Stotrarnava /298
This page has not been fully proofread.
२५२
श्रीरामस्तोत्रेषु
निनेदुः पुष्पवर्षाणि ववृषुश्च समन्ततः ।
दिव्याम्बरैर्भूषणैश्च दिव्यगन्धानुलेपनैः ॥ १६ ॥
पुष्पैर्नानाविधैर्दिव्यैर्देव्या सह रघूहम् ।
अलंकृतः स शुशुभे मुनिभिर्वेदपारगैः ॥ १७ ॥
छत्रं च चामरं दिव्यं वृतवाँलक्ष्मणस्तदा ।
पार्श्वे भरतशत्रुघ्न्नौ तालवृन्तौ विवेजतुः ॥ १८ ॥
दर्पणं प्रददौ श्रीमान् राक्षसेन्द्रो विभीषणः ।
दधार पूर्णकलशं सुग्रीवो वानरेश्वरः ॥ १९ ॥
जाम्बवांश्च महातेजाः पुष्पमालां मनोरमाम् ।
वालिपुत्रस्तु ताम्बूलं सकर्पूरं ददौ प्रियात् ॥ २० ॥
हनुमान् दीपिकां दिव्यां सुषेणस्तु ध्वजं शुभम् ।
परिवार्य महात्मानं मन्त्रिणः समुपासिरे ॥ २१ ॥
वृष्टिर्जयन्तो विजयः सुराष्ट्रो राष्ट्रवर्धनः ।
अकोपो धर्मपालश्च सुमन्त्रश्चाष्टमः स्मृतः ॥ २२ ॥
राजानश्च नरव्याघ्रा नानाजनपदेश्वराः ।
पौराश्च नैगमा वृद्धा राजानः पर्युपासते ॥ २३ ॥
ऋक्षैश्च वानरेन्द्रैश्च मन्त्रिभिः पृथिवीश्वरैः ।
राक्षसैर्द्विजमुख्यैश्च किंकरैश्च समन्वितः ॥ २४ ॥
परव्योम्नि यथा नित्यैर्देवतैः कमलापतिः ।
तथा नृपवरः श्रीमान् साकेते शुशुभे सदा ॥ २५ ॥
इन्दीवरदलश्यामं पद्मपत्रनिभेक्षणम् ।
आजानुबाहुं काकुत्स्थं पीतवखधरं हरिम् ॥ २६ ॥
कम्बुग्रीवं महोरस्कं विचित्राभरणैर्युतम् ।
देव्या सह समासीनमभिषिक्तं रघूत्तमम् ॥ २७ ॥
विमानस्थाः सुरगणा हर्षनिर्भरमानसाः ।
तुष्टुवुर्जयशब्दैश्च गन्धर्वाप्सरसां गणाः ॥ २८ ॥
अभिषिक्तस्तदा रामो वसिष्ठाद्यैः समन्त्रिभिः ।
शुशुभे सीतया देव्या नारायण इव श्रिया ॥ २९ ॥