Stotrarnava /297
This page has not been fully proofread.
श्रीव्यासः -
श्रीरामविश्वरूपस्तवः
तेषु स्तोत्रेषु किं श्रेष्ठ ब्रूहि मे तन्मुनीश्वर ।
त्वया निर्दिष्टदेवानां स्तौत्रेषु च परं वरम् ॥ ३॥
कोटि कोटिगुणाधिक्यं ब्रह्मणा कथितं पुरा ।
वैष्णव स्तोत्रवर्येषु सर्वेष्वपि नदीसुत ॥ ४॥
अनन्तपुण्यफलदा रामस्येयं महास्तुतिः ।
तामहं संप्रवक्ष्यामि शृणु भीष्म शुचिव्रत ॥ ५ ॥
सर्वपापप्रशमनीं मानसेप्सितदायिनीम् ।
निहत्य रावणं सङ्ख्ये त्रिलोकीजनदुर्जयम् ॥ ६ ॥
महामोहमिवोद्रिक्तं ब्रह्मदत्तमहावरम् ।
रामः परमधर्मात्मा मायामानुषविग्रहः ॥ ७ ॥
अयोध्यानगरी प्राप्तो वृत्रहेवामरावतीम् ।
अथ तस्मिन् दिने पुण्ये शुभलग्ने शुभान्विते ॥ ८ ॥
राघवस्याभिषेकार्थं मङ्गलं चक्रिरे जनाः ।
वसिष्ठो वामदेवश्च जाबालिरथ काश्यपः ॥ ९ ॥
मार्कण्डेयश्च मौद्गल्यः पर्वतो नारदस्तथा ।
एते महर्षयस्तत्र जपहोमपुरस्सरम् ॥ १० ॥
अभिषेकं शुभं चक्रुः श्रीरामं रघुसत्तमम् ।
नानारत्नमये दिव्ये हेमपीठे शुभान्विते ॥ ११ ॥
निवेश्य सीतया तस्मिन् जनार्दनमिव श्रिया ।
सौवर्णकलशैर्दिव्यैर्नानारत्नमयैः शुभैः ॥ १२ ॥
सर्वतीर्थोदकैः पुण्यैर्मङ्गलद्रव्यसंयुतैः ।
दूर्वाग्रतुलसीपत्रगन्धपुष्पसमन्वितैः ॥ १३ ॥
मन्त्रपूतजलैः शुभ्रैर्मुनयः संशितव्रताः ।
जपन्तो वैष्णवान् मन्त्रांश्चतुर्वेदमयान् शुभान् ॥ १४ ॥
अभिषेकं शुभं चक्रुः काकुत्स्थं जगतां पतिम् ।
तस्मिन् शुभतरे लग्ने देवदुन्दुभयो दिवि ॥ १५ ॥
२५१