥
प्रविष्टदण्डकारण्य तद्वासिमुनिसत्तमैः ।
आशासानै[ दैत्यवधं ] स्वरक्षार्थमुपस्थित ॥ १८ ॥
प्रतिश्रुतावनैतेषां भवद्विषयवासिनाम् ।
विराधमाथिन्नात्मीयपादचाराचिताश्रम ॥ १९ ॥
शरभङ्गादियमिनां वचसा [ प्रीतमानस ] ।
प्राप्तपञ्चवटीस्थान रम्ये गोदावरीतटे ॥ २० ॥
वृषस्यन्त्या शूर्पणख्या पतित्वेनार्थितार्तया ।
सौमित्रिणा छिन्ननासाकर्ण तस्याः स्वबाहुना ॥ २१ ॥
तत्क्षणेन तदार्त्यत्थखरादिरिपुभञ्जन ।
चतुर्दशसहस्रत्रियामाचरनिषूदन ॥ २२ ॥
तच्छ्रुत्वा सरुषा पङ्क्तिवदनेन तनूजत: ( ? ) ।
सुन्दस्य स्वसहायेन मायामृगवपुर्भृता ॥ २३ ॥
बिलोभितात्मदाराथ तया प्रेरित तद्गृहे ।
मारीचानुगतैतस्य प्राणहारिन्ननुद्रुत ॥ २४ ॥
जानकीवाक्यतप्तेन लक्ष्मणेन दशास्यतः ।
विजनादाश्रमपदात् गृहीतप्रिय चोरतः ॥ २५ ॥
मध्येमार्ग खगेन्द्रेण विरथेन कृताजिना ।
तत्प्राणहारिणाशोकवनिकास्थापितप्रिय ॥ २६ ॥
२५९