Stotrarnava /299
This page has not been fully proofread.
श्रीरामविश्वरूपस्तवः
अत्यमर्त्यतया रूपमुपमातीतमुज्ज्वलम् ।
दृष्ट्वा तुष्टाव हृष्टात्मा शंकरो द्रष्टुमागतः ॥ ३० ॥
कृताञ्जलिपुटो भूत्वा सानन्दो गद्दाकुलः ।
हर्षयन् सकलान् देवान् मुनीनपि च मानवान् ॥ ३१ ॥
नमो मूलप्रकृतये नित्याय परमात्मने ।
सच्चिदानन्दरुपाय विश्वरूपाय वेधसे ॥ ३२ ॥
नमो निरन्तरानन्दमूलकन्दाय विष्णवे ।
जगत्त्रयकृतानन्दमूर्तये दिव्यमूर्तये ॥ ३३ ॥
नमो ब्रह्मेशपूज्याय सर्वदेवमयाय च ।
नमो विष्णुस्वरूपाय सर्वरूपाय ते नमः ॥ ३४ ॥
उत्पत्तिस्थितिसंहारकारिणे त्रिगुणात्मने ।
नमोऽस्तु निर्गतोपाधिस्वरूपाय मुदात्मने ॥ ३५ ॥
अनया दिव्यया देव्या सीतयोपाधिधारिणे ।
नमः पुंप्रकृतिभ्यां च युवाभ्यां जगतां कृते ॥ ३६ ॥
जगन्मातापितृभ्यां च सीतायै राघवाय च ।
नमः प्रपञ्चरूपिण्यै निष्प्रपञ्चस्वरूपिणे ॥ ३७ ॥
नमो ध्येयस्वरूपिण्यै योगिध्येयात्मधारिणे ।
परिणामापरीणामनित्याभ्यां च नमो नमः ॥३८॥
कूटस्थबीजरूपाभ्यां जानक्यै राघवाय च ।
सीता लक्ष्मीर्भवान् विष्णुः सीता गौरी भवान् शिवः ॥ ३९ ॥
सीता स्वयं हि सावित्री स्वयं ब्रह्मा चतुर्मुखः ।
सीता शची भवानिन्द्रः सीता भैमी नलो भवान् ॥ ४० ॥
सीता संहारीणी देवी यमरूपधरो भवान् ।
सीता तु मानसी देवी निर्ऋतिस्त्वं रघूत्तम ॥ ४१ ॥
सीता तु भार्गवी देवी वरुणो यादसां पतिः ।
सीता सदागतिर्देवी जगत्प्राणधरो भवान् ॥ ४२ ॥
सीता तु सर्वसम्पत्तिः कुबेरस्त्वं जगत्पते ।
सीता च देवी रुद्राणी भवान् रुद्रो महाबलः ॥ ४३ ॥
२५३