Stotrarnava /304
This page has not been fully proofread.
१२. ॥ अथ श्रीरामसम्बोधनस्तोत्रम् ॥
मत्स्य कर्म कि मर्त्यसिंह वामन भार्गव ।
राम प्रलम्बहन् कृष्ण कल्किन् [ कल्के ] पाहि दशाकृते ॥ १ ॥
॥ बालकाण्डः ॥
राम दाशरथे रक्ष कौसल्यातनयाग्रज ।
भरतस्य च सौमित्र्योः क्रीडापर मनोहर ॥ २ ॥
अधीतवेदवेदाङ्गधनुर्वेद महामते ।
कौशिकार्थित तल्लब्धबलातिबल पाहि माम् ॥ ३ ॥
ताटकाताटकेयारे गाधिजाध्वररक्षक ।
पादरेणुकणत्राताहल्य कल्यो वने मम ॥ ४ ॥
माहेश्वरधनुर्भङ्गप्रीतवैदेहतत्सुत ।
गृहीतपणे सीतायाः स्वतातस्य नियोगतः ॥ ५ ॥
जामदग्न्यनिरुद्धाध्वन् धनुषा तत्तपोहर ।
प्रविष्टायोध्य भुञ्जान मानुषान् भोगसञ्चयान् ॥ ६ ॥
बहू नृत्न् भुविजया सार्धं तं मानसार्पितम् [ सन्मानसार्चित ] ।
श्रिया विष्णुरिवाजस्रं तया शोभित पाहि माम् ॥ ७ ॥
॥ अयोध्याकाण्डः ॥
राज्यदानसमुद्युक्तजनका सङ्ख्य सद्गुण ।
मन्थराहितरोषेण कैकेय्या विनितोत्सव ॥ ८ ॥
संत्यक्तराज्य तत्प्रीत्यै वनवासमहोदय ।
ससीतालक्ष्मणारण्यं प्रयातोद्दिश्य तापस ॥ ९ ॥
अनुयात जनेनापि दूरं साकेतवासिना ।
पितृभ्यां तमसातीरं प्राप्त वश्चिततज्जन ॥ १० ॥
शृङ्गवेरपुरे लब्धनिषाद क्षितिभृत्सख ।
तीर्णगङ्गासरित् भूयस्सन्निवर्तितसारथे ॥। ११ ॥
[ भरद्वाजस्य ] वचसा चित्रकूटमुपागत ।
सीतया प्राप्तविहृते रम्येष्वेतस्य सानुषु ॥ १२ ॥