Proofing

2026-04-02 21:27:27 by ambuda-bot

This page has not been fully proofread.

२५४
 
श्रीरामस्तोत्रेषु
 
सीता तु रोहिणी देवी चन्द्रस्त्वं लोकसौख्यदः ।
सीता संज्ञा भवान् सूर्यः सीता रात्रिर्भवान् दिनम् ॥ ४४ ॥
सीता देवी महाकाली महाकालो भवान् खलु ।
स्त्रीलिङ्गं त्रिषु लोकेषु यत्तत्सर्वं हि जानकी ॥ ४५ ॥
पुंनामलाञ्छितं वस्तु यत्तत्सर्वं भवान् प्रभो ।
सर्वत्र सर्वदेहेषु सीता षट्चक्रधारिणी ॥ ४६॥
तथा त्वमपि च क्षान्त स्त्रीजातिर्विश्वभासिनी ।
तस्माद्विश्वमिदं प्रोक्तं युवाभ्यां परिचिह्नितम् ॥ ४७ ॥
चिह्नितं शिवशक्तिभ्यां शरीरं नान्तरा प्रभो ।
आवां राम जगत्पूज्यौ मम पूज्यौ युवां सदा ॥ ४८ ॥
त्वन्नामनापिनी गौरी त्वन्मन्त्रजपवानहम् ।
मुमुक्षोर्मणिकण्ठ्यन्धुरन्ध्रोदकनिवासिनः ( ? ) ॥ ४९ ॥
 
अहं दिशामि ते मन्त्रं तारकब्रह्मवाचकम् ।
श्रीरामरामरामेतीत्येतत्तारकमुच्यते ॥ ५० ॥
 
अतस्त्वं जानकीनाथ परं ब्रह्मासि निश्चितम् ।
त्वन्मायामोहिताः सर्वे न त्वां जानन्ति तत्त्वतः ॥ ५१ ॥
 
इत्युक्तः शम्भुना रामः प्रसादप्रवणोऽभवत् ।
विश्वरूपधरः श्रीमानद्भुताकारदर्शनः ॥ ५२ ॥
 
तं तथारूपमालोक्य नरवानरदेवताः ।
 
न द्रष्टुमपि शक्तास्ते तैजसं महदद्भुतम् ॥ ५३ ॥
भयाद्वै त्रिदशश्रेष्ठाः प्रणेमुश्चातिभक्तितः ।
भीता विज्ञाय रामोऽपि नरवानरदेवताः ।
मायामानुषतां प्राप्य सर्वानेवाब्रवीद्वचः ॥ ५४ ॥
 
श्रीरामचन्द्रः -
 
शृणुध्वं देवता यो मां प्रत्यहं संस्तविष्यति ।
स्तवेन शम्भुनोक्तेन वेदतुल्येन मानवः ॥ ५५ ॥
 
विमुक्तः सर्वपापेभ्यो मत्सारूप्यं समश्नुते ।
रणे जयमवाप्नोति न क्वचित् परिभूयते ॥ ५६ ॥
भूतवेतालकृत्यादिग्रहैश्चापि न बाध्यते ।
 
अपुत्रो लभते पुत्रं पतिं विन्दति कन्यका ॥ ५७ ।